________________
३४
जीवन्धरम् काव्ये
तृपित इव सरोऽम्भचातको यदु
प्रमृत जलकणालिं नातृपद्वैश्यनाथः ॥ ६२॥
अयं च, एधोऽन्वेपिजन इव महानिधिं महीशसुतमासाद्य, सद्य एवाङ्कुरितपुलका पदेशेन हृद्यालवालसंजातमञ्जुलमोदलताकोरकानिव विभ्राणः प्रीतेः परां कोटिमात्मजं चादधानः, तदङ्गस्पर्शसुखपारवश्येन प्रमदजलनिधिमग्न इव, हृदयान्तरे मलयजरसलिप्त इव, हिमवालुकादीर्घिका - निमज्जन्मूर्तिरिव, मोहाकान्त इव निद्राण इव, मत्त इव, परिमूढेन्द्रियगण इव, निमीलित चैतन्य इव, आनन्दपरम्परायाः परां काष्ठामातिष्ठमानो, जीवेत्याद्याशीर्वचनमाकर्ण्य, तमनङ्गरूपधेयं महाभागधेयमङ्गजं तन्नामधेयेनालं चकार ।
ततः स्वकीयावसथं समेत्य वणिक्पतिः कुद्ध इवाबभाषे । जीवन्तमप्यात्मजमद्य मत्ते विना परीक्षां मृतकं किमात्थ || १३ || यद्वा संभ्रान्तचित्तानां वनितानां स्वभावतः ।
युक्तं न किं कुमारस्य मारान्तत्वप्रकल्पनम् ॥ ६४॥
इत्यादिवचनसायकेन निजनायकेन समर्पितं नयनानन्दनं नन्दनं सुनन्दापि समाददाना स्येव प्रकाश उज्ज्वलत्वं यस्य तम्, सुतं पुत्रम्, अतिवितताभ्यामतिदीर्घाभ्याम्, लोचनाभ्यां नयनाभ्याम्, पिवन्नवलोकयन्, स पूर्वोक्तः, वैश्यनाथ गन्धोत्कटः, सरोऽम्भः कासारसलिलम् पिबन् धयन् तृपित इव पिपासुरिव, अभ्रान्मेघात् प्रसृतानां निःसृत्य विस्तृतानां जलकणानां वारिविन्दूनामालिः पङ्क्तिस्ताम, पिवन्, चातको यत् जीवजीव इव, नातृपत् संतृप्तो नाभूत् ॥ ६२ ॥
अयं चेति -- अयं च गन्धोत्कट, महानिधि विपुलभाण्डारम्, आसाद्य प्राप्य, एधोऽन्वेपिजन इवेध्मगवेपिपुरुष इव, महीशसुतं राजपुत्रम्, आसाद्य लब्ध्वा सद्य एव झटित्येव, अङ्कुरितानां प्रादुर्भूतानां पुलकानां रोमाञ्चाणामपदेशेन व्याजेन हृदयमेव स्वान्तमेवालवालमावापस्तस्मिन् संजाता समुत्पन्ना या मज्जुमोदलता मनोहरानन्दवल्लरी तस्याः कोरका: कुड्मलास्तान् बिभ्राण इव दधान इव प्रीतेः प्रसन्नतायाः, परामन्त्याम्, कोटिमवधिम्, आत्मजं पुत्रं च आदधान आधरन्, तदङ्गस्य पुत्रशरीरस्य स्पर्शेन संगेन यत्सुखं तस्य पारवश्यं परायत्तत्वं तेन, प्रमद एव जलनिधिः प्रमदजलनिधिर्हर्पपारावारस्तस्मिन्मन sa बुडित इव, हृदयाभ्यन्तरे चित्तमध्ये, मलयजरसेन चन्दननिस्यन्देन लिप्त इव दिग्ध इव, हिमबालुकानां प्रायसिकतानां दीर्घिका वापिका तस्यां निमज्जन्ती वगाहमाना मूर्तिः शरीरं यस्य स तथाभूत इव, मोनाक्रान्तो मोहाक्रान्तो मूढस्तद्वत्, निद्राण इव शयान इव मत्त इव चीव इव, परिमूढः प्राप्तमोह इन्द्रियगणो हृपीकसमूहो यस्य तथाभूत इव, निमीलितं तिरोहितं चैतन्यं यस्य तथाभूत इव, आनन्दपरस्परायाः प्रमोदसन्ततेः, परामुत्कृष्टाम्, काष्टां सीमानम्, आतिष्ठमानः प्राप्नुवन्, सन्, 'जीव' 'जीवतात् ' इत्याद्याशीर्वचनमितिप्रभृतिदीर्घायुष्यवचनम्, आकर्ण्य निशम्य, अनङ्गस्येव कामस्येव रूपधेयं सौन्दर्यं यस्य तम्, महद्भागधेयं भाग्यं यस्य तं विपुलभाग्यम्, तं पूर्वोक्तम्, अङ्गजं सुतम्, तन्नामधेयेन जीवेति नाम्ना, अलञ्चकार भूपयामास ।
तत इति -- ततस्तदनन्तरम्, वणिक्पतिगन्धोत्कटः, स्वकीयावस्थं स्वकीयगृहम्, समेल्यागत्य, क्रुद्ध इव कुपित इव, वनितां प्रति, आबभाषे जगाद, अयि मत्ते तीबे ! अद्यास्मिन् दिवसे, जीवन्तमध्यमृतमपि, आत्मजं पुत्रम्, परीक्षां विना विचारमन्तरेण, मृतक परासुम्, किं केन कारणेन, आत्थ कथयसि ? इति । अन्यस्या मातुरपत्यं विज्ञाय कदाचिदियं स्त्रीस्वभावादस्य निजापत्यवत्पालनं न कुर्यादित्याशङ्कय गन्धोत्कटेन तस्यान्यापत्यकत्वं निरस्तमिति रहस्यम् ॥ ६३ ॥
यद्वेति यद्वेति पक्षान्तरे, स्वभावतो निसर्गेण सम्भ्रान्तं क्षुभितं चित्तं यासां तासां वनितानां नारीणाम्, कुमारस्य पुत्रस्य, मारान्तत्वप्रकल्पनं मृतपर्यन्तकल्पनम् किं न युक्तं किं न योग्यमपि तु योग्यमेव । निसर्गेण संभ्रान्तचित्तानां विवेकः कुत इति भावः ॥ ६४॥
इत्यादिवचनेति — इत्यादीनि इतिप्रभृतीनि वचनान्येव सायकः शरस्तेन सह, निजनायकेन स्व