________________
३२
जीवन्धरचम्पूकाव्ये तदा जनकराज्यश्रीष्टु मृतिमिवास्थिता । सुतस्य भाग्यसंपट्टा देवता काचिदागता ॥८६॥ दिशि दिशि विसरद्भिः पुत्रतेजाविलासै
बहलतिमिरजाले नाशिते तत्क्षणेन । विलसितमगिदीपा देवताक्लुप्तरूपाः
सुतरुचिपरिभूता मङ्गलार्था बभूवुः ।। ८७ ।। तस्या मुखेन्दारवलोकनन शोकाम्बुधिवृद्धिमवाप देव्याः ।
अभ्यग्रभावः किल बान्धवानां सुखस्य दुःखग्य च वृद्धिहेतुः ॥ ८८ ।। हा मनोजाकाररूप हा महागुणमणिद्वीप हा मानसविहारराजहंसरवरूप हा मदनकेलिचतुरभूप मम प्राणेकरूप वासि कासीति विलय ती शोकविपमोहिताङ्गी लताङ्गी तां देवतापि लोकोत्तरतोकोत्तममहिमवर्णनपीयूपपरिपेचनेन समुज्जीवयन्ती सुवर्णसवर्णपु तदीयाङ्गेपु लसदृर्णाप्रमुख विलक्षणलक्षणप्रदर्शनेन प्रत्याययन्ती तनुजवर्धनोपायचिन्तासंतमसदृरीकरणधीरतरमित्थं गिरमुत्थापयामास । कश्मलपारवश्यात् कृच्छूपारतन्त्र्यात्, प्रसूति-पोडां प्रसवकष्टम्, अजानती न बुध्यमाला, नरपनिजाया राज्ञी विजयेति यावत्, योगगनं तपनं यथा सूर्यमिव, सूनु सुतम्, मासूत जनयामास । उपमा ॥ ८५ ॥
तदेति-तदा तस्मिन् काल, मूर्ति शरीरम्, आस्थिता प्राधा, जनकराज्यश्रीरिच पितृराज्यलक्ष्मीरित्र सुनस्य पुत्रस्य, भाग्यसंपदा पुण्यसम्पत्तिा, द्रष्टुं विलोकयिनु नां विजयामिनि शेषः, काचित् कापि, देवता, देवी, आगता समायाता ॥८६॥
दिशि दिशीति-दिशि दिशि प्रतिकाष्ठम्, विसरद्धिः, प्रसरद्धिः पुत्रस्य शिशोस्तेजोविलासैः सहजज्योतिःप्रकाशः, बहलं प्रभूतं यत्तिमिरजालं ध्वान्तसमूहस्तस्मिन् , त क्षणेन तत्कालेन, नाशिते विध्वस्ते सति, देवतया देव्या क्लसं रहितं रूपं येषां ते तथाभूताः, विलसिताः शोभिता ये मणिदीपा रन्नप्रदीपाः ते, सुतस्य पुत्रस्य रुच्या देहदीपन्या परिभूतास्तिरस्कृताः सन्तः, मङ्गलमेवार्थः प्रयोजनं येषां तथाभूताः, बभूवुरासन् ॥ ८७॥
तस्या इति-तस्या देवतायाः, मुखेन्दोवदनचन्द्रमसः, अबलोकनेन दर्शनेन, देव्या विजयायाः, शोक एवाम्बुधिः खेदसागरः वृद्धिम् उन्नतिम् , अवाप लेभे। बान्धवानामिष्टजनानाम् , अभ्यग्रभावः सांमुख्यम्, सुखस्य शर्मणः, दुःश्वस्य चाशातस्य च 'शर्मशातमुखानि च' इत्यमरः, वृद्धि हेतुः प्राबल्यकारणं भवाति शेपः, किलेति वार्तायाम् ॥ ८॥
हा मनोजेति-हा मनोजस्येव कामस्येवाकाररूपे संस्थानसौन्दर्ये यस्य तत्सम्बुद्धी, हा महागुणा एव मणयो रत्नानि तेषां द्वीपस्तत्सम्बुन्हौ, हा मानसं चित्तमेव मानसं मानससरोवरस्तस्मिन् विहारे क्रीडने राजहंसस्येव मरालस्येव पक्षे राजज्येष्टस्येव स्वरूपं यस्य तत्सम्बुद्धौ, हा मदनकेल्या कामक्रीडायां चतुरो दक्षस्तत्सम्बुद्धौ, मम विजयायाः, प्राणैकरूप जीवितोपम, भूप राजन् , क्वासि कुत्रासि क्वासि कुत्रासि, इत्येवं प्रकारेग, विलपन्तीं विलापं कुर्यन्तीम्, शोक एवं विपाद एव विपं गरलं तेन मोहितानि प्राप्तमू नि अङ्गानि यस्यास्ताम्, लताङ्गी कृशाङ्गीम्, तां राज्ञी, देवतापि देव्यपि, लोकोत्तरस्य सर्वश्रेष्टस्य तोकस्य पुत्रस्य य उत्तममहिमा परममाहात्म्यं तस्य वर्णनमाख्यानमेव पीयूपममृतं तेन परिपेचनं पर्युक्षणं तेन, समुजीवयन्ती समुल्लासयन्ती, सुवर्णसवणेषु कनककल्पेषु, तदीयाङ्गषु पुत्रावयवेपु, लसन्ति शोभमानानि, ऊर्णाप्रमुखानि मकरिकाप्रयानानि यानि विलक्षणलक्षणानि विचित्रचिह्नानि तेषां प्रदर्शनेन विलोकनेन, प्रन्याययन्ती विश्वासमुत्पादयन्ती, तनुजवर्धनस्य पुत्रवृद्धर्य उपायाः साधनानि तेषां चिन्तैव संतमसं गाढध्वान्तम् तस्य दूरीकरणेऽपहरणे धीरतरमतिशयेन धीरं यथा स्यात्तथा, इत्थं वच्यमाणप्रकाराम, गिरं वाणाम्, उत्थापयामास उत्थापयति स्म, जगादेति यावत् ।
१ तिमिरबहलजाले ब०। २ मणिरूपा मु० ।