________________
द्वितीयो लम्भः इति गुरोरुदन्तमाकर्ण्य कर्णरसायनम् , मौनमेवोत्तरमादधानो, वदनवनजे मनससरसि च प्रश्रयमृणालीमधिमुखमादधतीं शैष्योपाध्यायिकामराली खेलयन , गुरुशुद्धिविज्ञानेन लब्धमणिपरिशुद्धिज्ञानेनेव मोदजलधेः परं पारं गतोऽपि, गुरू पदिष्ट सागारधर्मसागरे ममज्ज सज्जनहृदयचन्दनो नन्दनः ।
तदनु विजनं देशं नीत्वा गुरुः सुतपुङ्गवं ___ व्यवृणुत गिरा राजोदन्तं दुरन्तमिदंतया । विदितजनकोदन्तः सत्यंधरस्य सुतम्तदा
सुलभजनुषा रोषेणासीजगन्ति दहन्निव ।।१८।। एवं गुरुवचनेन स्वस्य राजपुत्रत्वं काष्ठाङ्गारस्य राजहन्तृत्वं च निश्चित्य, समेधमानक्रोधधनञ्जयस्येव संदीपितशराग्नेरपि तमेनमिन्धनं चिकीर्षुः क्रोधान्धगन्धसिन्धुर इव गुरुणा दुर्निवारसरभससन्नाहः सात्यंधरिः, बन्धुरयुद्धारम्भसंरम्भान्न विरराम । गुरुरपि तदीयदुर्धामर्पविस्तापरलोके स्वर्गादिसुखप्राप्तिर्जायत इति । किञ्चान्यच्च, खलु निश्चयेन, अयं विद्याकल्पतरुः, मूलं तलम , आश्रितवतां मेवमानानाम् , अन्तर्हृदये, संतापं दुःखं, तनोति विस्तारयति, पुनः किन्तु, ऊर्ध्वमुपरिष्टात, संचरतां सञ्चरणं कुर्वताम् , नृणां जनानाम् , असौ विद्याकल्पतरु, तापं दुःखम् , अतिशयेन धुनीत इति धुनीतेतमाम्, अत्यन्तं दूरीकरोतीति यावत्, अन्ये वृक्षा मूलगतानां संतापं हरन्त्युल गच्छतां च संतापं विदधति, विद्याकल्पतरुश्च तद्विलक्षण इत्याश्चर्य परिहारस्तु मूलमधः श्रितवतां संतापं विस्तारयति, उपरिचरतां चाज्ञानाभिधानं तापं निवारयतीति । रूपकव्यतिरेको, रूपकविरोधौ वा शार्दूलविक्रीडितं छन्दः । 'सूर्याश्वमसजास्ततः सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् ॥ १७ ॥
इति गुरोरिति-इति पूर्वोक्तप्रकारेण, कर्णरसायनं श्रवणामृतम् , गुरोरुपाध्यायस्य, उदन्तं वृत्तान्तम् , आकर्ण्य श्रुत्वा, वदनवनजे मुखकमले, मानससरसि च हृदयकासारे च, मुख इत्यधिमुखं तस्मिन् , प्रश्रयमृणाली विनयविसम् , आदधीम् तवतीम् , शेप्योपाध्यायिका शिप्यगुरुव्यवहृतिरेव मराली हंसी ताम् , खेलयन् क्रीडयन् , गुरोरुपाध्यायस्य शुद्धिनमल्यं तस्या विज्ञानं बोधस्तेन, लब्धमणेः प्राप्तरत्नस्य या परिशुद्धिनैर्मल्यं तस्या ज्ञानं तेनेव, मोदजलधेरानन्दास्भोधेः, परं द्वितीयं पारं तटम् , गतोऽपि प्राप्तोऽपि, सज्जनहृदयचन्दनः साधुजनमनोमलयजः, नन्दनो जीवन्धरः, गुरुणोपदिष्टस्तस्मिन् गुरुप्रदर्शिते, सागारधर्म एव श्रावकधर्म एव सागरः समुद्रस्तस्मिन् , ममज निमग्नोऽभूत् । सागारधर्म दधारेति भावः ।
तदनु विजनमिति-तदनु गृहस्थधर्मोपदेशानन्तरम् , गुरुरायनन्दी, सुतपुङ्गवं पुत्रश्रेष्ठम् , जीवन्धरमिति यावत् , विजनं निर्जनम् , एकान्तमिति यावत् , देशं स्थानम् , नीत्वा प्रापय्य, इदंतयाऽनेन प्रकारेण, दुरन्तं दुष्परिणामम् , राजोदन्तं सत्यन्धरनृपतिवृत्तान्तम् , गिरा वाण्या, व्यवृणुत वर्णयामास । तदा गुरुमुखाद्राजोदन्ताकर्णनानन्तरम् , विदितो ज्ञातो जनकस्य पितुरुदन्तो वृत्तान्तो येन तथाभूतः, सत्यन्धरस्य सुतो जीवन्धरः, सुलभं सुप्राप्यं जनुर्जन्म यस्य तेन, रोपेण क्रोधन, जगन्ति भुवनानि, दहन्निव भस्मसात्कुर्वन्निव, आसीद् बभूव । भृशं चुकोपेति भावः, हरिणीच्छन्दः 'रसयुगहयैन्सौं भ्रो स्लो गो यदा हरिणी तदा' इति लक्षणात् ॥ १८ ॥
एवं गुरुवचनेनेति-एवं पूर्वप्रकारेण, गुरुवचनेनोपाध्यायवाण्या, स्वस्यात्मनः, राजपुत्रत्वं नृपतिसुतत्वम् , काष्टाङ्गारस्य तादात्विकनृपस्य राजहन्तृत्वं सत्यन्धरमहाराजघातकत्वञ्च, निश्चित्य निर्णीय समेधमानो वर्धमानो यः क्रोध एव कोप एव धनञ्जयो वह्निस्तस्येव संदीपितः प्रज्वलितः शरा एव वाणा एवाग्निस्तस्यापि, एनं तं काष्टाङ्गारम्, इन्धनं दारुनिचयं दाह्यमिति यावत् , चिकीपु: कर्तुमिच्छुः, क्रोधेनान्धः क्रोधान्धः कोपान्धः स चासौ गन्धसिन्धुरश्च गन्धगजश्व स इव, गुरुणोपाध्यायेन दुर्निवारो दुःखेन निवारयितुं शक्यः सरभससन्नाहस्तात्कालिकयुद्धोद्योगो यस्य सः, सत्यन्धरस्यापत्यं पुमान् सात्यन्धरिः 'अत इञ्' इति ञ् प्रत्ययः, जीवन्धरः, बन्धुरः पूर्णो यो युद्धारम्भः समरप्रारम्भस्तस्य संरम्भाद् दृढनिश्चयात् , न विरराम
विरमति स्म । गुरुरपि, तदीयेन तत्सम्बन्धिना दुर्धामण विकटक्रोधेन विस्तारित आयोजितो यः