________________
नेमिनाथमहाकाव्यम् ] एकादश. सर्ग:
क्व स मोहनपो भटाग्रणी. क्व भवानेप च कातराग्रणी। विविनक्ति मदान्धलोचनो न पर स्वेतरयोलावलम् ॥४॥ मम नायभट स्वलीलया तव भग्ना शतशो यदाश्रयाः । किमियं तव शूरता सखे । पितृसद्मोपगतार्भवत्तदा ।।५०॥ किमिद तव विस्मृत सखे यदसो पूर्वभवेपु नेमिराट् । मम भूमिभुजात्मसात्कृत परिनिर्वाद्य भवन्तमागतम् ।।५।। अपसार्य भवन्तमग्रतस्तव पात्राणि कर्थितान्यहो । मयका स्वपतिप्रसादतः स्मरसीद स्मरणकपण्डित ।।५२।। क्षयमेष्यसि संयमाल्पधीरवजानन्मम नाथमुत्कटम् । प्लवगस्य पराभवो ध्रुवं मृगनाथे मरणकहेतवे ।।५३।। इति कर्कशमस्य भाषित भृशमाकर्ण्य चरित्रसैनिकाः । कुपिता कुमत गले दृढ किल धृत्वा निरकाशयन् बहि. ॥५४॥ विहित रिपुभि. स्वघर्षणः स च गत्वा नृपमोहपपदि। निजगाद समस्तमुच्चकैर्वतभूपालबल प्रकाशयन् ।।५।। कुपितोऽथ रणाय सोद्यम. स्वभटानाह्वयति स्म मोहराट् । वलिनो खलु मानशालिनो विषहन्ते न रिपो पराभवम् ।५६। परिमील्य ततो मदोद्धत वलमात्मीयमशेषमात । चरणेन समं रणोत्सव प्रचिकीर्षु प्रचचाल मोहराट् ॥५७।। पुरतोऽथ मम द्विषो महाभटानामभिधा गृहाण भो । इति पृष्ट उवाच सयमक्षितिपालेन सुबोधधीसख ॥५८।। शृणु नाथ ! तव द्विषो बले कुमतास्य सुभटो महावल । क्पटैविविधविचेप्टिते. सकल येन विडम्बितं जगत् ।।५।। अमुनैव जनाः प्रतारिता ननु लिङ्ग प्रणमन्ति, केचन । अपरे मुमुचुः कुटुम्बक वपुरन्ति च केऽपि भस्मना ॥६०॥
२ यशो. मा. स्वधर्पण