________________
द्वितीयो लम्भः
अथ हृद्यतमं किञ्चन विद्यासदनमासाद्य वयस्यसंसदवतंसितं, जीवंधरः सकलकलाकलापैरपरकलाविलुब्धैरिव स्वयं निवासगृहतया परिगृहीताइखिलपण्डिताखण्डलाइस्मादाचार्यवर्यादखिलाः कलाः, बसन्तादिव वनप्रियः कलरवलीलाः, घनसमयादिव केकितरुणः केकाः, अध्यगीष्ट ।
तञ्चित्ताम्बुजमापेदे सूर्योलोकाद्विनिद्रताम् ।
प्रासूत च कलाजालमकरन्दझरी ततः ॥ १॥ समस्तविद्यावनितासमागमे निरस्तविना गुरुभक्तिरेव । विलोभनीयस्य वधूभिरन्ततः सुतस्य तस्य प्रबभूव दूती ।। २ ॥ पराभूते जीवन्धरशशभृता पर्वशशिनि
कलाचातुर्गुण्याद्विलसदमृतं वाचमगमत् । मुखं कान्तिः प्राप्ता सकलजगदानन्दकरता
तदीयाङ्गं प्रापत्पदनखमभूत्सोऽपि शशभृत् ।। ३ ।।
अथेति-अथ सिद्धमातृकाज्ञानानन्तरम्, हृद्यतममतिमनोहरम्, वयस्यानां सखीनां संसढ़ा समूहेनावतंसितं शोभितम्, किञ्चन किमपि, विद्यासदनं विद्यालयम्, आसाद्य प्राप्य, जीवन्धरः सत्यन्धरसुतः, अपराश्च ता भिन्नाश्च ताः कलाश्च वैदग्ध्यश्चेत्यपरकलास्तासु विलुब्धैरिवासक्तैरिव, सकलकलानां निखिलवैदग्धीनां कलापाः समूहास्तैः, स्वयं स्वत एव परप्रेरणामन्तरेणवेति यावत् , निवासगृहतया वासभवनन्वेन, परिगृहीतात्स्वीकृतात् , अखिलपण्डितेषु समस्तसूरिप्वाखण्डलः सहस्राक्षः श्रेष्ठ इति यावत् तस्मात , अस्मात् आचार्यवर्यात् आर्यनन्दिनामविद्वद्वरात् , अखिलाः सर्वाः, कला विद्या वैदग्धीर्वा, वसन्तात् सुरभिमासात् , कलरवलीला मधुरशब्दकेलीः, वनप्रियः कोकिल इव, धनसमयाज्जलदकालात् , केका मयूरवाणीः, 'केका वाणी मयूरस्य' इत्यमरः, केकितरुण इव मयूरयुवेव अध्यगीष्ट अध्येष्ट 'इङ् अध्ययने' इत्यस्य लुङि रूपम् , 'विभाषा लुङलुङगः' इति वैकल्पिको गाङादेशः, 'घुमास्थागापाजहातिसां हलि' इत्यात ईन्वम् । ___तच्चित्ताम्बुमिति–यतः कारणात् , तस्य जीवन्धरस्य चित्तमेव मन एवाम्बुजं कमलम् , मूरेराचायस्यालोको दर्शनमेव सूर्यस्य दिवाकरस्यालोकः प्रकाशस्तस्मात् , विनिद्रतां सावधानताम् पक्षे विकासिताम , आपेदे प्राप, ततः कारणात् , कलाजालमेव विद्यासमूह एव मकरन्दस्य मधुनो झरी धारा ताम् , ग्रासूत च, जनयामास च, रूपकालङ्कारः ॥ १ ॥
समस्तविद्येति-वधूभिर्नारीभिः, विलोभनीयस्याकर्षणीयस्य, तस्य सुतस्य जीवन्धरस्य, समस्न विद्या एव वनिता योपितम्ताभिस्तासां वा समागमः संयोगस्तस्मिन् , गुरौ भक्तिर्गुरुभक्तिर्गुरुप्रीत्यतिशय पुत्र, निरस्तं दूरीकृतं विन्नमन्तरायो यया सा, दूती दौत्यकर्मणि प्रवृत्ता अन्ततः कार्यसिद्धिपर्यन्तम् , प्रबभूव । गुरुभक्तिप्रसादादेव तस्याखिला विद्याः प्राप्ता बभूवुरिति भावः । वंशस्थोपेन्द्रवज्रयोः संमिश्रणादुपजातिवृत्तम् ॥ २॥
पराभूत इति-जीवन्धरः सात्यन्यरिरेव शश भृच्चन्द्रमास्तेन, कलानां चातुर्गुण्यं तस्मात् , जीवन्धरे हि चतुःषष्टिः कला आसन् पर्वशशिनि तु षोडशैव, इत्थं कलाचातुर्गुण्यहेतोः, पर्वशशिनि राकानिशाकरे, पराभूते पराजिते सति, तत्र विलसच्छोभमानम् , अमृतं पीयूषम् , वाचं वचनं, जीवन्धरस्येति यावत् , अगमत् प्रापत् , कान्तिीप्तिः, मुखं वदनम् , प्राप्ता गता, सकलजगतो निखिललोकस्यानन्दकरता सुखविधायकता, तदीयाङ्गं जीवन्वरशरीरम् , प्रापजगाम, स पराजितः, शशभृदपि पर्वचन्द्रोऽपि, स्वयम् , पदनखं चरणनखरम् , अभूदजायत । रूपकालङ्कारः शिखरिणीच्छन्दः ॥ ३ ॥