________________
जीवन्धरचम्पूकाव्ये
पुरेऽपि मानिनीवारतोषितायाः सतीमणेः ।
काननेऽजनि नीवारोऽप्याहारोऽस्याः किमद्भुतम् ॥ ६ ॥ तावन्नन्दनसमागमसञ्जातमोदबन्धोत्कटेन तंतन्यमानं महोत्सवसार्थमात्मार्थं गणयता सकलसद्धर्मपरमकाष्ठाङ्गारेण काष्ठागारेण दापितमर्थजातं तत्क्षणजातैस्तदाज्ञासमानीतैरितरैरपत्यैः सह लब्ध्वायमूरुजपतिरितरात्मजैः समं निजात्मजमविशेषेण वर्धयामास ।
यथा यथा जीवकयामिनीशो विवृद्धिमागाद्विलसत्कलापः । तथा तथावर्धत मोदवार्धिरुद्वेलमूरव्यनिकायभर्तुः ॥ ६६ ।।
उत्तानशयने बिभ्रन्मुष्टिं तुष्टिकरः सुतः।
उद्यत्कुड्मलयुग्मश्रीपद्माकरतुलां दधौ ।।१००।। मुग्धस्मितं मुखसरोजगलन्मरन्द
धारानुकारि मुखचन्दिरचन्द्रिकाभम् । पित्रोः प्रमोदकरमेप बभार सूनुः
कीर्तेर्विकासमिव हासमिवास्यलक्ष्म्याः ।।१०१।।
पुरेऽपि-पुरेऽपि नगरेऽपि, मानिनीनां मानवतीनां वारः समूहस्तेन तोपिता प्रसादिता तस्याः, पक्षे मानिना प्रमाणवता, नीवारेण वन्यधान्येन तोपितायाः, अस्याः सतीश्रेष्ठायाः काननेऽपि वनेऽपि, नीवारो वन्यधान्यम्, आहारो भोजनम्, अजनि बभूव, अत्र किमद्भुतं किमाश्चर्यम्, न किमपीति यावत् ॥ १८ ॥
तावन्नन्दनेति–तावता कालेन, नन्दनस्यामकस्य समागमेन लाभेन संजातः समुत्पन्नो य आमोदबन्धो हर्षसम्बन्धस्तेनोत्कटः प्रगल्भस्तेन, 'नन्दनो दारकोऽर्भकः' इति धनञ्जयः, गन्धोत्कटेन तन्नामवैश्यपतिना तंतन्यमानमतिशयेन विस्तार्यमाणम्, महोत्सवानां महोल्लासानां सार्थः समूहस्तम्, आत्मार्थं निजप्रयोजनकम्, गणयता बुध्यमानेन, सकलसद्धर्म एव निखिलसमीचीनधर्म एव काष्टान्येधांसि तेपामगारः प्रज्वलितानलस्तेन, काष्टाङ्गारेण कृतघ्नेन, दापितं प्रापितम्, अर्थजातं धनसमूहम् , तत्क्षणं तत्काले जाताः समुत्पन्नास्तैः, तस्याज्ञया तन्निदेशेन समानीताः प्रापितास्तैः, इतरैरन्यैः, अपत्यैः पुत्रैः, सह साधम्, लब्ध्वा प्राप्य, अयमेषः, ऊरुजपतिर्वैश्यपतिः, इतरेपामन्येपामात्मजाः पुत्रास्तैः, समं साकम्, निजामजं स्वाङ्गजम् जीवमिति यावत्, अविशेषेण सामान्येन भेदमावमन्तरेणेति यावत् ; वर्धयामास वर्धयति स्म ।
यथा यथेति-विलसन्तीः शोममानाः कलाश्चातुरीः पक्ष षोडशभागानयते गच्छति प्राप्नोतीति विलसत्कलापः, जीवक एव यामिनीशो जीवकयामिनीशो जीवन्धरचन्द्रः, यथा यथा येन प्रकारेण, विवृद्धिमौन्नत्यम्, आगात् प्राप्नोत्, तथा तथा तेन तेन प्रकारेण, ऊरव्यानां वैश्यानां निकायः समूहस्तस्य भर्ता स्वामी तस्य गन्धोत्कटस्येत्यर्थः, मोदवाधिहर्षपारावारः, उद्वेलं निर्मर्यादं यथा स्यात्तथा, अवर्धत वृद्धिंगतो बभूव । रूपकालङ्कारः ॥ ६ ॥
उत्तानशयन इति-उत्तानशयने ऊर्ध्वमुखस्वापे, मुष्टिं बद्धकरपुटम्, बिभ्रद् दक्षत, तुष्टिकरः सुखकरः, सुतो नन्दनः, उद्यत्समुत्पद्यमानं कुड्मलयुग्मं मुकुलयुगलं यस्मिन्, एवंभूतो यः श्रिया लचम्याः पद्माकरः कमलोपलक्षितकासारस्तस्य तुलामुपमां, दधौ धृतवान् ॥ १० ॥
मुग्धस्मितमिति-एप सूनुः-अयं बालकः, मुखमेव सरोजं मुखसरोजं वदनारविन्दं तस्माद्लन्त्याः पतन्त्या मरन्दधाराया आसवसन्ततेरनुकारि विडम्बयित, मुखमेव वक्त्रमेव चन्दिरश्चन्द्रस्तस्य चन्द्रिकाया ज्योत्स्नाया आभेवाभा दीप्तिर्यस्य तत्, माता च पिता चेति पितरौ तयोः 'पिता मात्रा' इत्येकशेषः, प्रमोदकरमानन्दधायकम्, कीर्तेयशसः, विकासमिव प्रस्फुरणमिव, आस्यलक्ष्म्या मुखश्रियाः, हासमिव हसितमिव, मुग्धञ्च तस्मितञ्चेति मुग्धस्मितं सुन्दरमन्दहसितम्, बभार दधार 'मुग्धः सुन्दरमृढयोः' इत्यमरः। उपमोत्प्रेक्षे ॥ १०१॥