________________
जीवन्धरचम्पूकाव्ये इति निजविद्याललितलतामस्य हृदयालवालपल्लवितामवलोक्य, प्रीतेः पगं काष्टामधितिप्टमानः प्रसन्नचित्तवृत्तिग्यं सृरिः, एकदा विजने निजप्रान्तमावसन्तमन्तेवासिनमित्थमचीकथत् ।
श्रुताम्बुधः पारगत शृणु त्वं प्रवीण कस्यापि चरित्रभावम् । अवाप्य यः श्रोत्रपथेन चित्तं दयानटीनर्तनसूत्रधारः ॥ ४॥ विद्याधराणां विनिवासलोके कालं नृपः कश्चिदजीगमद्यः ।
कृत्येन नाम्नापि च लोकपालो विद्याधरोऽभूद्विबुधेश्वरोऽपि ।। ५ ॥ एकदा महीपतिरयमुदयशिखरिशेखरं हरिदश्व इव हर्यासनमलङ्कवन , गगनजलधिजलनीलीपटलमिव वियद्वनविहरमाणस्तम्वेरममिव सुरलोकसमारोहणार्थमाकलितसोपाननीलोपलमिव कञ्चन जलधरं नीलमपि नयनेन पीतमातन्वन , क्षीबाणां क्षितिपानामैश्वर्य क्षणक्षीणमिति बोधयन्तमिव तत्क्षणमन्तर्हितमवलोक्य निजनन्दनक्षिप्तराज्यभारो विजम्भितवैराग्यसाम्राज्यप्रतिष्ठामधितिष्ठन , सकलसांसारिकदुःखशमनदीक्षां जैनी दीक्षामाससाद ।
इतीति-इत्येवं प्रकारेण, निजविद्यैव स्वविद्यैव ललितलता सुन्दरवल्लरी ताम् , अस्य जीवन्धरस्त्य, हृदयमेव चित्तमेवालवालमावापस्तस्मिन् पल्लवितां किसलयिताम् , आलोक्य दृष्ट्वा, प्रीतेः प्रसन्नतायाः परामन्त्याम् , काष्ठामवधिम् , अधितिष्ठमानः प्राप्नुवन् , प्रसन्ना निर्मला चित्तवृत्तिर्मनःप्रवृत्तिर्यस्य तथाभूतः, अयं सूरिराचार्यः, एकदा एकस्मिन् काले, विजने निर्जने, निजप्रान्तं स्वाभ्यर्णम् , आवसन्तं विद्यमानम् , अन्तेवासिनं छात्रं जीवन्धरमिति यावत् , इत्थमनेन प्रकारेण, अचीकथत कथयामास । प्रायेण जैनकाव्येपु 'अचीकथत्' इति प्रयोगो दृश्यते स कथं सिध्यतीति न वेद्मि। पाणिनीयव्याकरणे तु 'अचकथत्' इत्येव साधुः ।
श्रुताम्बुधेरिति-हे श्रुतमेवाम्बुधिस्तस्य शास्त्रसागरस्य, पारंगतः पारगनस्तत्सम्युन्छौ पारगामिन् , प्रवीण निपुण त्वम् , कस्यापि जनस्य, चरित्रभावं जीवनोपाख्यानम् , शृणु समाकर्णय, यश्चरित्रभावः, श्रोत्रपथेन कर्णमार्गेण, चित्तं हृदयम् , अवाप्य लब्ध्वा, दयानध्याः करुणाशैलूप्या नर्तने नाट्ये सूत्रधारो नाट्यव्यस्थापको भवेदिति शेपः । 'नाट्योपकरणादीनि सूत्रमित्यभिधीयते । सूत्रं धारयतीत्यर्थे सूत्रधारो निगद्यते । इति सूत्रधारस्य लक्षणम् । यं श्रुत्वा भवच्चेतसि दयासंचारो भविष्यतीति भावः ॥ ४ ॥
विद्याधराणामिति-विद्याधराणां खेचराणाम् , विनिवासलोके निवासक्षेत्रे, विजयार्धगिराविति यावत् , कश्चिन्कोऽपि, नृपो राजा, कालं समयम् , अजीगमद् व्यपगमयामास । यो नृपः, कृत्येन कार्येण, नाम्नापि च नामधेयेनापि च, लोकपालो लोकपालयतीति लोकपालः, लोकपालनामधेयः, अभूद् आसीत् , किञ्च, विगतो बुधेश्वरो विबुधेश्वरो मूर्योऽपि विद्याधरो विद्याधारकः पण्डित इति यावत् , अभूदिति विरोधः । वियुधानां विदुपामीश्वरः स्वामीति परिहारः ॥ ५ ॥
एकदेतिएकदैकस्मिन्काले, उदयशिखरिणः शिखर मित्युदयशिग्वरिशिखरं पूर्वाचलचूलिकाम, हरिदश्व इव भास्वानिव, भास्वद्विवस्वत्सप्ताश्वहरिदश्वोप्णरश्मयः' इत्यमरः । हर्यक्षासनं सिंहासनम् । अलङ्कुर्वन् शोभयन् , अयं लोकपालः, महीपतिनृपः, गगनमेव जलनिधिर्गगनजलनिधिराकाशसमुदस्तस्य जलनीलीपटलमिव शेवालसमूहमिव, वियहने गगनकानने विहरमाणश्चासौ स्तरबेरमश्चेति विहरमाणस्तम्बेरमो भ्रमन्मातङ्गस्तमिव, सुरलोकस्य देवसमूहस्य, स्वर्गस्य वा समारोहणार्थमुच्चटनार्थम्, आकलितं निर्मित यानि सोपानानि निःश्रेणयस्तेषां नीलोपलमिव नीलग्रस्तरमिव, कञ्चन कमपि, जलधरं मेघम्, नीलमपि श्याममपि, नयनेन नेत्रेण, पीतं पीतगुण विशिष्टं पक्षेऽवलोकितम्, आतन्वन् कुर्वन् , क्षीबाणां मत्तानाम्, क्षितिपानां महीपतीनाम्, ऐश्वर्य वैभवम्, क्षणक्षीणमल्पकालभङ्गुरम्, इत्येवम्, बोधयन्तमिव ज्ञपयन्तमिव, तन्क्षणं तत्कालम्, अन्तर्हितं तिरोहितं नष्टमिति यावत्, अवलोक्य दृष्ट्वा निजनन्दने स्वकीयपुत्रे क्षिप्तो राज्यभारो येन सः, विजृम्भितं वृद्धिगतं यद् वैराग्यसाम्राज्यं निर्वेदवैभवं तस्मिन् प्रतिष्ठामास्थाम्, अधितिष्टन्, प्राप्नुवन् सन् , सकलानि समस्तानि यानि सांसारिकदुःखानि भवोद्भूताशर्माणि तेषां शमने दमने दक्षा समर्था ताम्, जिनस्येमा जैनी जिनसम्बन्धिनीम्, दीक्षां तपस्याम्, आससाद प्राप ।