________________
जीवन्रचम्पूकाव्ये
तदनु गोपाकोशवशविदितवृत्तान्तः काष्ठाङ्गारोऽपि, असमानकृतामवज्ञां मृगाधिप इव शृगालकृतामसहमानः, अन्तर्दीप्यमानको धानलज्वालाभिरिव पाटल चिभिराक्रान्तवदनः शात्रवनितम्बिनीगर्भसमाविर्भूतार्भकनिर्भेदनपटुतरैर्भेरीभांकारैस्तिरोहितपारावारवम्, कालकूटापदेशेन पुञ्जीभूतस्य तिमिरस्य संहरणाय विधात्रा विरचितैरनेकविवस्वन्मण्डलमण्डितैम्या चलैरिव कनकखेटककलितकुम्भस्यलैर्दन्तावलैः संदानितलोहखलीनवद्नबिलनिर्गलल्लालाजल फेनिलाननतया जन्याजिरकरिण्यमागासपत्नयशः पानमनुकुर्वद्भिरिवार्वद्भिः रथकाया, पादातेन च समधिकमनीकम, कालकूटबलपाटनाय प्राहिणोत् ।
४८
"
वरूथिनीं वीक्ष्य स कालकूटः स्वकं पुरोधाय वलं चचाल । प्रत्यर्थिसैन्यं परितो दिक्षुः कोपाग्निना मृत्युरिव क्षणेन ॥ २३ ॥ तदनु मिलितं सैन्यद्वन्द्वं बलादुपचक्रमे समरमतुलं पत्रित्रातैर्विदीर्णपरस्परम् ।
चलदसिलताघातैर्भिन्नेभकुम्भविनिर्गल
मणिगणविभापूरैर्दो रजोऽन्धितमप्यलम् ॥ २४ ॥
"
तदन्विति तदनु तदनन्तरम्, गोपानां धेनुपालकानाम्, आक्रोशवशेनाक्रन्दनस्याधीन्येन विदितोऽवगतो वृत्तान्तो येन सः, काष्टाङ्गारोऽपि तात्कालिकनृपोऽपि, असमानकुतामसदृशजनविहिताम्, अवज्ञामनादृतिम्, शृगालकृतां गोमायुविहिताम्, मृगाधिप इव पञ्चानन इव, असहमान: सोढुमसमर्थो भवन्, अन्तर्दीप्यमाना हृदये प्रज्वलन्त्यो या क्रोधानलज्वाला को पाग्न्यचपि ताभिरिव, पाटलरुचिभिः श्वेतरक्तदीप्तिभिः, 'श्वेतरक्तस्तु पाटल:' इत्यमरः, आक्रान्तं व्याप्तं वदनं मुखं यस्य सः, शात्रवनितम्बिनीन शत्रुस्त्रीणां गर्भेषु जठरेषु समाविर्भूताः समुत्पन्ना येऽर्भकाः शिशवस्तेषां निर्भेदने खण्डने पटुतरा दक्षतरास्तैः, भेरीभाङ्गारैरानकध्वनिभिः, तिरोहितोऽन्तर्धापितः पारावारस्य सागरस्य रवो नादो येन तत् अनीकमित्यस्य विशेषणम्, कालकूटस्य व्याधजनाधिराजस्यापदेशो व्याजं तेन, पुञ्जीभूतस्य राशीभूतस्य तिमिरस्य ध्वान्तस्य, संहरणाय विनाशाय, विधात्रा ब्रह्मणा, विरचितैः सृष्टैः, अनेक विवस्वतां बहुसूर्याणां मण्डलैम्बेर्मण्डिताः शोभितास्तैः, उदयाचलैरिव सूर्योदयशैलैरिव, कनकखेटे : सुवर्णमौलिभिः कलितानि युक्तानि कुम्भस्थलानि गण्डस्थलानि येषां तैः दन्तावलैर्गजैः, संदानितं योजितं लोहखलीनमा यसकविका येषु तथाभूतानि यानि बदनविलानि मुखविवराणि तेभ्यो निर्गलन्निप्पतयल्लालाजलं लालातोयं तेन फेनिलं डिण्डीरयुक्तमाननं वक्त्रं येषां तेषां भावस्तत्ता तया, जन्याजिरे समराङ्गणे करिष्यमाणं विधास्यमानं यत् सपत्नयशः पानं शत्रुकीर्तिपानं तन्, अनुकुर्वद्भिविडम्बयद्भिः, अर्वद्भिर्हयैः, रथानां स्यन्दनानां समूहो रथकड्या ( रथकच्या ) तथा, 'वलगोरथात्' इति प्रकरणे 'इनित्रकव्यचश्च' इति समूहार्थे कव्यच् प्रत्ययः पदातीनां समूहः पादातं तेन पत्तिसमूहेन च, समधिकं प्रभूतम् अनीकं सैन्यम्, कालकूटस्य शवरराजस्य बलं सैन्यं तस्य पाटनं विदारणं तस्मै । प्राहिणोत् प्रेषयामास ।
3
वरूथिनीमिति[-स कालकूटश्शवरराजः, वरूथिनीं काष्टाङ्गार सेनाम्, वीच्य दृष्ट्वा, स्वकं स्वकी - यम्, बलं सैन्यम्, पुरोधायाग्रे कृत्वा, परितः समन्तात्, प्रत्यर्थिसैन्यं शत्रुपृतनाम्, कोपाग्निना क्रोधानलेन, क्षणेनाल्पकालेन दग्धुमिच्छुर्दिधक्षुः सन् मृत्युरिव यम इव चचाल चलतिस्म । युद्धाय तत्परो बभूवेति भावः ॥ २३ ॥
तदन्विति -- तदनु तदनन्तरम्, मिलितं संगतम्, सैन्यद्वन्द्वं सेनायुगलम्, बलाद् हठात् अतुलमनुपमम्, समरं युद्धम्, उपचक्रमे प्रारब्धं चकार 'प्रोपाभ्यां समर्थाभ्याम्' इत्यात्मनेपदम् । अथ समरस्य विशेषणान्याह - पत्रिव्रातैर्बाणसमूहैः विदीर्णं खण्डितं परस्परमन्योऽन्यं यस्मिस्तम्, रजसा परागेणान्धितमपि तिमिरितमपि, चलन्तीनामसिलतानां खड्गवल्लीनां घाताः प्रहारास्तैः भिन्नाः खण्डिता य इभकुम्भा गजगण्डास्तेभ्यो विनिर्गलतां बहिर्निःसरतां मणिगणानां रत्नसमूहानां विभापूरैः कान्तिसमूहैः, अलमत्यर्थम्, दीप्तं दयुक्तम् । हरिणीच्छन्दः ॥ २४ ॥