SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रथमो लम्भः २३ ततश्च विषयसुखपरवशस्य विशांपतेः स्वप्नवृत्ता-लप्रबोधनायेब सा नरपालसती, महाकविभारतीव गभीरार्थम, शारदाञ्जसरसीब राजहंस, रत्नाकरवेलेब माणिपुरन्दरहरिदिवेन्दुमण्डलम् , गिरिगुहेव सिंहकिशोरम , हेमकरण्डिकोष रत्नम् , सिन्धुशुक्तिकेव मुक्ताफलम् , गर्भ बभार । तदा हि तस्या बदनाम्वुजातं गर्मिकस्येव यशोबिलासैः । अल्पैरहोभिः परिपाण्डरत्वमवार चन्द्रेण च सर्वसाम्यम् ॥ ५५ ।। यथा यथासीदुदरं विवृद्धं तथा तथाश्याः कुचकुम्भयुग्मम् । श्यामाननत्वं सममाप राज्ञा स्वप्नस्य पाकादनुतारका ॥ ५६ ।। संवृद्धमुदरं वीक्ष्य तत्स्तनौ मलिनाननी। न सहन्ते हि कठिना मध्यस्थस्यापि संपदम् ।। ५७ ।। श्यामाननं कुचयुगं दधती वधूः सा पाथोजिनीव मधुपाश्चितकोशयुग्मा । पङ्कास्यहंसमिथुना सरसीव रेजे लोलम्बचुस्वितगुलुच्छयुगी लतेव ।। ५८ ।। सार्धम्, यथापुरं पूर्ववत् , विषयसुखाना मदनशर्मणां पारवश्येन परतन्त्रतया, रममाणः क्रीडन् , नरपतिः सत्यंधरः, कानिचित्कतिचित् , अहानि दिनानि, अतिवायाञ्चऽतिगमयामाल । ततश्चेति-ततश्च तदनन्तरञ्च, विषयसुखस्य मदनसुन्नस्य परमशः परायत्तस्तस्य, विशांपते राज्ञः, स्वप्नस्य वृत्तान्त उदन्तः स्वप्नवृत्तान्तस्तस्य प्रबोधनायेव ज्ञानायेव, सा पूर्वोक्ता, नरपासती बिजया, महाकवीनां जिनसेनादीनां भारती वाणी गभीराथमिव गढाभिधेयमिव, शरदि भवानि शारदालि शरहतभवानि. तानि च तान्यजानि पद्मानीति शारदाब्जानि तैरुपलक्षिता सरसी सरोबरः, राजहंसमिव मरालविशेपमिव, 'राजहंसास्तु ते चञ्चूचरणैलोहितैः सिताः' इत्यमरः, रत्नाकरस्य सागरस्य वेला तटी, मणिमिव रत्नमित्र, पुरन्दरस्याखण्डलस्य हरित्काष्ठा प्राचीति यावत् , इन्दुमण्डलमिव चन्द्रबिम्वमिव, गिरिगुहा पर्वतकन्दरा सिंहकिशोरमिव मृगेन्द्रमाणवकमिव, हेम्नः करण्डिका हेमकरण्डिका सुवर्गभाजनक रत्नमिव अणिमित्र, सिन्धोः सागरस्य शुक्तिका मुक्तास्फोटः मुक्ताफलमिव मौक्तिकमिव, गर्भ भ्रणम्, बभार दधार । मालोपमा । अथ तस्या गर्भावस्थां वर्णयितुमाह-तदा गर्भधारणवेलायाम , हि निश्चयेन, तस्या राज्याः, वदनं मुखमेवाम्बुजातं कमलम् , अल्पैरेव कतिपयरेव, अहोभिर्दिवसः, गर्भ स्थितोऽर्भको गर्भिकस्तस्य भ्र णस्थशिशोः यशोबिलासैः कोर्तिसञ्चारैरिव, परिपाण्डरवं धबलत्वम्, अथ च चन्द्रण निशाकरण, सर्वसाम्यं सर्वप्रकारेण सादृश्यम्, अवाप लेभे । उत्प्रेक्षा ॥५५॥ यथा यथेति-अस्या विजयायाः, उदरं जठरम्, यथा यथा येन येन प्रकारेण, विवृद्धं वृद्धियुक्तमासीत् , तथा तथा तेन तेन प्रकारेग, कुचकुम्भयुग्मं स्तनकलशयुगलम् , स्वप्नस्य, पाका परिणामात्, अनुतापस्य पश्चात्तापस्य का विधायकेन, राज्ञा सत्यन्वरेण, समं सह, श्यामानलत्वं कृष्णमुखत्वम्, आप लेभे, राजा स्वमरणदिवसस्य निकटस्थत्वेन पश्चात्तापान्मलिनमुखो बभूव, स्तनकलशथुगलं च गर्भकाले कृष्णचूचुक भवत्येव । सहोक्तिः ॥५६॥ संवृद्धमिति-तस्याः स्तनौ तत्स्तनौ तत्कुचौ, उदरं जउरम्, समन्ताद् वृद्धं संवृद्ध संविस्तृतम्, वीचय दृष्ट्वा, मलिनं कृष्णमाननं मुखं ययोस्तो कृष्णाग्रभागाविति यावत् , जालाथिति शेषः । हि यतः, कठिनाः परूपप्रकृतयः, मध्यस्थस्यापि मध्ये विद्यमानस्यापि पक्षे रागद्वेपरहितस्यापि, संपदं सम्पत्तिम्, न सहन्ते न तितिक्षन्ते । अर्थान्तरन्यासः ॥५७॥ श्यामाननमिति-श्यामाननं कृष्णचूचुक्रम्, दधती बिभ्रती, ला वधूर्विजया, मधुपाभ्यां भ्रमराभ्यामञ्चितं शोभितं कोशयुग्मं कुड्मलयुगलं यस्यास्तथाभूता, पाथोजिनीय कमलिनीव, पङ्कः कर्दमः आस्ये मुखे यस्य तत्पङ्कास्यं तथाभूतं हंसमिथुनं मरालयुग्मं यस्यां तथाभूता, सरसीव सरोवर इव, लोलम्बाभ्यां
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy