________________
नेमिनाथमहाकाव्यम् ]
दशमः सर्गः
[ ५३
पराञ्जयित्वा नयनाम्बुजातमेक परस्याञ्जनहेतवेऽथ । शलाकया कज्जलमाददाना शीघ्र गवाक्ष प्रति निर्जगाम ।।१८।। काचित्सुवर्णालयजालकान्तर्दृष्ट्वा प्रभु राजपथेऽवतीर्णम् । प्रह्लादक चन्द्रमिवाभ्रमार्गे सयोज्य पाणी प्रणनाम मूर्ना ॥१९॥ हले प्रतीक्षस्व निमेषमेक यथाहमप्येमि पिधाय गेहम् । इत्य वदन्ती स्वसखीमुपेक्ष्य पीठात्समुत्थाय दधाव काचित् ।।२०।। काभिश्चिदावासगवाक्षभूमौ मिथ स्वसम्मदवशेन कामम् ।
मक्ष्य पाहासमुत्थाय दवाव हारच्युता मौक्तिकरत्नपूगा मार्गेषु कीर्णा इव पुष्पपुजा. ॥२१॥ भोज्य सुराणामपि दुर्लभ यत् स्थाले विशाले परिवेपित तत् । हित्वा परा द्वारमभिप्रतस्थे चक्षुर्विलोल खलु कामिनीनाम् ॥२२॥ कस्तूरिकाकु कुमपत्रवल्ली. कपोलभित्तो परिकल्पयन्ती । प्रसाधिकाया अपसाय हस्तौ दधाव काचित्सहसा गवाक्षम् ॥२३॥ गवाक्षभूमौ स्थितकामिनीना विलोक्य वक्त्राणि तदावनिस्था. । सशेरते किं गगनप्रदेशे सुधाकराणामुदिता सहस्रा ॥२४॥ सश्लाघ्यमान सुरसुन्दरीभिः ससेव्यमानो नरदेवलोक । तत. प्रभुश्छत्रनिवारितोष्मा भोजस्य गेहं समया जगाम ||२५।। अत्रान्तरे राजिमती सखीभिरेव जजल्पे सखि । पश्य पश्य । वरोऽमरीणामपि दूर्लभोऽय नेमि समागात्तव भाग्यकृप्टः ॥२६॥ अन्योन्यं दृढपीवरस्तनतटै सघट्टयन्त्यो रसा
देता यादवभूभुजा युवतयस्तन्वन्ति गीतध्वनिम् । एते मगलपाठका जयरव कुवन्ति कोलाहल
श्रूयन्ते वधिरीकृताखिलदिशो वादिननादा अमी ॥२७॥ ततो हिमाानिव वेपमानान् निरुद्धदस्यूनिव कातराक्षान् । दृष्ट्या पशून वाटकचारकस्थान् जगाद सूत जगदेकवन्धु ॥२८॥ मान्यस्य तातस्य वलस्य किं वा भोजस्य लक्ष्मीरमणस्य वा किम् । किचिद् वराकै रपराद्धमेभी रुद्धा यदेवं वद वावदूक ॥२६॥