________________
द्वितीयो लम्भः
तपांसि भूपः स हि तप्यमानस्तपस्यया प्रापितमग्विलासः ।
विपाकतः सञ्चितकर्मणां तद्गन्तरं भरमकमाटिटीके ।। ६॥ तदनु दिने दिने प्रवर्धमानं भस्मकरोगमल्पेन तपसा विम्फुलिङ्गनेवान्धनं खद्योतेनेव संतमसं नखरञ्जिकयेव महारण्यं शमयितुमशक्नुवानः, पूर्व राज्यमिव तपःसाम्राज्यमपि परित्यजन , पापण्डितपसा समाच्छादितः, स्वैराहारान्नाफल इव गुल्मान्तर्हितो विप्किरान्समाददानो यथेष्टमवर्तिष्ट ।
तदनु नगरारामं सोऽयं जगाम दृढक्षुधा
___ क्वचिदविरलैरक्ताशोकोल्लसन्नवपल्लवैः । विशदवियतः सन्ध्यारागाञ्चितस्य सुलक्षणं
____ वचन कुसुमैरन्यारामान्हसन्तमिव स्थितम् ॥ ७ ॥ यस्मिन्पिके पश्चममञ्जगानं समाश्रिते मन्दमरु कुंसः।
आनाटयत्याततभृङ्गनादकलारवां लोललतावधूटीम् ॥ ८ ॥ यश्च किल कुत्रचिन्निरन्तरनिष्पतन्पुष्पपरिष्कृततया वनदेवतासमाराधनाय विस्तृतदुकूलसंस्तरणमिव बिभ्राणः, क्वचन कुसुमासवपानमत्तमधुपान्धीकृततया समुदञ्चिताञ्जनपुञ्जमिव
तपांसीति-तपांस्यनशनादीनि, तप्यमानः कुर्वाणः, तपस्यया तपश्चरणेन, प्रापिता लम्भिता रुग्विलामा कान्तिप्रकारा यं तथाभूतः, स पूर्वोक्तः, भूपो नृपः, लोकपालमुनिरिति यावत्, सञ्चितानि पुरा बहानि यानि कर्माणि सातेतरवेद्यादीनि तेषाम्, विपाकत उदयात्, तत्प्रसिद्धम्, भस्मक भस्मकनामकम्, रुगन्तरं रोगान्तरम्, आटिटी के प्राप । आपूर्वकस्य 'टीक गतौ' इत्यस्य लिटि रूपम् ॥ ६॥
तदग्विति-तदनु तदनन्तरम्, दिने दिने प्रतिदिवसम्, प्रवर्धत इति प्रवर्धमानम् एधमानम्, भस्मकरोगं भस्मकव्याधिम्, अल्पेन तुच्छेन, तपसा तपश्चरणेन, विस्फुलिङ्गेनाग्निकणेन, आर्दैन्धनमिव सरसेध्मसमूहमिव, खद्योतेन ज्योतिरिङ्गणेन, संतमसमिव निविडध्वान्तमित्र, 'अवसमन्धेभ्यस्तमसः' इत्यचू समासान्तः, नखरञ्जिकया नखरच्छेदिकया, महारण्यमिव दीर्घकाननमिव, शमयितुं शान्तं कर्तुम्, अशक्नुवानो ऽमसर्थों भवन् , पूर्व प्राग , राज्यमिव साम्राज्यमिव, तपःसाम्राज्यमपि तपश्चरणवैभवमपि, परित्यजन्मुञ्चन् , पापण्डितपसा-मायावितपश्चरणेन, समाच्छादितस्तिरोहितः सन् , गुल्मान्तहितः क्षुपाच्छादितः, नाफलः शाकुनिकः, विकिरानिव शकुन्तानिव, स्वैराहारान् स्वच्छन्दाहारान् जैनप्रक्रियाविरुद्धानिति यावत् , समाददानो गृह्णानः, यथेष्टं स्वैरम्, यथा स्यात्तथा, अवतिष्ट प्रवृत्तिमकरोत् ।
तदनु नगराराममिति तदनु तदनन्तरम्, सोऽयं लोकपालो मुनिचरः, दृढक्षुधा भूयिष्टबुभुक्षया, क्वचित्कुत्रचिद्, अविरलैः सवनैः, रक्ताशोकेषु लोहितवजुलेपूल्लसन्तः शोभमाना ये नवपल्लवा नूतनकिसलयास्तैः, सन्ध्या पितृप्रसूस्तस्या रागेणारुणिम्नाञ्चितं सहितं तस्य, विशदवियतो निर्मलगगनस्य, सलक्षणं सदृशम्, क्वचन कुत्रचित् , कुसुमैः पुप्पैः, अन्यारामान् इतरोपवनानि, हसन्तमिव तिरस्कुर्वन्तमिव, स्थितं विद्यमानम्, नगरारामं नगरोपवनम्, जगाम ययौ । उत्प्रेक्षालंकारः ॥ ७ ॥
यस्मिन्निति-यस्मिन् नगरारामे, पिके वनप्रिये कोकिल इति यावत् , पञ्चमञ्च तन्मजुगानञ्चेति पञ्चममञ्जुगानम् पञ्चमस्वरविशिष्टमनोहरगानम्, समाश्रिते प्राप्ते सति, 'यस्य च भावे भाव लक्षणम्' इति सप्तमी, मन्दश्चासौ मरुच्चेति मन्दमरुन्, स एव भ्रुकुंस इति मन्दमरुद्भुकुंसः, मन्थरपवननटः, आततो विस्तारितो भृङ्गनादो भ्रमरशब्द एव कलरवो मधुरशब्दो यया ताम्, लोललता चञ्चलवल्लर्येव वधूी युवतिस्तम्, आनाटयति नर्तयति । रूपकालंकारः ॥ ८॥
यश्च किलेति-यश्च नगरारामः, किलेति वाक्यालंकारे वार्तायां वा, कुत्रचित्क्वचित् , निरन्तरं नियंवधानं यथा स्यात्तथा निप्पतद्भिर्वर्षद्भिः पुष्पैः कुसुमैः परिष्कृततया विशोभिततया, वनदेवतानां वनाधिष्ठातृदेवीनां समाराधनाय सेवनाय, विस्तृतमातानितं यद दुकूलं मंस्तरणं क्षौमास्तरणं तत्, बिभ्राण इव दधान इव, क्वचन कस्मिंश्चित्स्थाने, कुसुमासवस्य पुष्परसस्य पानेन सेवनेन मत्ता वृतमोहा ये मधुपा