________________
एकादशः सर्गः
अथ भोजनरेन्द्रपुत्रिका प्रविमुक्ता प्रभुणा तपस्विनी । व्यलपद् गलदश्रुलोचना शिथिलागा लुठिता महीतले ॥१॥ मयि कोऽयमधीश । निष्ठुरो व्यवसायस्तव विश्ववत्सल । विरहय्य निजा स्वधर्मिणीनहि तिष्ठन्ति विहगमा अपि ॥२॥ अपि सन्मुखवीक्षणेन नानुगृहीता भवता कदाप्यहम् । मयि तत्किमिहेयती कृतिन्नबलाया भवतोऽप्रसन्नता ॥३॥ अपराधमृते विहाय मा यदिमामाद्रियसे व्रतस्त्रियम् । बहुभि. पुरुष पुरा धृता न हि तन्नाथ ! कुलोचित तव ॥४॥ रचयन्ति यदीगुत्तमा ननु कस्मै तदिद निवेद्यते। अथवा सरिता पतिनिजा स्थितिमुज्झन्निह केन वार्यते ॥५॥ कुरुषे यदि सर्वदेहिना करुणा किं तदह न देहभृत् । विजहासि यदेवमीश ! मामतिदीना करुणास्पद सताम् ॥६॥ सुरपादपवत्समीहित जगत पूरयसि त्वमेव हि। निहताशमिम जनं विदधीथाः किमिति प्रिय ! प्रभो ॥७॥ अपहृत्य मनो मम प्रभो नहि गन्तु तव युज्यते वने । परिगृह्य परस्य वस्तु यन्नहि धीराः प्रविशन्ति गह्वरे ।।८। लभते नियत स चिन्तित हृदि यो ध्यायति पूज्यमात्मनः । यदिद प्रवदन्ति सूरयो मयि किं तद् व्यभिचारमेष्यति ॥६॥ ननु राजिमती पुराप्यह मम नेमेश्च विचाल आयता। बत राजिरपाति वेधसा नियत दुर्बलघातको विधि ॥१०॥ अथवा मम दुष्टकर्मणा फलमेतत्सकल ध्रुव प्रभो। विजहाति मरुं यदम्बुद स हि दोषो मरुदुर्भगत्वज ॥११॥