________________
प्रथमो लम्भः
ततया प्राणिगणवधविरतं तं वयस्य इव स्वस्थतां निनाय ।
स्वर्ग भूपो राजहा राज्यलक्ष्मी भेरीशब्दः श्रोत्रदेशं च देव्याः । पौराः शोक पण्डिताः स्त्रीविरक्तिं जन्यं शान्ति योगपद्यात्प्रपेदे ।।४।। तावञ्च यन्त्रं भ्रमणेन हीनं शनैः शनैस्तद्वियतोऽवतीर्य ।
तां भतृशोकानलदह्यमानां प्रपातयामास बने पित णाम् ।। ततश्च कुणपकवलनार्थ मिलितनिःशङ्ककङ्ककाकसङ्कुलमभ्यर्णसंज्वलच्चिताचक्रज्वालासंतप्ततया निजाग्रभागसमारोपितपाटच्चरगलनिरर्गलनिर्गलल्लोहितधारासंसर्गसंजातचुंकारिधूम्यसञ्छादितैः शूलैः समाकीर्ण सामिदग्धं शवं चिताहुतवहादाकृष्य खण्डशो विच्छिय खादन्तीनां डाकिनीनां कोलाहलेन कटाग्निदह्यमाननुकरोटिपटुचटात्कारेण च भीकरं यत्पुरप्रेतागारमवलोकमाना सा नरदेवमहिपी मूर्छापतचेतना बभूव ।
अजानती कश्मलपारवश्यात्प्रसूतिपीडां नरपालजाया ।
मासे तदा वै जनने दिनेऽस्मिम्प्रासूत सूर्नु तपनं यथा द्यौः ।।५।। सामजसमाजवाजिपादातं तेन शबलं चित्रितं तेन, बलेन सैन्येन, सनाथः सहितः सन् , नरनाथं नरेन्द्रम्, अभिगम्य तस्य संमुखं गत्वा, बहुधा विविवप्रकारेण, युद्ध्वा युद्धं कृत्वा, वैराग्यस्य निर्वेदस्यायत्तं निम्नं चित्तं हृदयं यस्य तस्य भावस्तत्ता तया, प्राणिगणस्य जन्तुसमूहस्य वधाद्धिंसनात् , विरतो विरक्तस्तम्, तं नृपम्, वयस्य इव सखेव, स्वःस्थतां स्वः स्वर्गस्तस्मिस्तिष्टतीति स्वःस्थस्तस्य भावः स्वःस्थता तां स्वर्गवासिचम्, पक्षे स्वस्थतां 'शर्प रे शरि विसर्गलोपो वा बक्तव्यः' इति वार्तिकेन विकल्पेन विसर्गलोपः। नीरोगताम्, निनाय प्रापयामास ।
स्वर्ग भूप इति-भूपः सत्यन्धरः, स्वर्गं त्रिदिवम् , राजहा काष्टाङ्गारः, राज्यलक्ष्मी राज्यश्रियम्, भेरीशब्दश्च ढक्कानादश्च, देध्या विजयायाः, श्रोत्रदेशं कर्णप्रदेशम्, पौरा नागरिकाः, शोकं खेदम्, पण्डिता विद्वांसः, स्त्रीविरक्तिं ललनाभ्यो विरागम्, जन्यं युद्धम्, शान्ति प्रशमम्, योगपद्याद्युगपदेव, प्रपेदे प्राप । अनेकेपां एकक्रियया सह सम्बन्धाद्दीपकालङ्कारः॥ १४ ॥
तावचेति–तावत्कालपर्यन्तम्, ब्रमणेन भ्रमणशक्त्या, हीनं रहितं तत् यन्त्रं शनैःशनैः मन्दं मन्दं वियतो गगनात्, अवतीर्य अवरुद्य, भर्तुः शोक एवानलस्तेन दह्यमाना ताम्, प्राणपतिविरहजन्यखेदपावकभस्मीभवन्तीम्, तां विजयाम्, पितणां बने श्मशाने प्रपातयामास स्खलयामास ॥
ततश्चेति-ततश्च राज्ञः स्वर्गप्रयाणानन्तरम्, कुणपकवलनार्थं मृतकदेहभक्षणार्थम्, मिलिता एकत्र संगता निःशङ्का निर्भयाश्च ये कङ्ककाकाः पक्षिविशेपास्तैः सङ्कुलं व्यासम् अभ्यण निकटं संज्वलत् प्रदीप्यमानं यञ्चिताचक्रं चितासमूहस्तस्य ज्वालाभिरर्चिभिः संपृतया निष्टतत्वेन, निजाग्रभागे स्वशिखरे समारोपितोऽधिष्टापितो यः पाटच्चरश्वोरस्तस्य गलात्कण्ठात् निरर्गलं निर्बाधं यथा स्यात्तथा निर्गलन्त्यो निःशेषेण पतन्त्यो या लोहितधारा रुविरश्रेणयस्तासां संसर्गेण संपर्केण संजाता समुत्पन्ना चुंकारिणी चुमितिशब्दकारिणी या धूम्या धूमसमूहः 'पाशादिभ्यो यः' इति य प्रत्ययः, तया सञ्छादितैरावृतैः, शूलरायसकीलः, समाकीणं व्याप्तम्, सामिदग्धमधदग्धम्, शवं मृतदेहम, चिताहुतवहात् चित्याग्नेः आकृप्याकृष्टं विधाय, खण्डशः खण्डेन खण्डेन, विच्छिद्य विदार्य, खादन्तीनां भक्षयन्तीनां डाकिनीनां पिशाचीनाम् , [कविसमयेनेतवर्णनं न तु जैन सिद्धान्तेन तत्र देवानां मांसभोजनस्य नि पिद्धत्वात् ] कोलाहलेन कलकलशब्देन, विकटाग्निना विशालानलेन दह्यमानः पच्यमानो यो नृकरोटिनरकपालप्रदेशस्तस्य पटुस्तीच्णो यश्चटात्कारोऽव्यक्तशब्दविशेषस्तेन च, भीकर भयङ्करम् , तत्पुरस्य राजपुरीनगरस्य प्रेतागारं श्मशानम् , अवलोकमाना पश्यन्ती, सा नरदेवमहिपी, नृपतिप्रधानपत्नी विजयेति यावत् 'कृताभिपेका महिषी' इत्यमरः, मूर्च्छया निःसंज्ञतयापहृता दूरीभूता चेतना संज्ञा यस्यास्तथाभूता बभूव ।
अजानती-तदा तदानीम् , वै जनने मासे दशमे मासे, अस्मिन् दिने नृपतिप्राणावसानदिवसे, १ अयं श्लोको मुद्रितपुस्तके नास्ति ।