________________
जीवन्धरचम्पूकाव्ये इति नरनाथवचनपरिपाटी निष्प्तलाहपतितवारिधारेव शोकानलज्वालालीढे देव्या मनसि किञ्चिदप्याद्रतामनापादयन्ती निर्दग्धभूम्युमवीजराजिरिव विफला बभूव ।
राजा समारोप्य शिखण्डियन्त्रमापन्नसत्त्वां सरसीमहाक्षीम् ।
संभ्रामयामास च मेघमागे हा हा बत क्रूरविधेविंपाकः ।।दशा अथ कलापियन्त्रे वलाहकमार्गमधिरूढे, मृगेन्द्र इव गिरिकन्दरा मन्दिरान्निर्गत्य, निखिलपरिवारविकलो वसुधापतिरसहाय एव रणाङ्गणमवतीर्य, धैर्यावगाढहृदयस्तत्राभ्यमित्रीणं शात्रवमन्त्रिणं संगरसंनद्धं निध्याय, क्रोधपरतन्त्रितचित्तो योद्धमुपचक्राम ।
चण्डवात इवाम्भोदा मण्डलाधिपतिर्भटान् । निनाय कान्दिशीकत्वं पञ्चाननपराक्रमः ।।२।। जिगाय मन्त्रिणं वीरो जनानामधिपस्ततः ।
जन्याजिराभ्रतिग्मांशुजयश्रीप्राणवल्लभः ।।३।। अथ काष्ठाङ्गारोऽपि संगरे निजामात्यभङ्गं निशम्य, तरङ्गितक्रोधकुटिलितभ्रुकुटीविटङ्कः सामजसमाजवाजिपादातशवलेन बलेन सनाथो नरनाथमभिगम्य, बहुधा युद्ध्वा, वैराग्यायत्तचि
इति नरनाथवचनेति इति पूर्वोक्तप्रकारा नरनाथस्य सत्यन्धरमहाराजस्य वचनपरिपाटी वाक्यपरम्परा, निष्टप्तश्चासौ लोहश्चेति निष्टललोहः संतप्तायः तस्मिन् पतिता मुक्ता या वारिधारा तद्वत्, शोकानलस्य विषादवह्वेज्वालाभिरचिमिरालीढं व्याप्तं तस्मिन् , देव्या राज्याः, मनसि चेतसि, किञ्चिदपि मनागपि, आईतां क्लिन्नताम्, अनापादयन्ती न कुबन्ती, निर्दग्धभूमी निर्दग्धपृथिव्यामुसा संतानिता या बीजराजिः कणश्रेणिस्तद्वत्, विफला निष्फला, बभूवाभूत् ।।
राजा समारोप्येति-राजा नरेन्द्रः, आपन्नसत्त्वां गर्भिणीम् , सरसीरुहातीम् कमललोचनाम् , विजयामिति यावत् , शिखण्डियन्त्रं मयुरयन्त्रम् , समारोप्याधिष्टापयित्वा, मेघमार्गे च नभसि च, संभ्रामयामास संचालयामास, 'हा हा वत' इति खेदार्थेऽज्यपत्रयम् , ऋरविधेर्दुष्टदेवस्य, विपाकः परिणामः फलमिति यावत् । कर्मणामुदयो विचित्रोऽस्तीति महादुःखकरमिति भावः ॥ ८५ ।।
अथ कलानियन्त्र इति-अथानन्तरम्, कलापियन्त्रे मयूरयन्त्रे, वलाहकमार्ग मेघमार्गम् गगनमिति यावत् , अधिरूढेऽधिष्ठिते सति, गिरिकन्दरात्पर्वतगह्वरात् , मृगेन्द्र इव सिंह इव सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः' इत्यमरः, निर्गन्य बहिरागत्य, निखिलश्चासौ परिवारश्चेति निखिलपरिवारः समस्तपरिजनः, तेन विकलो रहितः, वसुवापतिर्नृपः सन्यन्धरः, असहाय एव एकाक्येब, रणांगणं समरचन्दरं युद्धभूमिमिति यावत् , अवतीर्य प्रविश्य, धैर्येण स्थैर्येणावगाढं प्रचुरं हृदयं चेतो अस्य तथाभूतः सन् , तत्र रणङ्गणे, अभ्यमित्राणं शत्रुपक्षीयम्, शाश्वमन्त्रिगं शत्रुसचिवम्, संगराय युद्धाय संनद्वं तत्परम्, निध्याय दृष्टा, क्रोधेन कोपेन परतन्त्रितं परायत्तं चित्तं मनो यस्य तथाभूतो भवन , योद्धं युद्धं कक्षुम्, उपचक्राम तत्परो बभूव ।
चण्डवात इति-पञ्चाननस्येव पराक्रमो यस्य स मृगेन्द्रविक्रमः, मण्डलाधिपतिर्भूपतिः चण्डवातस्तीच्णपवनः अम्भोदानिव मेघानिब, भटान् योद्धन् , कान्दिशीकत्वं भयद्रुतत्वम् 'कांदिशीको भयद्रुते' इत्यमरः, भयकृतपलायमानताम्, निनाय प्रापयामास । 'अकथितञ्च' इति नग्रतेईिकर्मकत्वम् ।। ८२ ॥
जिगायेति-ततः कतिपयक्षणव्यापियुद्धानन्तरम्, जन्याजिरं समराङ्गणमेवाभ्रं गगनं तत्र तिग्मांशुः सूर्यः, जयश्रिया विजयलक्ष्म्याः प्राणवल्लभो जीवितेशः, वीरः शूरः, जनानां लोकानाम् , अधिपः स्वामी सत्यन्धर इति यावत् , मन्त्रिणं शत्रुसचिवम् , जिगाय जयति स्म 'सन्लि योजः' इत्यभ्यासस्य कुत्वम् ॥ २ ॥
अथ काठाङ्गारोऽपीति-अथ तदनु, काष्ठाङ्गारोऽपि कृतघ्नशिरोमणिरपि, संगरे समरे, निजामात्यस्य स्वसचिवस्य भङ्गं पराजयम् , निशम्य श्रुत्वा, तरङ्गितक्रोधेन वृद्विङ्गतकोपेन कुटिलितो वक्रीकृतो भृकुटीविटङ्को श्रृप्रदेशो यस्य तथाभूतः सन् सामजसमाजश्च गजगणश्च वाजिनश्च हयाश्च पादातानि च पदातिसमूहश्चेति