________________
३२ ]
पष्ठः सर्गः
[ नेमिनाथमहाकाव्यम्
यद्यर्कदुग्ध शुचिगोरसस्य प्राप्नोति साम्य च विष सुधाया. । देवान्तर देव । तदा त्वदीया तुल्या दधाति त्रिजगत्प्रदीप ॥३।। तीर्थान्तरीया अपि नामभिन्न त्वामेव नाथाप्तममी वदन्ति ।। आप्तो हि सिद्धो भुवि वीतराग. स तु त्वमेवासि चिदात्मरूप ॥३६।। यस्मिस्तव ज्ञानतरगिणीशे विश्वत्रयीय शफरीव भाति । तस्मै त्वदीयाय गुणाय भर्तनमोऽस्तु नित्य परमात्मवैद्य ॥७॥ एकान्तत प्राणिहिता यथा ते वाणी विभो । नैव तथा परस्य । यादृक् स्वमाता सुतवत्सला' स्यात्सौम्यापि ताहग् न भवेद् विमाता ।३८ देवासुराणा परिपूजनीयस्त्वत्पादचिन्तामणिरेष पूत. । केषाचिदेवासुमता जिनेन्दो । पुण्यात्मना दृग्विपय समेति ॥३६॥ अंद्य प्रलीन मम कर्मजाल भाग्य जजागार मदीयमद्य । वशीकृता सिद्धिवधूर्मयाद्य प्रभो त्वदीयाननदर्शनेन ॥४०॥ अक्षीणलक्ष्मीकमिद सदा ते सौम्य मुख तीर्थप | पश्यता न. । चित्तेषु नून प्रतिभासतेऽय चन्द्रोऽत्रिचक्षुर्मल एव देव ॥४१॥ तेजोमयोऽय मुखदर्पणस्ते विभाति कश्चिद् भगवन्नपूर्व. । यत्रापरेषा वदनानि नैव प्रापुः कदा यत्प्रतिरूपभावम् ।।४२।। तुभ्य नम केवलिपु गवाय, तुभ्य नम पूरुपपुण्डरीक । तुभ्य नम. ससृतिपारगाय, तुभ्य नम. सेवकतारकाय ॥४३॥ आख्यातु लोक. किमपीह सार्व । देवस्त्वमेवेति मति. परं मे । दृप्टे हि यस्मिस्त्वयि तात्त्विकाना हर्षाश्रु वर्षन्ति विलोचनानि ।।४४॥ सक्षिप्यते वाक् स्तवनात्त्वदीयान्नेयत्तया विश्वपते ! गुणानाम् । किन्तु श्रमान्मुग्धतयाथवार्य । स्तुत्वा व्यरसीदिति देवराज. ॥४५।।
४. यशो. मा., वि. मा परमात्मवेद्य ५ महि. ननु वत्सला ६. वि मा. जिनेन्द्र