________________
[ नेमिनाथमहाकाव्यम्
३० ] सनाथशीर्पोपरि राजते स्म पतन् घटेभ्यः पयसा समूहः । आकाशगङ्गासलिलप्रवाहो द्रष्टु जिनेन्द्र निपतन्निवत् ॥ १२ ॥ जिनेन्द्रगात्रात् स्म पतन्ति पीठे प्राक् तानि वारीणि ततोऽद्रिशृङ्ग । ततोऽपि निम्न समुपेत्य तस्युरुच्चा स्थितिर्वा क्व भवेज्जडानाम् ||१३|| जिनागस सगं पवित्रमम्भ सुरासुरेन्द्रैरपि तद् ववन्दे । गुणोत्तमाना विहिता हि सेवा फल जडेभ्योऽपि ददाति स . ||१४|| क्षीराम्बुधे क्षीरलवाविलग्ना प्रभोरलक्ष्यन्त विनीलकाये | नक्षेत्रपूगा इव देवमार्गे मुक्ता इवानीलशिलोपरिष्टात् ||१५|| दिव्यानि तूर्याणि मुराहतानि रेणुस्तदानी मधुरस्वराणि । आहन्यमाना अपि किं गम्भीराः कदापि कुत्रापि खर रसन्ति ॥ १६ ॥ अभ्यच्यं कर्पूरकुरगनाभिश्रीखण्डकृष्णागुरुकु कुमाद्ये । अपूपुजन् स्वर्गसदोऽथ नाथ प्रसूनवस्त्राभरणं. प्रधान ||१७|| विचित्रवर्ण स्पृहणीयशोभ सुरामुरेन्द्रैर्विहित सुगन्धि । अगेऽङ्गरागो रुरुचे तदीये दिवीव साम्भोमुचि सान्व्यराग ॥ १८ ॥ वन्द्यो पदौ यस्य पुरन्दराणा तस्यापि नाथस्य शिर समन्तात् । आरुह्य पुष्पावलयो हि तस्थु स्थान पवित्रा क्व न वा लभन्ते ||१६|| अत्यर्थमासीन्नयनाभिराम. आवद्ध दिव्याभरणो जिनेन्द्र | अग्रेऽपि हम. कमनीयमूर्तिर्हेमाम्वुजातं किमुताप्तसङ्ग ॥२०॥ सुधारसस्नानमिवामृतागो विश्वेशरूपे विगतोपमाने । दिव्याशुकाना परिकल्पितोय किंचिद् विशेष न पुपोष वेपः ॥ २१ ॥ सानन्दलज्ज मुहुरीक्षमाणाखिलोकनाथ ललना. सुराणाम् । तदायतानामनिमेपभाजा साफल्यमापुर्निजलोचनानाम् ||२२|| अन्यान् समस्तान् विपयान् विहाय सुरामुराणा' नयनाम्बुजानि । जिनेन्द्ररूपे युगपनिपेतुभृंगा इवोत्फुल्लपयोजखण्डे ॥२३॥
२. महि विहायामरासुराणा, यशो मा विहाय सुरामराणा
पष्ट स