________________
४२
जोवन्धर चम्पूकाव्ये संदधानः, क्वचिदतिविततकथेलीपल्लवतल्लजरुचिझर्गविराजिततया निजानुरागं प्रकटयन्निव, वचन विकचकोकनदकान्तिसंक्रान्तसरोवरशोभिततया कुमक्षोदझरमिव समाकलयन , कुत्रचन डोलार्थमिव लताप्रतानमातन्वन्नदश्यत । ।
सुतान्तरैस्तत्र समाचरन्तं क्रीडां भवन्तं स हि संददर्श । नक्षत्रवृन्दैः परिशोभमानं यथा सुराणां पथि बालचन्द्रभ ।। ६ ।। कियद्विदूरं पुरमित्यनेन पृष्टो गिरं त्वं मधुरामुवक्थ । मुग्वेऽम्बुजभ्रान्तिपतद्विरेफांस्तन्वन्सितान्दन्तमणिप्रभाभिः ॥१०॥
नगरोपवने बालक्रीडासमवलोकनात् । पुरमासन्नवृत्तीति वृद्धो नानुमिनोति कः ॥११॥ धूमदर्शनतो वह्निं नावगच्छति कः पुमान ।
शीते वाते समायाते कः समीपे जलस्थितिम् ॥१२।। इत्यादिवचनपीयूपधारासंसेकेन त्वदीयरूपलक्षणसंपदवलोकनजनितसुखवीजेन च हृदयालवालजनितप्रीतिप्रतानिनी तावकान्वयनिश्चयेन पुप्पितां चिकीर्षु दुर्धर्पजाठरवहनवाधां शिशमभ्रमरास्तैरन्धीकृततया श्यामलाकृततया, समुदाञ्चितं समुत्क्षेपितं यदञ्जनं कजलं तस्य पुञ्जो राशिस्तम्, संदधान इव बिभ्राण इव, क्वचित्कुत्रचित, अतिविततानामतिविस्तृतानां कङ्ग्रेलीपल्लवतल्लजानामशोककिसलयश्रेष्टानां रुचिझरीभिः कान्तिसन्ततिभिर्विराजिततया शोभिततया, निजानुरागं स्वकीयप्रेमाणम्, प्रकटयन्निव प्रकाशयन्निव, क्वचन कुत्रचित्, विकचकोकनदानां प्रस्फुटितरक्तारविन्दानां कान्तिभिर्दीप्तिभिः संक्रान्ता व्याप्ता ये सरोवराः कासारास्तैः शोभिततयालंकृततया, कुङ्कुमक्षोदस्य काश्मीरचूर्णस्य झरं वारिप्रवाहम्, समाकलयन्निव दधदिव, कुत्रचित्क्वचित्, डोलार्थमिव वनदेवतान्दोलिकार्थमिब, लताग्रतानं वल्लीसमूहम्, आतन्वन्विस्तारयन् , अदृश्यतावलोक्यत ।
सुतान्तरैरिति-स मुनिचरः, हि निश्चयेन, तत्र नगरोपवने, सुनान्तरैरन्यैः पुत्रः मह, क्रीडां केलिम्, समाचरन्तं कुर्वन्तम्, भवन्तम्, सुराणां देवानाम्, पथि मार्गे, गगन इति यावत्, नक्षत्रवृन्दरुडुसमू हैः, परिशोभमानं विराजन्तम्, बालचन्द्रं यथा द्वितीयेन्दुमिव, भवन्तं त्वाम्, संददर्श सम्यगवलोकयामास ॥ ६ ॥
कियद्विदूरीमति-पुरं नगरम्, कियद्विदूरं कियद्विप्रकृष्टम्, इतीत्थम् , अनेन मुनिचरेण, पृष्ठोऽनुयुतः, वम् जीवन्धरः, मुखे वदने, अम्बुजभ्रान्न्या कमलभ्रमेण पतन्तो झम्पापातं कुर्वन्तो ये द्विरेफा भ्रमरास्तान, दन्ता रदना मणयो रत्नानीवेति दन्तमणयस्तेषां प्रभा दीप्तयस्ताभिः, सितान् धवलान् , तन्वन् कुर्वन् , मधुरां मनोहराम, गिरं वाणीम्, उवक्थ कथयामासिथ । तद्गुणालंकारः ॥ १० ॥
नगरोपवन इति-नगरोपवने पुरोद्याने, बालानां शिशूनां क्रीडायाः केल्या विलोकनं दर्शनं तस्मात्, पुरं नगरम्, आसन्ना निकटस्थवृत्तिः सद्भावो ग्रस्य तत् , इत्येवम् को वृद्धो विशेषज्ञः, नानुमिनोति नावबुध्यते । अपि तु सर्व एव इति भावः ॥ ५५ ॥
धूमदर्शनतः-धूमस्य धूम्रस्य दर्शनं विलोकनं तस्मात्, धूमाद्धे तोरिति यावत् , कः पुमान् को मनुष्यः, वह्निमग्निम् , नावगच्छति नो जानाति । शीते शिशिरे, वाते वायौ, समायाते सति, समीपे पार्वे, जलस्य तोयस्य स्थितिः सद्भावस्ताम् , कः पुमान् नावगच्छतीति पूर्वार्धक्रियया सह सम्बन्धः । कार्याकारणस्य ज्ञानं सर्वेषामेव सुकरमिति भावः ॥ १२॥
इत्यादीनि-इत्यादिवचनमेव पीयूपबारा सुधासन्ततिस्तया संसेकः समुक्षणं तेन, रूपं च लावण्यं च लक्षगानि च सामुद्रिकशास्त्रप्रकटितशुभचिह्नानि चेति रूपलक्षणानि, तान्येव संपद् त्वदीया भवदीया या रूपलक्षगसंपत् , तस्या अवलोकनेन दर्शनेन जनितं समुत्पन्नं यत्सुखं शर्म तस्य बीजं कारणं तेन च, हृदयमेव चित्तमेवालवालमाबापस्तस्मिन् जनिता समुत्पन्ना या प्रीतिप्रतानिनी प्रीतिलता ताम् , तावकान्वयस्य त्वदीयवंशस्य निश्चयो दृढज्ञानं येन, पुष्पाणि संजातानि यस्यां तां पुष्पिताम् कुसुमिताम् ,