________________
द्वितीयो लम्भः
तदानीम् , अमित्रकरकलितमण्डलामखण्डितगण्डतलनिःसरदमुग्धाराराजितगजतायां गैरिकधातुनिःसृतनिझरशोभितोभयभागधराधरानुकारिण्याम् , घनकीलालपङ्किलसमराजिरे निजखुरनिमज्जनशङ्कयेव गगनगमनतुङ्ग पु 'निपादिजनविपादभङ्गपु तुरङ्ग पु नाम्नेव कृत्येन च मदोत्कटकरटिघटायां हरिरिति विख्याति प्रख्याएयत्सु, करलाघववशेनालक्ष्यशरसन्धानमोक्षणकालेषु सदा समारोपितशरासनतयालेख्यलिखितेष्विव धानुष्केषु पदगगनतलचराचरकरालकरवालखण्डितमस्तकनिकरेष्वतिदूरमुत्पत्य गगनजलधिशतपत्रशङ्काकरेषु, पुरुपद्वयसप्रवहल्लोहितवाहिनीसेतुशङ्कासंपादकभिन्नमतङ्गजगात्रपरंपराबन्धुरायामायोधनधरायाम , व्याधयोधनिरन्तरनिर्मुक्तनाराचधारापूरिताङ्गेषु, व्याधसेना व्याजेष्टेति घोषो घोपान्तरमुत्तरङ्गयामास ।
तदोरुजानामधिभूः स्वमित्रैरालोच्य निश्चित्य च नन्दगोपः।
विवक्षितं तस्य नृपस्य कर्णपथप्रवृत्तं चतुरश्चकार ।। २५ ।। __तदानीमिति तदानीं तस्मिन्काले, अमित्राणां शत्रूणां करकलितैर्हस्तधतैमण्डलाः कृपाणः खण्डिताद्विदारिताद् गण्डतलात्कटप्रदेशान्निःसरन्तीभिनिर्गच्छन्तीभिरसृग्धाराभी रुधिरवेणीभी राजिता शोभिता या गजता गजसमूहस्तस्याम् 'गजसहायाभ्यां चेति वक्तव्यम्' इति समूहार्थे तल्प्रत्ययः। गैरिकधातुभ्यो रक्तवर्णमृत्तिकाप्रदेशेभ्यो निःसृता निर्गता ये निझरा वारिप्रवाहास्तैः शोभितौ राजितावुभयभागावुभयतटौ यस्य तथाभूतो यो धराधरः पर्वतस्तस्यानुकारिण्यां विम्बिन्यां सत्याम, धनकीलालेन सान्द्ररुधिरेण पङ्किलं कर्दमयुक्तं यत्समराजिरं युद्धाङ्गणं तस्मिन् , निजखुराणां स्वकीयशफानां निमजनम्य वगाहनस्य शङ्का संशीतिस्तयेव, गगनगमनाय नभोयानाय तुङ्गा उन्नता उच्छलन्त इति यावत् तेषु, निषादिजनानामारोहिनराणां विपादस्य खेदस्य भङ्गो विनाशो यैस्तेषु, तुरङ्गषु हयेषु, नाम्नेव नामधेयेनेव कृत्येन च कार्येणापि 'हरिः' हय इति नाम्नेव 'हरिः' सिंहस्तस्य कार्येणापीति भावः । 'सप्तिरर्वा हरीरथ्यः' इति धनंजयः, 'सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः' इत्यमरः, मदेन दानेनोन्कटा उद्दण्डाः ये करटिनो हस्तिनस्तेषां घटा समूहस्तस्याम्, हरिरिति सिंह इति विख्याति प्रसिद्धिम्, प्रख्यापयत्सु विस्तारयन्सु सत्सु, करलाघववशेन हस्तक्षिप्रकारित्ववशेनालच्यो दृष्ट्यगोचरः शरसन्यानमोक्षणयोर्बाणधारणमोचनयोः कालः समयो येषां तेषु, धानुष्केषु धनुपि प्रहरणानि येषां तेषु धनुर्धरेपु, सदा शश्वत् , समारोपितं सगुणीकृतं शरासनं धनुर्येषां तेषां भावस्तत्ता तया, आलेख्यलिखितेष्विव चित्रलिखितेष्विव सत्सु, पदगगनतलयोश्चरणनभःप्रदेशयोश्चराचरैरतिशयचपलः करालभयङ्करः करवालैः कृपाणः खण्डितानां छिन्नानां मस्तकानां शिरसां निकराः समूहास्तेषु 'चरिचलिपतिवदीनां वा द्वित्वमच्याक् चाभ्यासस्येति वक्तव्यम्' इति वार्तिकेन चराचरपदस्य सिद्धिः। अतिदूरमतिविप्रकृष्टम्, उत्पत्योद्गत्य, गगनमेव जलधिगंगनजलधिराकाशपारावारस्तस्य शतपत्राणां कमलानां शङ्काकराः संदेहोत्पादकास्तेषु तथाभूतेषु सत्सु, पुरुषद्वयस्य पुरुषप्रमाणाः प्रवहन्त्यः प्रकर्षण गच्छन्त्यो या लोहितवाहिन्यो रुधिरस्रवन्त्यस्तासां सेतुशङ्कायाः पुलिनसंशयस्य संपादिका या भिन्नमतङ्गजानां खण्डितगजानां गात्रपरम्परा शरीरसन्ततिस्तया बन्धुरा नतोन्नता तस्यां तथाभूतायाम्, आयोधनधरायां समरभूमौ सत्याम, व्याधयोधभिल्लभट निरन्तरं निर्व्यवधानं यथा स्यात्तथा निर्मुक्ता त्यक्ता या नाराचधारा बाणपङ्क्तयस्ताभिः पूरितानि संभृतान्यङ्गानि शरीराणि येषां तेषु, काष्टाङ्गारस्येमे इति काष्टाङ्गारिकाः, ते च ते सैनिकाश्च योधाश्चेति काष्ठाङ्गारिकसैनिकास्तेपु, दिशि दिशि प्रतिकाष्टम, कान्दिशीकता भयद्रुतताम्, 'कान्दिशीको भयगुते' इत्यमरः, प्रापितेषु लम्भितेषु सत्सु, व्याधसेना शबरपृतना, व्याजेष्ट विजययुक्ता बभूव, इति घोषः शब्दः, घोषाणामाभीराणामन्तरं हृदयं तदवगाहनप्रदेश वा, उत्तरगयामास क्षोभयामास ।
तदोरुजानामिति-तदा काष्टाङ्गारपृतनापराजये सति, ऊरुजानां वैश्याणाम्, अधिभः स्वामी, चतुरो निपुणः, तादात्विककार्यसाधनपटुरिति यावत्, नन्दगोप एतन्नामा, स्वमित्रेः स्वकीयसुहृद्भिः, आलोच्य विवार्य, निश्चित्य च स्थिरीकृत्य च, वक्तुमिष्टं विवक्षितं स्वाभिप्रेतमिति यावत् , तस्य नृपस्य काष्ठाङ्गारस्य, कर्णपथे श्रवणमार्गे प्रवृत्त प्रगतम्, चकार विदधौ । स्वाभिप्रायं तं श्रावयामासेति भावः ॥ २५ ॥
१. -षादिजन ब० । २. तदा प्रदानामधिभूः (?) ब० ।