________________
नेमिनाथमहाकाव्यम् ]
पष्ट. सर्ग
[ ३१
अथोल्लसच्चञ्चलकुण्डलाशुवाह लीकसलिप्तकपोल भित्ति । सप्रश्रयं योजितपाणिपद्मः स्तोतु प्रवृत्तो भगवन्तमिन्द्रः ॥२४॥ श्रिया निवाम प्रयत. प्रणम्य प्रभो त्वदीय चरणारविन्दम् । सेव्यं मुमुक्षुत्तम-राजहसंस्त्वा स्तोतुमिच्छामि जगत्प्रतीक्ष्य ॥२५॥ गुणानुरूप तव नाथ ! रूप सहस्रनेत्रोऽप्यलमीक्षितु न । सहस्रजिहवोऽपि गुणानुदारान् वक्तु प्रभूष्णुर्नहि तावकोनान् ।।२६।। तथापि नुन्नस्तव भक्तिसख्या स्तोतु गुणास्ते स्पृहयालुरस्मि । कि प्रेरितो देव । शिशुर्जनन्या गिरा स्खलन्त्यापि न वक्ति नाम ॥२७॥ तव स्तवेनार्य गरीरभाजा गलन्ति कर्माणि पुराकृतानि । निदाघसूर्यातपतापितानि हैमाचलानीव हिमस्थलानि ॥२८॥ सर्वास्ववस्थास्वपि लोकनाथ | भवान् प्रणूतो हरतेऽघजालम् । वृद्धोऽपि बालोऽपि युवापि सूर्यो हिनस्त्यवश्य हि तमःसमूहम् ॥२६॥ अनन्यवृत्ति स्मरण त्वदीय जिनेन्द्र ! भक्त्या विदधाति योऽत्र । सिद्धिश्रिया वा त्रिदशश्रिया वै वघ्वेव कान्त. परिरभ्यते स्म ॥३०॥ त्व यत्र चित्ते वमसि प्रवेश तत्रान्यदेवस्य ददासि नैव । विरोधमुक्तो विदितस्तथापि तत्त्व प्रभो । वा महतामगम्यम् ॥३१॥ त्वदाज्ञयवात्र जिनेन्द्र । सिद्धा. सिध्यन्ति सेत्स्यन्ति शरीरभाज. । पद्मानि वोध रविरोचिषेवालभन्त लप्स्यन्त इतो लभन्ते ।।३२।। एके जिन । त्वा प्रबिहाय मूर्खा. कान्तानुरक्तेषु सुरेषु रक्ताः । तेषा जडानामुचित तदेतत् तुल्या हि तुल्येषु रति लभन्ते ॥३३॥ अन्य रजय्यो जिन | मोहमल्ल. समूलकाष कषितस्त्वयैव । केनापि नो नैशमिवान्धकार निर्णाशित सूर्यमृते परेण ॥३४॥
३. यशो. मा , वि मा. स्तवेनाथ