________________
६० ]
एकादश सर्गः [ नेमिनाथमहाकाव्यम् त्यजतस्तव नेमि मानस नहि लज्जा कणिकापि सयम । यदमोचि पुरापि राजभिर्वहुभिर्भूबलवत्प्रणोदितै. ॥३६।। अथवा चरगेश दु.सहे मम सैन्ये प्रवले विलोकिते । पुरतोऽपि पलायनाभिधा तव विद्या वशवर्तिनी सदा ॥३७॥ न पुनर्यदि नेमिपत्तन विजहासि व्रतभूप। सम्प्रति । न भविष्यसि तहि निश्चित चरित मे तव सस्तुत सदा ॥३८।। परिणामहित वचो मया स्फुटमाख्यातमिद तवाग्रत.। अथ यत्तव रोचतेतरा कुरु तत्सम्प्रति सयमाधिप ।।३।। कुमते वदतीत्यनर्गल चरणाधीश्वरनेत्रनोदित । स्मितपूर्वमभाषत स्फुट सचिव शुद्ध विवेकसज्ञक. ॥४०॥ तव दूत सुभापित ह्यदस्त्वमहो वाग्म्यसि बुद्धिमानसि । वचन भवता विनेश ननु वक्तु भुवि वेत्ति क पर ॥४१॥ विनिपात्य रिपून पर बलात् प्रगृहीत निजवासहेतवे। रिपुमोहभयाद् विमुच्यते कथमस्माभिरिद मन पुरम् ॥४२|| परिगृह्य तव प्रभोवलादपि दुर्गाणि पुराप्यनेकश । विशदात्मपुराणि सवथा परिभु क्ते व्रतभूपतिः स्वयम् ।।४।। यदि शक्तिरिहास्ति ते प्रभो. परिगृह्णातु तदा तु तान्यपि । परमेव विलोलजिह्वया कपटी भापयते जगज्जनम् ॥४४|| अवगच्छति योऽस्य लक्षण कितवस्याधिपते सखे ? तव । सपरिच्छदमेव तत्क्षणात् सुखमुन्मूलयतीममेप म ॥४।। तव दूत ! पति सकोऽधुना विनिवार्यो भवता कदाग्रहात् । चरणोत्कटसैन्यपावके भविताय शलभोऽन्यथा ध्र वम् ।।४।। इति सयममन्त्रिणोदिते रिपुदत. पुनरव्रवीदिदम् । मम चेतसि भासतेतरा चरण ! त्व सपरिच्छद कुधी ॥४॥ यदवाचि मया हित वचो ननु युष्मासु वभूव तत्कंधे। तदिद खलु सत्यमेव यन्नहि कार्या हितदेशना जडे ।।४।।