________________
द्वितीयो लम्भः
सौन्दर्यभ्य परा काष्टा शृङ्गारस्य परा गनिः ।
खनिः कलानां यस्यासीन्मृतिरानन्ददायिनी ।।२।। यस्य च रूपमादिमोदाहरणं रूपसंपन्नदेहानाम् , अधिदैवतं कान्तिसंपदाम , संजीवनौपधं सौन्दर्यस्य, सङ्केतसदनं शृङ्गारस्य, जीवितरसः सारस्यसारस्य, केलीभवनं कलानाम , शिक्षाम्थानं नर्मविलासानाम , शृङ्गाटकं संगीतविद्यानाम् , आकर्पणौषधमायताक्षीनयनानाम , बन्धनगृहं युवतिजनमानसानाम , सेचनकं सकल जनलोचनानाम् , अगोचरपदं कविवचनानाम् , अंकुरक्षेत्रं कीर्तिस्फूर्तीनाम् , आवासस्थलं जयलक्ष्मीविलासानाम , आस्थामन्दिरं लक्ष्मीसरस्वत्योः, सञ्चरदिव सकलनयनसुखम , सचेतनमिव महीमहिलाभाग्यम, साकारमिव प्रतापपटलम, सजीवमिव गाम्भीर्यम , सङ्घीभूतमिव शौर्यम , सरूपधेयमिव कुरुवंशभागधेयम , वेधसः सकलशिल्पनैपुण्यप्रदर्शनमुद जम्भत ।
अथैकदा व्याधजनाधिराजो माकृति प्राप्त इवान्धकारः ।
कृत्येन नाम्नापि च कालकूटः सेनायुतो गाः सकला जहार ।। २२ ॥ तथा, पारिजातानां कल्पवृक्षाणां स्थितिः स्थानं तामिव, नन्दनवनमिवेति यावत्, गङ्गा भागीरथी, अम्भोधिवेलामिव, सागरतीमिव शरद जलदान्तत्तः, शशिनश्चन्द्रमसः, मण्डली बिम्बमिव, प्रातःमूर्यप्रभा प्रभातप्रभाकरप्रभा, अब्धिपालीमिव सागरवेलामिव 'पाली वेला तटेच्छासः' इति धनञ्जयः, शारदीशरत्सम्बन्धिनी, कौमुदी ज्योत्स्ना, अमलकुमुदव मिव निर्मलकैरवकाननमिव, इति, एकस्य बहपमानान्मालोपमालङ्कारः । स्नग्धरावृत्तम् 'नम्नैयानां त्रयेण त्रिमुनि यतियुता स्नग्धरा कीर्तितेयम्' इति लक्षणात् ॥ २० ॥
सौन्दर्यस्येति-यस्य जीवन्धरस्य, आनन्ददागिनी कल्याणप्रदा, मूर्तिः शरीरम् , सौन्दर्यस्य लावण्यस्य, परा चरमा, काष्टा सीमा, शृङ्गारस्य शृङ्गाररसस्य परा सर्वश्रेष्ठा, गतिः स्थानम् , कलानां वैदग्धीनाम , खनिराकरः, आसीद् बभूव । रूपकम् ॥ २१ ॥
यस्य चेति- यस्य च जीवन्वरस्य च, रूपं सौन्दर्यम् , रूपेग सौन्दर्येण सम्पन्नो युक्तो देहः शरीरं येषां तेपाम् , आदिमोदाहरणं प्रथमनिदर्शनम् , कान्तिसम्पदां दीप्तिसम्पत्तीनाम् , अधिदैवतम् अधिष्ठातृदेवता, सौन्दर्यस्य लावण्यस्य, संजीवनौषधं संजीवनभैयज्यम् , शृङ्गारस्य रसराजस्य, सङ्केतसदनं सङ्केतभवनम् , सारस्यस्य रसिकन्वरय सारः श्रेष्ठोऽशस्तस्य, जीवितरसः चेतनाह्लादः, कलानां वैदग्धीनाम् , केलीभवनं क्रीडासदनम् , नर्मविलासानां क्रीडाविभ्रमाणाम् , शिक्षास्थानं विद्यायतनम् , संगीतविद्यानां गन्धर्वविद्यानाम् , शृङ्गाटक चतुप्पथस्थानम्, आयताक्षीनयनानां वनिताचक्षुषाम् , आकर्षणौषधं वशीकरणभैषज्यम्, युवतिजनमानसानां तरुणीजनचित्तानाम्, बन्धनगृहं नियन्त्रणभवनम् , सकलजनलोचनानां निखिलनरनयनानाम् , सेचनकमतृप्तिकरम् 'तदासेचनकं तृतर्नास्त्यन्तो यस्य दर्शनात्' इत्युक्तत्वात् , कविवचनानां काव्यनिर्मातणाम् , अगोचरपदमविपयस्थानम् , कीर्तिस्फूर्तीनां समज्ञोत्साहानाम् , अथवा समज्ञोत्पत्तीनाम् , अकुरक्षेत्रं प्ररोहस्थानं केदारमिति यावत् , जयलक्ष्मीविलासानां विजयश्रीविभ्रमाणाम् , आवासस्थलं निवासस्थानम् , लक्ष्मीश्च सरस्वती चेति लक्ष्मीसरस्वत्यौ तयोः श्रीशारदयोः, आस्थामन्दिरमादरभवनम्, सञ्चरद्भ्रमत् , सकलनयनसुखमिव निखिलजनशातमिव, सचेतनं सजीवम्, महीमहिलाभाग्यमिव पृथिवीपुरन्ध्रीभागधेयमिव, साकारं संस्थानसहितम्, प्रतापपटलमिव तेजःसमूह इव, सीवं सचेतनम्, गाम्भीर्यमिव स्थैर्यमिव, सङ्घीभूतं पुञ्जीभूतम्, शौर्यमिव पराक्रम इव, सरूपधेयं सौन्दर्यसहितम् , कुरुवंशस्य सत्यन्वरवंशस्य भागधेयमिव भाग्यमिव, वेधसो ब्रह्मणः, सकलशिल्पनैपुण्यस्य निखिलशिल्पकौशलस्य प्रदर्शनं प्रदर्शनस्थानम्, उदज़म्भत वर्धयामास । रूपकोन्प्रेक्षे ।
अथैकदेति-अथानन्तरम् , एकदैकस्मिन् काले 'सवैकान्य किंयत्तदःकाले दा' इति दाप्रत्ययः, माकृति मनुष्याकारं प्राप्तो लब्बः, अन्धकार इव ध्वान्तमिव, कृत्येन कार्येण परमारणात्मकेनेति यावत् , नाम्नापि च नामधेयेनापि च, कालकूटो हालाहल विषं कालकूटसंज्ञश्च, सेनायुतः पृतनासहितः, व्याधजनानां भिल्लजनानामधिराजः स्वामी, सकलाः समस्ताः, गा धेनूः, जहार-अहात् ॥ २२ ॥