________________
जीवन्धरचम्पूकाव्ये शीर्पाबद्धभ्रमकरपयोदोपबाधानिवृत्ति
रन्येऽप्यस्मिन्परिचितगुणा रोदने संभवन्ति ।।१५।। इति वचनमयसुधां श्रवणपुटे सिञ्चता भिक्षोरपारबुभुक्षासमीक्षणजनितवैलक्ष्यप्रापितजीपभावेन करुणावरुणालयेन भवता वितीर्णम् , शयकुशेशयकर महचिसुरसरिड्डिण्डीरखण्डायमानम , करकल्पतरुस्तबकशङ्कावहं नखचन्द्रैः सह परिचयाय समागतचन्द्रबिम्बसंभावनासंपादकम, आशातरङ्गिणीशोपणशारदसमयखण्डायितं करकवलमासाद्य, सद्य एवं तृप्तिमापन्नः कर्मन्दी, संदीपितजठरदहनशमनेन महोपकारं मन्यमानः, परमनन्यसामान्यसौजन्यतया परमोत्कृष्टफलां कलां तुभ्यं प्रतिपादयामास ।
विद्यावल्ली पात्रसुक्षेत्रदत्ता प्रज्ञासिक्ता सूक्तिभिः पुष्पिता च । आशायोपित्कर्णभूषायमाणां कीर्तिप्रोद्यमञ्जरीमादधाति ।।१६।। विद्याकल्पतरुः समुन्नतिमितः प्राप्तोऽपि गम्यो नतैः
पुप्पाण्यत्र समेत्य मञ्जुलमहोऽमुत्र प्रसूते फलम् । किं चायं खलु मूलमाश्रितवतां संतापमन्तस्तनो
त्यूर्व संचरतां नृणां पुनरसौ तापं धुनीतेतमाम ॥१७।। कोणता मन्दोष्णता कोष्णं कोणं मन्दोणं कटुष्णं त्रिषु तद्वति' इत्यमरः । शीर्षे शिरस्याबद्धो यो भ्रमो भ्रमरोगस्तस्य करो विधायको यो पयोदोपो जलदोपस्तस्य बाधायाः पीडाया निवृत्तिदृरीकरणम , अन्येऽपीत रेऽपि, परिचिताश्च ते गुणाश्चेति परिचितगुणा अनुभूतलाभाः अस्मिन् रोदन आक्रन्दने, संभवन्ति सम्यक - प्रकारेण जायन्ते । न नो रोदनं व्यर्थमिति भावः । मन्दाक्रान्ताच्छन्दः 'मन्दाक्रान्ताजलधिपडगम्भी नती ताद्गुरू चेत्' इति लक्षणात् ।
इति वचनेति-इति पूर्वोक्ताम् , वचनमयसुधां वाणीमयपीयूपम् , श्रवणपुटे कर्णपुट, सिञ्चता क्षरता, भिक्षोः साधोः, अपारबुभुक्षायाः सीमातीतक्षुधः समीक्षणेन, समवलोकनेन जनितमुत्पादित यद्वैलच्यं विस्मयस्तेन प्रापिता लम्भितो जोपभावस्तूष्णींभायो यं तेन, करुणाया दयाया वरुणालयः समुद्रस्तेन, भवता त्वया, वितीर्णं प्रदत्तम् , शयकुशेशयस्य हस्तकमलस्य कररुहा नखानि तेषां रुचिः कान्तिरेव सुरसरिगङ्गा तस्या डिण्डीरः कफस्तस्य खण्डायमानं शकलायमानम् , कर एव कल्पतरुः करकल्पतरुः पाणिसुरपादपस्तस्य स्तवकस्य पुष्पगुलुञ्छस्य शङ्कावहः सन्देहाधायकस्तम् , नख चन्द्रनखरेन्दुभिः, सह साकम् , परिचयाय मेलनाय, समागतं समायातं यच्चन्द्रबिम्बं शशिमण्डलं तस्य संभावनायाः समुत्प्रेक्षायाः संपादक जनकम् , आशातरङ्गिण्यास्तृष्णानद्याः शोपणेऽल्पीकरणे शारदसमयखण्डायितं जलदान्तकालखण्डवदाचरितम् , करकवलं हस्तग्रासम् , आस्वाद्य भक्षयित्वा, सद्य एव झटिन्येव, तृप्ति सन्तोषम् , आपन्नः प्राप्तः, कर्मन्दी भिक्षुः, संदीपितो वृद्धिङ्गतो यो जठरदहन उदराग्निस्तस्य शमनेन शान्न्या, महोपकारं भूरिकल्याणम , मन्यमानो बुध्यमानः, सन् , परमत्यर्थम् , अनन्यसामान्यमनुपमं यन्सौजन्यं साधुत्वं तस्य भावस्तत्ता तया, परमोत्कृष्टं श्रेष्टतरं फलं परिणामो यस्यास्ताम् , कलां विद्याम् , तुभ्यं भवते, प्रतिपादयामास समर्पयामास ।
विद्यावल्लीति-पात्रं योग्यशिप्य एव सुक्षेत्रं सुभूमिस्तस्मिन् दत्तोप्ता, प्रज्ञा नवनवोन्मेपशालिनी बुद्धिस्तया सिक्तीक्षिता, सूक्तिभिः सुभाषितैः पुष्पिता च कुसुमिता च, विद्यावल्ली विद्यालता, आशायोपितां
नां कर्णभूपायमाणां श्रवणालङ्कारवदाचरन्तीम् , कीर्तिरेव यश एव प्रोद्यन्मञ्जरी प्रादुर्भवन्मञ्जरीम्, आदधाति बिभर्ति । रूपकालंकारः । शालिनीच्छन्दः ॥ १६ ॥
_ विद्याकल्पतरुरिति-विद्यैव कल्पतरुरिति विद्याकल्पतरुर्विद्याकल्पवृक्षः, इतो लोके, समुन्नतिमुत्तुङ्गताम् , प्राप्तोऽपि लब्धोऽपि, नतै मनैः पक्षे नम्रः गम्यः प्राप्यः समुन्नतो वृक्षो वामनैः कथं प्राप्य इति विरोधः परिहारश्च नतैनम्रविनयवद्भिर्जनैर्गम्यः सेवनीय इति । स एव च विद्याकल्पतरुः, अत्र लोके, पुष्पाणि कुसुमानि, समेत्य प्राप्य, अमुत्र परलोके, मञ्जुलं मनोहरम्, फलम्, प्रसूते जनयति, इत्यहो आश्चर्यम् , यत्र पुष्पलाभस्तव फलोपलब्धिरुचिता विद्याकल्पतरौ च विपरीतेन्याश्चर्यम् , परिहारस्तु