________________
प्र
जीवन्धरचम्पूकाव्ये रितसमरसंरम्भमवलोक्य, न पुनरयमन्यथा विरमतीति निश्चयमणिं हृदयपुटपेटके निधाय, वत्स वत्सरमेकं क्षमैव मह्यं गुरुदक्षिणा विधेयेति, कथंकथमपि सात्यंधरेरायोधनसन्नाहसंधानं निवारयामास ।
न कार्यः क्रोधोऽयं श्रुतजलधिमग्नैकहृदय
ने चेद्वयर्था शास्त्रे परिचयकलाचारविधुरा । निजे पाणौ दीपे लसति भुवि कूपे निपततां
___ फलं कि तेन स्यादिति गुरुरथोऽशिक्षयदमुम ।।१।। इत्यादिनीतिपदवीमाशास्य, तमाश्वस्य, विश्वातिशायिनं पन्थानमास्कन्दितुममन्दादग्मेदुरे तस्मिन्गुरुवरे गतवति तपोवनम , पश्चिमपयोधिवेलावनमिव भास्वति, जीवन्धरस्तस्मरणसंधुक्षितगुरुविरहशोकाशुशुक्षणिं तत्त्वज्ञानपयःपूरेण निर्वापयामास ।
तावत्तारुण्यलक्ष्मीनृपतनयतनुप्राप वल्ली यथा वा
पुष्पश्रीः पारिजातस्थितिमिव विबुधाशास्यवासातलक्ष्मीः । गङ्गवाम्भोधिवेलां शरदिव शशिनो मण्डलीमब्धिपाली
प्रातः सूर्यप्रभेवामलकुमुदवनी शारदी कौमुदीव ।।२०।। समरसंरम्भो युदृढनिश्चयस्तम् , अवलोक्य दृष्ट्वा, अयं जीवन्धरः, अन्यथान्यप्रकारेण, न पुनः, विरमति चिरतो भवतीति, निश्चय एव मणिस्तं निर्णयरत्नम् , हृदयपुटपेटके स्वान्तपुटकरण्डके, निधाय निक्षिप्य, हे वन्स हे तात, एक वत्सरम् , एक संवत्सरम् 'कालाधवनारत्यन्तसंयोग' इति द्वितीया, क्षमा क्षान्तिरेव युद्धविराम एव, मह्यं गुरवे, गुरुदक्षिणा गुरुपुरस्कारः, विधेया कर्तव्या, इत्येवं प्रकारण, कथं कथमपि केनापि प्रकारेण, सात्यन्धरेर्जीवन्धरस्य, आयोधनाय युद्धाय सन्नाहस्तत्परीभावस्तस्य संधानं योजनं धारणमिति यावत् , निवारयामास दूरीचकार ।
न कार्य इति-श्रुतमेव शास्त्रमेव जलधिः सागरस्तस्मिन्मग्नं बुडितमेकहृदयं मुख्यस्वान्तं येपां तैः, अयमेपः, क्रोधः कोपः 'स्ट कोपक्रोधमन्यवः' इति धनंजयः, न कार्यों न विधातव्यः, सर्वतोभावेन शास्त्रज्ञानपारावारे निमग्नहृदयैर्जनः क्रोधो न कर्तव्य इति भावः । न चेदेवं न स्यात्तर्हि, आचारेण प्रयोगेण विधुरा रहिता शास्त्रे श्रुतो, 'विपयार्थे सप्तमी' परिचयकलाभ्यासकला, व्यर्था मोघा, अस्तीति शेपः, शास्त्र यल्लिखितं तदनुकूलाचरणाभावे तदभ्यासो व्यर्थ इति भावः, भुवि पृथिव्याम् , निजे स्वकीये पाणौ हस्ते, दीपे प्रदीपे, लसति शोभमाने सति, कृपे ग्रहो, निपततां पतनं कुर्वताम्, जनानाम्, तेन दीपेन, कि किन्नामधयम्, फलं प्रयोजनम्, स्याद् भवेत्, इतीत्थम् , गुरुरायनन्दी, अथो युद्धारम्भसंरम्भाद्विरमणानन्तरम् , अमुं जीवन्धरम् , अशिक्षत् शिक्षयामास । शिखरिणीच्छन्दः रस रुद्रश्छिन्ना यमनसभलागः शिखरिणी' इति लक्षणात् ॥ १६ ॥
इत्यादिनीतिपदवीमिति-यादिश्वास नीतिपदयी च ताम् इति प्रभृतिनयमार्गम्, आशास्योपदिश्य, तं कुमारम्, आश्वस्य-सर्वथा शोभनं भविष्यति, काष्टाङ्गारो नश्यति तव च राज्यं भविष्यतीति समाश्वासनं विधाय, विश्वातिशायिनं लोकोत्तरम्, संसारातिक्रामिणं मोक्षप्रापकमिति यावत् , पन्थानं मार्गम्, आस्कन्दितुं प्राप्तुम्, अमन्दश्चासावादरश्चेन्यमन्दादरो महाप्रीतिस्तेन मेदुरो मिलितस्तस्मिन् , तस्मिन्पूर्वोक्ते, गुरुबरे गुरुश्रेष्टे, पश्चिमपयोधेवरुणाशासागरस्य वेलावनं तीरकाननम्, भास्वतीव सूर्य इव, तपोवनं तपश्चरणयोग्यकाननम्, गतवति प्रयाते सति, जीवन्धरो गुरुभक्तशिप्यः, संधुक्षितः संदीपितो यो गुरुविरहशोक एवोपाध्याय वियोगविपाद एवाशुशुक्षणिर्वह्निस्तम् , तत्वज्ञानमेव पयःपूरस्तेन पदार्थज्ञानजलप्रवाहेण, निर्वापयामास शमयामास ।
तावदिति-तावत् तावता कालेन, तारुण्यलक्ष्मीयौवनीः , नृपतनयस्य राजकुमारस्य जीवन्धरस्येति यावत् तनुः शरीरं ताम् , प्राप प्राप्तवती, केवेति चेदाह-पुप्पश्रीः कुसुमलक्ष्मीः , वल्ली यथा वा लतामिव, विबुधैर्देवैराशास्या प्रशंसनीयेति विबुधाशास्या, सा चासो वासन्तलक्ष्मीश्च मधुमासशोभा चेति