________________
द्वितीयो लम्भः
विपुमाहारयाच्ञापरतन्त्रितमानसमेनं कुहनातापसं भवान्भवनमानीय तदीयभोजनकृते पौरोगमादिदेश ।
तदनु त्वयि भोजनाथ यत्नं कृतवत्यारभतान्नमेप भोक्तुम् । तव वाङ्मयगोस्तनीविमिश्रं मुखशोभामृतपानकं पिपासुः ||१३||
तावदर्भ कस्वभावेन सर्वमुष्णमिदं कथं भुञ्जेऽहमिति रोदनवशेन नयनकञ्जयुगसञ्जातमक - रन्दपूरकानुकारिणीभिरश्रुधाराभिर्नयन कमलवास्तव्यलक्ष्मीवक्षःस्थलस्थपुटित मालामुक्ता इव किरन्तं भवन्तं समीक्ष्य, भिक्षुरयं विश्वातिशायिमतिमहिममहितस्य भृशमपरोदननिदानस्यापि तब रोदनं कथमिति चित्रभित्तीयते चित्तमित्यात्रभाषे ।
श्रुत्वा वाणीं तस्य मन्दस्मितेन तन्वन्निर्यत्तीरवारेति शङ्काम । इत्थं वाचामाचचक्षे भवान्वै मोचामाध्वीमाधुरी मादधानाम् ||१४|| श्लेष्मच्छेदो नयनयुगलीनिर्मलत्वं च नासा
शिङ्खानां भुवि निपतनं कोणता भोज्यवर्गे ।
४३
चिकीर्षु कर्तुमिच्छुम्, दुर्धर्पा चासौ जाठरदहनस्य बाबा चेति दुर्धर्पजाठरदहनबाधा ताम् कठिनोदराग्निपीडाम, शिशमयिपु' शमयितुमिच्छुम्, आहारस्य भोजनस्य याच्या प्रार्थनेन परतन्त्रितं वशीकृतं मानसं चित्तं यस्य तम्, एनमिमम्, कुनातापसं मिथ्यातापम् भवान् जीवन्धरः, भवनं गृहम्, प्रापय्य, तदीयभोजन कृते तं भोजयितुम्, पौरोगवं पाचकम्, आदिदेशाज्ञातवान् ।
आनीय
,
तदनु त्वयीति -- तदनु तदनन्तरम् त्वयि भवति, भोजनाय भोक्तुम्, यत्नमुद्यमम्, कृतवत विहितवति सति त्वयि भोक्तुमुद्यते सतीति यावत् तव भवतः, वाङ्मयानि वचनान्येव गोस्तन्यो द्राक्षास्ताभिर्विमिश्रं मिलितम् मुखशोभा वदनसौन्दर्यमेवामृतपानक पीयूपपेयं तत् पिपासुः पातुमिच्छुः, एप साधुः, अन्नं खाद्यपदार्थम्, भोक्तुमत्तुम् आरभत प्रारम्भं चकार ।। १३ ।।
"
2
तावदर्भ कस्वभावेनेति -- तावत् तावता कालेन, अर्भकस्वभावेन डिम्भनिसर्गेण पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः सर्वं निखिलम्, इदं भोजनम्, उष्णमशीतम्, वर्तते, कथं केन प्रकारेण, मुझे 'भुजोऽनवने' इत्यात्मनेपदम् इतीत्थम् रोदनवशेन - आक्रन्दनार्धन्येन, नयन कञ्जयुगे लोचनकमलयुगले संजातं समुत्पन्नं यन्मकरन्द कौसुमं तस्य पूरकस्य प्रवाहस्यानुकारिण्योऽनुविधायिन्यस्ताभिः, अश्रुधाराभिर्नयनसलिलसन्ततिभिः, नयनकमलवास्तव्या लोचनारविन्द्रकृत निवासा या लक्ष्मीः श्रीस्तस्या वक्षःस्थले भुजान्तरप्रदेशे स्थपुटिता नतोन्नतभावेन विद्यमाना या माला मौक्तिकस्र तस्या मुक्ता मुक्ताफलानीव, किरन्तं विक्षिपन्तम्, भवन्तम्, समीच्य दृष्ट्वा, अयमेषः, भिक्षुः साधुः, विश्वातिशायिनी सर्वाधिका या मतिर्बुद्धिस्तस्या महिम्ना माहात्म्येन महितस्य शोभितस्य, भृशमत्यन्तम्, सर्वथेति यावत्, अपगतानि दूरीभूतानि रोदननिदानानि रोदनादिकारणानि यस्य तथाभूतस्यापि 'निदानं त्वादिकारणम्' इत्यमरः तत्र भवतः, रोदनमश्रु विमोचनम्, कथं केन कारणेन, इतीत्थम्, चित्रस्य लेख्यस्य भित्तिरिव कुड्यमिवाचरतीति चित्रभित्तीयते, चित्तं हृदयम्, मदीयमिति शेषः इत्येवम्, आवभासे जगाद | श्रुत्वेति--तस्य भिक्षोः, वाणीं गिरम्, श्रुत्वा निशम्य, भवान् त्वम्, मन्दस्मितेन मन्दहसितेन, निर्यन्ती निर्गच्छन्ती चासो क्षीरधारा च पयोधारा चेति निर्यत्क्षीरधारा, इतीत्थम्, शङ्कां संशयम्, तन्वन्विस्तारयन्, सन्, मोचामाध्वीनां कदलीफलद्राक्षाणां माधुरी माधुर्य्यम्, आदधानां बिभ्रतीम्, इत्थं वक्ष्यमाणप्रकाराम्, वाचाम् वचनम्, भागुरिमते हलन्तादपि दाप् प्रत्ययो भवति । तथा चोक्तम्, 'वष्टि भागुरिरल्लोपमवाप्य रुपसर्गयोः । आप चैव हलन्तानां यथा वाचा निशा दिशा' ! इति । वै निश्चयेन, आचचक्षे कथयामास । 'चक्षिङ् व्यक्तायां वाचि' इत्यस्य लिटि रूपम्, 'वा लिटि' इत्यस्य वैकल्पिक ख्यादेशाभावपचे रूपम् । शालिनीच्छन्द: 'शालिन्यवन्ता म्रौ गौ गोऽब्धिले कै:' इति तल्लक्षणात् ॥ १४ ॥ श्लेष्मच्छेद इति — श्लेप्मच्छेदः कफापहारः नयनयुगल्या नेत्रयुगलस्य निर्मलत्वं स्वच्छत्वम्, नासाशिङ्गाणानां प्राणमलानाम् भुवि पृथिव्याम्, निपतनं नितरां पतनम्, भोज्यवर्गे खाद्यपदार्थसमूहे,
,
9