________________
प्रथमो लम्भः
तदङ्गसौष्ठवकलावलोकनजनितष्टिदोपपरिहारायेव तरलतरकटाक्षनीलोत्पलदाममेचकरुचिवीचिकाविचितमातेन ।
पायं पायं नयनचपकै रूपलावण्यलक्ष्मी
सौधीं धारां प्रकृतिमधुरां वैश्यजायापती तो। स्पर्श स्पर्श कुसुममृदुलं विग्रहं तस्य सूनो
स्तृप्तिं प्राप्यानितरसुलभां प्रापतुर्विस्मयाब्धिम् ।। ६५ ।। देवता च महिपीतनुवल्लयाः साम्यमाश्रमलतास्विव द्रष्टुम् ।
बान्धवालयपराङ्मुखोमिमां दण्डकावननिवासमनैपीत् ।। ६६ ।।
अथ समीहितार्थसिद्धिजनिततोपकलितायां देवतायां सव्याजमन्तहितायामियं च राजपत्नी नैजमानससरोवरे सन्तविकचजिनपादपयोजविशोभिते नन्दनराजहंसं संक्रीडयामास ।
या हंसतूलशयनस्थलतान्तवृन्त
क्लेशासहा पुरि पुराजनि काननान्ते । दर्भपु हन्त शयनं बहुमन्यते स्म
सा मालतीकुसुमकोमलगात्रवल्ली ।। ६७ ॥ वल्लभेन, समर्पितं प्रदत्तम्, नयनान्यानन्दयति नयनानन्दनस्तं लोचनालादकम्, नन्दनं पुत्रम्, समाददाना गृह्णाना सुनन्दापि गन्धोत्कटवल्लभापि, तस्य पुत्रस्याङ्गसौष्टवकलायाः शरीरसौन्दर्यकलाया अवलोकनेन जनितः समुत्पन्नो यो दृष्टिदोपस्तस्य परिहारो निराकरणं तस्मा इव, तादयें चतुर्थी, तरलतरा अतिचपलाः कटाक्षा अपाङ्गान्येव नीलोत्पलदामानि नीलारविन्दमाल्यानि तेषां मेचकरुचिर्वाचिकया कृष्णकान्तिसन्तत्या विचितं व्याप्तम्, आतेने चकार ।
पायं पायमिति-सा च स चेति तो सुनन्दागन्धोत्कटा, वैश्यजायापती वणिग्दम्पर्ता, तस्य सूनोः पुत्रस्य, प्रकृत्या स्वभावेन मधुरा मनोहरा मिष्टेति यावत् ताम्, रूपलावण्यलक्ष्मी वर्णसौन्दर्यश्रियम्, सौधीं सुघाया इयं साधी ताम् पीयूषसम्बविनीम, धारा प्रवाहम्, नयनचपकैलॊचनपानपात्रः, पायं पायं पीत्वा पीवा, 'आभीक्ष्ण्ये णमुल च' इति णमुल् , कुमुममिव पुष्पमिव मृदुलं कोमलम्, विग्रहं शरीरम्, स्पर्स स्पर्श स्पृष्ट्वा स्पृष्ट्वा, नेतरेयां सुलभेत्यनितरसुलभा तामन्यजनदुर्लभाम्, तृप्ति संतोषम्, प्राप्यासाद्य, विस्मयाब्धिमाश्चर्यसागरम् प्रापतुर्लेभाते ॥ १५ ॥
देवता चेति-देवता च देवी च, महिषीतनुवल्ल्या राज्ञीशरीरवल्लाः , साम्यं सादृश्यम्, आश्रमलतासु तपोवनवल्लीषु, द्रष्टुमिवावलोकयितुमिव, बान्धवालयाद्भातृगृहात्पराङ्मुखी विमुखाम्, इमाम् विजयाम्, दण्डकावने दण्डकाभिधानकानने निवासस्तपोवनवासम्, अनैपीत्प्रापयत् । अत्र तृतीयं चरणं रथोद्धताया अन्यानि च त्रीणि स्वागतायाः। इत्थमुपजातिवृत्तम् । तदुक्तम् 'इत्थं किलान्यास्वपि मिश्रिताम् स्मरन्ति जातिष्विदमेव नाम' ॥१६॥
अथेति-अथानन्तरम्, समीहितार्थस्य समभिलषितकार्यस्य सिद्धया साफल्येन जनितः समुद्भूतो यस्तोपः सुखं तेन कलितायां सहितायाम्, देवतायां देव्याम्, सव्याज कस्यापि कार्यस्य मिषेण, अन्तर्हितायां तिरोभूतायां सत्याम्, इयं च राजपनी विजया, सन्ततं निरन्तरं विकचाभ्यां प्रस्फुटिताभ्यां जिनपादपयोजाभ्यां जिनेन्द्रचरणकमलाभ्याम् विशोभिते विराजिते, नैनं स्वकीयं मानसमेव चित्तमेव सरोवरः कासारस्तस्मिन् , नन्दन एव राजहंसस्तम्, पुत्रमरालम्, संक्रीडयामास ग्वेलयामार । जिनेन्द्रचरणारविन्दे पुत्रञ्च ध्यायन्ती समयमजीगमदिति तात्पर्यम् ।
या हंसेति-पुरा भर्तृराज्यवेलायाम, या विजया, पुरि नगर्याम्, हंसतूलशयनस्थानां हंसतृलोपलक्षितमृदुलविष्टर स्थितानां लतान्तानां पुष्पाणां वृन्तैबंधनैर्यः क्लेशो दुखं तस्यासहा सोढुमसमर्था, अजनि बभूव, मालतीकुसुममिव मल्लीपुप्पमिव कोमला मृदुला गात्रवल्ली शरीरलता यस्यास्तथाभूता, सा विजया, काननान्ते वनमध्ये, दर्भेषु कुशेष, शयनं स्वापम्, बहुमन्यते स्म श्रेष्टं बुध्यते स्म, हन्तेति खेदेऽव्ययम् ॥१७॥