________________
प्रथमो लम्भः
मेघावलिः सुखकरी स्वसमाननाम्नां
वर्षासु मत्तशिखिनां शिखिनाश हेतुः । इत्थं विचिन्त्य किल कल्पितके कियात्रं
राज्ञा बिनुन्नमचद्धन संनिधाने ।।६३ ॥ राजा च राजवदनां महिषों विधाय
__यन्त्रे तदीयघनकेशविनिर्जिताभ्रम् । संद्रष्टुकाम इव दौदकाललीलां
संभोक्तुमभ्रसरणौ विजहार धीरः ।। ६४ ॥ - तावत्स दुराचारः काष्टाङ्गारः, काटा नरयु शान्ताङ्गारसकाशभासं राजधः कृतन इत्याद्ययशोविलासं समार्जयन् , संमार्जयंश्च सकहितवृत्तिम् , राजद्रोहनियन्त्रितचित्तो निजातःकरणे चिन्तयामास । लोके पराधीनं जीवितं परमोत्कृष्टपदवीमवाममपि सरसमाचाफलनीचेतरमधुरक्षीराधुपचारपरिलालितपञ्जरबद्धशुकशावक जीवनमिव विनिन्दितम् , निजवलविभवसमाजितमृगेन्द्रपदसंभावितस्य कु-भीन्द्रकुम्भस्थलपाटनपटुतरखरनखरस्य मृगेन्द्रस्येव स्वतन्त्रजीवनमविनिन्दितमभिनन्दितमनवद्यमतिद्यम , इति ।
विधिस्तस्मिन् रक्षाकार्ये, परिक्लप्त प्रलीनं चितं मनो यस्य तथाभूतः, असौ धरणीरमणो महीपतिः, यशसि कीती. आस्थामादखुद्धिम् , शरीररय गानस्य वृत्तिः सझावस्तस्याम् , उपरति विरक्तिम् , च कुर्वन् विद्धन् सन् , इह स्वनगरे, केकियन्त्रं मयूराकारयन्त्रम्, अचीकरत् कारयामास ।। ६२ ।।
मेघावलिरिति-वर्षापु प्राट् सु, स्वसमानं नाम येषां तेषां स्वसदृशनामधेयानाम् , मत्ताश्च ते शिखिनश्च तेषां मत्तमयूराणां सुखकरी सुखोत्पादिका, मेघावलिनपतिः, शखिनां वह्नीनां नाशस्य हेतुः कारणमस्ति, इथमनेन प्रकारेग, विचिन्न्य विचार्य, कल्पितं च तत्कंकियन्त्रं चेति क.ल्पतके कियन्त्र निर्मितमयूरयन्त्रम् , राज्ञा नृपेण, बिनुन्नम् प्रेरितं सत्, घनसंनिधाने मेघसमीपे, अचरत् विजहार, किलेति वार्तायाम् ॥ ६३ ॥
राजा चेति-धीरो गभीरः, राजा च सत्यन्धरश्च, राजेव चन्द्र इव वदनं मुखं यस्यास्ताम् , महिषीं राज्ञीम् , यन्त्रे मयूराकारनभोयाने, विधाय कृत्वा, तदीयाश्च ते घनकेशाश्चेति तदीयधन केशास्तदीयसान्द्र शिरोरुहास्तैविनिर्जितं पराभूतं यदभ्रं मेघस्तत्, संद्रष्टुकाम इव विलोकयितुमना इव 'तुं काममनसोरपि' इति मलोपः, दोहदकाललीलां गर्भकालक्रीडाम् , संम्भोक्तुमनुभवितुम् , अभ्राणां मेघानां सरणिर्मार्गस्तस्यां गगन इत्यर्थः, विजहार विहारमकार्षीत् ॥ ६४ ॥
तावदिति-तावत तावता कालेन, दुराचारो दुर्वृत्तः, स पूर्वोक्तः, काष्टाङ्गारो राज्यकर्मणि नियुक्तः, काष्टान्तरेपु दिगन्तरालेषु, शान्ताङ्गारैः, इङ्गालः 'कोयला' इति प्रसिद्धः सकाशा सदृशी भा दीप्तिर्यस्य तम् , राजघो नृपहा, कृतं हन्तीति कृतन्न उपकारानभिज्ञः, इत्यादिश्वासावयशोविलासश्चेतीत्याद्ययशोविलासस्तम्, इति प्रभृत्यकीर्तिविस्तारम् , समार्जयन् प्राप्नुवन् सकलहितवृत्ति निखिलजनकल्याणकारिप्रवृत्तिम् , संमार्जयन् उत्सारयन् , राजद्रोहे नृपतिविद्वेषे नियन्त्रितं निलीनं चित्तं मनो यस्य तथाभूतः सन् , निजान्तःकरणे स्वकीयचेतसि चिन्तयामास विचारयामास । लोके भुवने, पराधीनं परायत्तम् , जीवितं जोवनम्, परमोत्कृष्टा चासो पदवी चेति परमोत्कृष्टपदवी ताम् , सर्वश्रेष्ठपदम् , अवासमपि लब्धमपि, सरसमोचाफलानि च रसाढ्यकदलीफलानि च नीचेतरमधुरक्षीराणि च सातिशयमिष्टपयांसि चेति सरसमोचाफलनीचेतरमधुरक्षीराणि, तान्यादी येषां ते तथाभूताश्च त उपचाराश्च तैः परिलालितः परितोपितो यः पञ्जरबद्धः शलाकागृहनिरुद्धः शुकशावकः कीरबालकस्तस्य जीवनमिव जीवितमिव, विनिन्दितं निन्दापात्रम् , अस्तीति शेषः, निजबलविभवेन स्वकीयपराक्रमसम्पत्त्या समार्जितं प्राशं यन्मृगेन्द्रपदं मृगराजपदवी तेन संभावितस्य शोभितस्य, कुम्भीन्द्रकुम्भस्थलस्य गजेन्द्रगण्डस्थलस्य पाटने विदारणे पटुतराणि दक्षतराणि खरनखराणि तीक्ष्णनखानि यस्य तस्य मृगेन्द्रस्येव सिंहस्येव, स्वतन्त्रजीवनं पराविन्नजीवितम् , अविनिन्दितम् अगह