________________
जीवन्धरचम्पूकाव्ये
अन्तःस्थशिशुगाम्भीर्यं दृष्ट्वास्या नाभिमण्डलम् । लज्जयेवाद्य तत्याज गाम्भीय भूभुजा समम् ।। ५६ ॥ मध्यदेशश्चकोराक्ष्याः शिशुना बलिना तदा । भङ्क्त्वा वलित्रयं राज्ञस्तातेनाभूत्समं गुरुः ।। ६० ।। नीलाब्जानि जितान्यासञ्जय्यमद्य सिताम्बुजम् ।
इतीव देव्या नयनयुगलं धवलं बभौ ।। ६१ ।।
तावत्सदोहलां महिलामिमां दृष्ट्वा स्मृत्वा च दुःस्वप्नफलं पश्चात्तापपराहतस्वान्तो महीकान्तोऽयमात्मरक्षणपरायणश्चिन्तामेवमकरोत् । दुष्कर्मपरिपाकपराभूततया मया विषयानुरागापथ्यसेवनेनातिलचितानि सचिववचनसञ्जीवनौपधानि । अथवा कृतमनयास्थानपतितया गतजलसेतुबन्धनसकाशया वाञ्छया। किंतु फलकालिककलिकापचयवाञ्छेवोपहास्यतां प्राप्नोति ।
एवं विचिन्त्य धरणीरमणस्तदानीं ।
वंशस्य रक्षणविधौ परिक्लृप्तचित्तः । आस्थां यशस्युपरतिं च शरीरवृत्तौ
कुर्वन्नचीकरदसाविह केकियन्त्रम् ॥ ६२ ॥
नमराभ्यां चुम्बितमालिङ्गितं गुलुच्छयुगं स्तवकयुगलं यस्यास्तथाभूता, लतेव वलरीव, रेजे शुशुभे । मालोपमा ॥ ५८ ॥
अन्तःस्थेति-अस्या नरेन्द्रमानिन्याः, नाभिमण्डलं तुन्दिगह्वरम्, अन्तःस्थस्य गर्भस्थस्य शिशोबलकस्य गाम्भीर्यमगाधत्वं धैर्यवत्त्वञ्च, दृष्ट्वा विलोक्य, लजयेव अपयेव, अद्य गर्भधारणवेलायाम् । भूभुजा भूपालेन, समं साकम्, गाम्भीय मगाधतां धैर्यञ्च, तत्याज त्यजति स्म। उत्प्रेक्षाश्लेपसहोक्तयः ॥५६॥ ।
मध्यदेश इति-तदा तस्यां वेलायाम्, चकोराच्या जीवंजीवलोचनायाः, मध्यदेशः कटिप्रदेशः, बलिना बलवता, शिशुना बालकेन, वलित्रय नाभेरधस्ताद्विद्यमानरेखाबय पक्षे बलवत्त्रयम्, भक्त्वा नाशयित्वा पराजित्य च, राज्ञो नृपतेः, तापेन विपादेन, समं सार्धम्, गुरुरधिको विस्तृतश्च । अभूत् बभूव । श्लेषाद्ववयोरभेदः । विरोधाभाससहोक्ती ॥६॥
नीलाब्जानीति-नीलानि च तान्यजानीति नीलाब्जानि भोलारविन्दानि, जितानि पराभूतानि, अदानीम्, सितञ्च तदम्बुजञ्चेति सिताम्बुजं पुण्डरीक, जय्य जेतुं शक्यम् 'क्षय्यजय्यौ शक्याथें' इति निपातितम्, अस्तीति शेषः । इति विचार्येव, देव्या विजयायाः, नयनयुगलं लोचनयुगम्, धवलं सितम्, बभौ शुशुभे । उत्प्रेक्षा ॥६॥
तावदिति-तावत-तावता कालेन, सदोहला सगर्भाम्, इमां महिलाम्, विजयाम्, दृष्ट्वा विलोक्य, दुःस्वप्नफलं कङ्केलिपादपपतनात्मकस्य दुःस्वप्नस्य फलं परिणाम स्वमरणात्मकमिति यावत्, स्मृत्वा च ध्यात्वा च, पश्चात्तापेनानुशयेन पराहतं पीडितं स्वान्तं मनो यस्य सः, महीकान्तो भूपतिः, अय सत्यन्धरः, 'आत्मनः स्वस्य रक्षणे त्राणे परायणस्तत्परः सन् , एवं वक्ष्यमाणप्रकाराम् , चिन्तां विचारम्, अकरोत् विदधौ । दुष्कर्मणां पापकर्मणां परिपाकेन परिणामेन पराभूततया तिरस्कृततया, मया सत्यंधरेण, विषयेषु पञ्चेन्द्रियविषयेष्वनुरागः प्रीतिर्विषयानुरागः स एवापथ्यमहितं तस्य सेवनेन, सचिववचनानि मन्च्युपदेशा एव सञ्जीवनौषधानि जीवनाधायकभैषज्यानि, अतिलचितानि त्यक्तानि, उपेक्षितानीति यावत् । अथवेति पक्षान्तरे, अस्थाने पतिता तया-असमयप्रादुर्भूतया, गतमने प्रयातं यज्जलं सलिलं तस्य सेतुबन्धनं पुलिननिर्माणं तस्य सकाशया सदृक्षया, अनया वाञ्छया-एतयेच्छया, कृतं व्यर्थम् । किन्तुअपितु, कलिकानां पुष्पदलानामपचयस्य वाञ्छा मनोरथः इति कलिकापचयवाञ्छा, फलकालिकी फलकालोत्पन्ना या कलिकापचयवाञ्छा, तद्वत्, उपहास्यतां हास्यभाजनताम्, प्राप्नोति लभते । इदानी चिन्ताकरगं व्यर्थमिति भावः।
एवमिति-तदानीं तस्मिन् काले, एवं पूर्वोक्तप्रकारेण, विचिन्त्य विचार्य, वंशस्य गोत्रस्य, रक्षणस्य