SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रथमो लम्भः पयोधरं धयन् सूनुः पयो गण्डूपितं मुहुः । उरिकीर्तिकल्लोलं किरन्निव विदिद्युते || १०२ ॥ सञ्चरन् स हि जानुभ्याममले मणिकुट्टिमे । प्रतिविम्वं परापत्यबुद्ध्या संताडयन्बभौ ।।१८३|| क्रमेण सोऽयं मणिकुट्टिमाङ्गणे नखस्फुरत्काञ्चिभरीभिरचिते । स्खलत्पदं कोमलपादपङ्कज़क्रमं ततान ग्रसवान्तृते यथा ||१०|| तावत्सुनन्दापि जलगर्भेव कादम्बिनी रत्नगर्भेव वसुमती सलगर्भेव बल्लरी तेजोगर्भव शुनासीरकाष्टा श्रेष्ठसती शनैरन्तर्वत्नीधुरामाविभ्राणा क्रमेण नवमासेष्वतीतेषु नन्दाच्यं नाम नन्दनं जनयामास । ३७ तत्सभ्रात्रेण विभ्राजन्मन्मनालापलालितः । जीवकस्तनयैरन्यैर्मुदा चिक्रीड पांसु || १०५ || अथ पञ्चमे वयसि सञ्चरन्प्रत्यक्ष पञ्चशरः समुदञ्चियव्यक्तवचनप्रपञ्चः स्वयमागतस्य सकल पयोधरमिति - पयोधरं मातुः स्तनम्, धयन् पिवन्, सूनुः पुत्रः, मुहुर्वहुवारम्, गण्डषितं कुरलकवदाचरितम्, पयो दुग्धम्, उद्भिरन् उद्यमन् कीर्तिकल्लोलं यशस्तरङ्गम्, किरन्निव क्षिपन्निव, वाँ शुशुभे ॥ १०२ ॥ सञ्चरन्निति - अमले स्वच्छे, मणिकुट्टिमे रत्नखचितभूनागे, जानुभ्यां जह्न भ्याम्, 'जघनं जानु जहुँच' इति धनञ्जयः, सञ्चरन् समन्ताद् भ्रमन् स सूनुः, प्रतिबिम्बं स्वस्यैव प्रतिकृतिम्, परमन्यच्च तदपत्यं च पुत्रश्चेति परापत्यं तस्य बुद्धिर्धिपणा तया अन्यपुत्रभ्रान्त्या ताडयन् पीडयन् बभौ शुशुभे हीत्यव्ययं पादपूत । भ्रान्तिमान् ॥ १०३ ॥ क्रमेणेति — सोऽयं बालकः क्रमेण क्रमशः, नखानां नखराणां स्फुरन्त्यः प्रसरन्त्यः कान्तयो दीप्तय एव झर्यो वारिप्रवाहास्ताभिः अञ्चिते शोभिते, अतएव प्रसवः पुष्पैरास्तृतं व्याप्तं तस्मिन् यथा दृश्यमाने मणिकुट्टिमाङ्गणे रत्नखचितचत्वरे स्खलत्पदं पतच्चरणं यथा स्यात्तथा, कोमलपादपङ्कजयोर्मृदुलचरणकमल्योः क्रमं विक्षेपम्, ततान विस्तारयामास । उत्प्रेक्षा ॥ १०४ ॥ तावदिति - तावत् तावता कालेन श्रेष्ठिनः सती श्रेष्टसती गन्धोत्कटवैश्यपतिपत्नी, सुनन्दापि सुनन्दाभिधानापि, जलं तोयं गर्भे मध्ये यस्यास्तथाभूता कादम्बिनीव मेवमालेव, रत्नं मणिर्ग में स्था स्तथाभूता वसुमतीव पृथिवीय, फलं गर्भे मध्ये यस्यास्तथाभूता, वल्लरीव लतेव तेजो दिवाकराभिधानं गर्भे यस्यास्तथाभूता शुनाशीरकाष्ठेव पुरन्दरदिशेव प्राचीवेति यावत् शनैः क्रमशः, अन्तर्वनीथुरां गर्भिणीभारम्, अन्तरस्ति गर्भो यस्या अन्तर्वर्तनी 'अत्तर्व पतिवतोर्मुक्' इति निपातितम्, आविभ्राणाआदधाना सती, क्रमेण क्रमशः, नवमासेषु, अतीतेषु अपगतेषु सत्सु नन्द्राज्यं नाम नन्दनं तनयम, जनयामास प्रासूत । तत्सौभ्रात्रेण – सुभ्रातुर्भावः कार्यं वा सौभ्रात्रं तस्य नन्दाव्यस्य सौभ्रात्रं सुसहोदरत्वं तेन, विभ्राजन् शोभभानः, मन्मनालापेनास्पष्टाक्षरवार्तया लालितः शोभितः, जीवकः विजयासुतः, अन्यैरितरैः, तनयैः पुत्रैः सह पांसुषु धूलि, चिक्रीड क्रीडति स्म । बाला हि पांसुषु रमन्ते तरामिति जातिः ॥ १०५ ॥ अथ पञ्चमे वयसीति - अथानन्तरम्, पञ्चमे वयसि सञ्चरन् पञ्चमवर्षावस्थायां संचारं कुर्वाणः, समुदञ्चितः सम्यक्प्रकारेण प्रकटितो व्यक्तवचनानां स्पष्टवचसां प्रपञ्चः समूहो यस्य सः, कटीरव किशोरस्य मृगेन्द्रमाणवकस्येवाकृतिः संस्थानं तेज इति यावत्, यस्य सः, अयं जीवकः, स्वेच्छया, आगतस्य प्राप्तस्य, सकलकला एव निखिलवैदग्ध्य एव कल्लोलिन्यः सरितस्तासाम्, शैलः पर्वतस्तस्य, शैलो हि सरितामुद्गम
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy