________________
५४ ]
दाम सर्ग [ नेमिनाथमहाकाव्यम् किचिन्न कस्याप्यपराद्धमेभिरेतैर्यदूनामिह किन्तु भावि । सगौरव भोजनगौरव भो ! वचो जगादेति स दक्षिणस्थ ||३०|| ऊचेऽथ नाथ शृणु सारथे भो । गृह्णन्त्यदो भोजनगोरव ये । dsaiगतो गौरवमा वन्ति तेषा च न गौरवमातनोति ॥ ३१॥ * ततश्च मोक्षं पशवोऽपि मक्षु विश्वैकबन्धो परमप्रसादादासादयामासुरमी समस्तास्तथाविधाना महिमा ह्यचिन्त्य ॥ ३२ ॥ सूतो रथ स्वामिनिदेशतोऽय निवर्तयामास विवाहगेहात् । यथा गुरुज्ञानबलेन मक्षु दुर्ध्यानतो योगिजनो मन स्वम् ||३३|| दृष्ट्राय नेमिं विनिवर्तमान किमेतदित्याकुल वदन्त । तमन्वधावन् स्वजनाः समस्तास्त्रस्ता कुरगा इव यूथनाथम् ||३४|| वाग्भि सुधाचन्दनशीतलाभि प्रावोधयत्ता निति नेमिनाथ. । मरीचिभि कैरवकाननानि रात्रौ यथा कैरविणीविवोढा ||३५|| भो सशृणुध्व ननु धर्मपापहेतू प्रतीतौ सुखदुखयोर्वे । तयोश्च कारुण्यवध प्रसिद्धावेव स्थिते किं विदुषा विधेयम् ||३६|| दयैव कार्या सुखकांक्षिणात स्यात्सापि सर्वागिसुरक्षणेन । तदिच्छतावश्यमबालिशेन सग समस्त. परिहार्य एव ॥ ३७ ॥ अत्रान्तरे भास्वरकायकान्ति - प्रद्योतितागेपहरिद्विभागे अस्तोकलोकान्तिकदेवलोकविज्ञप्त ईश स्तुतिपूर्वमेवम् ||३८|| तुभ्य नमो नम्रसुरासुराय तुभ्य नमो मन्मथनिर्जिताय । तुभ्य नम स्मेरमुखाम्बुजाय तुभ्य नम सर्वजगद्धिताय || ३६ || आकार एवैप तव प्रतीक्ष्य निर्दोषभाव वदति प्रकाशम् । स्वरूपमावेदयतीह पूर्वं वाह यैव चेष्टा किल सज्जनस्य ॥४०॥
।
* तेपा गो स्वर्गे रव शब्दमाह्वानमिति यावत् नो नह्यातनोति विस्तृणोति । नहि तेषा स्वर्ग प्राप्तिरिति भावः इति टीका ।
३ महि वमपापे हेतू ।
४ महि, विमा भास्करकायकान्ति |