SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ जीवन्धर चम्पूकाव्ये इति निजवल्लभाप्रश्न सौदासीन्येनोत्तरयति महीबल्लभे, तदिङ्गितज्ञा सा कुरङ्गलोचना, तरङ्गितदुःखपूर परिमिलितान्तरङ्गा कविनितम्बिनीय गिरिनितम्वान्निजासनान्निपत्य भुवि लुठन्ती, स्वात्मनि दुष्पूरतया वायव्याजेन प्रवहता दुःखभूरेण वहि: लावितयेव चेतनया विमुमुचे । तावन्नि कान्ता चेतना परिमार्गणायेव गतया संज्ञया विनिर्मुक्तो नरनाथोऽपि कथंचिल्लब्धसंज्ञः प्राज्ञाग्रेसर: कथंकथमपि राज्ञीमुत्थाप्य तीरातीतशोकपारावारमध्ये सवविप्लवविवशायास्तस्याः पोतायितं वचनजातमुत्तरङ्गन्यामास । २२ स्वप्न दृष्टेन सरोजनेत्रे किं मां विनष्टासुमितस्तनोपि । संत्रातुकामाः खलु साधुवृक्षं नराः कदाचिन्न हि निर्दहन्ति ।। ५२ ।। किं कल्पते कुरङ्गाक्षि शोचनं दुःखशान्तये । आतपक्लेशनाशाय पावकस्य प्रवेशवत् ॥ ५३॥ ततो विशालाचि निशाकरास्ये धर्मो विपन्नाशनमातनोति । सूरो यथा स्फार हिमप्रणाशं चन्द्रो यथा संतमसस्य नाशम् ।। ५४ ।। इत्यादिसान्त्ववचनैः कान्तां परिसान्त्वयन्लव्धाश्वासया तया समं यथापुरं नरपतिर्विषयसुखपारवश्येन रममाणः कानिचिदहान्यतिवाहयाञ्चके । इति निजवल्लभेति इति पूर्वोकप्रकारेण महीवलभे नृपतौ, निजवल्लभाया विजयायाः प्रश्नमनुयोगम्, औदासीन्येनोपेक्षाभावेन, उत्तत्यति समादवति सति, तस्य महीवल्लभस्येङ्गितानि हृचेष्टितानि जानातीति तदिङ्गितज्ञा, सा कुरलोचनायना, तरङ्गितेन कल्लोलितेन बुद्धिगतेनेति यावत् दुःखभूरेणाशातप्रवाहेण परिमिलितमापूर्णमन्तरतं हृदयं यस्यास्तथाभूता सती, गिरिनितम्बात् पर्वतकटकात्, करिनितम्बिनीव हस्तिनीव, निजासनात्त्वविष्टरात्, विषय नितरां पतित्वा भुवि पृथिव्यां लुठन्ती लोठनं कुर्वती, स्वात्मनि स्वस्वरूपे, प्रतया मातुराभ्यतया, वायव्याजेन नयनसलिलमिषेण, प्रवहता स्यन्दता, दुःखपूरेणासुखप्रवाहेण, यहि:प्लावितचेव बहिनिःसारितयेव, चेतनया चैतन्यशक्त्या विमुमुचे विमुक्ता । तावत् तावता कालेन, निजकान्ताया स्वल्लभायाश्चेतना चैतन्यं तस्याः परिमार्गणायेव पर्यन्त्रेपणायेव गतया कुत्रापि प्रयातया, संज्ञया चेतनया, विनिर्मुक्तो रहितो मूच्छित इति यावत्, नरनाथोऽपि सत्यन्वरोऽपि कथञ्चित्केनापि प्रकारेण, लब्धा पुनरासादिता संज्ञा चेतना येन तथाभूतः प्राज्ञाप्रेसरो विद्वश्रेष्ठः सः, कथं कथमपि केनापि प्रकारेण राज्ञों देवीम् उत्थाप्य ससंज्ञां विषाय, तीरातीत उद्वेलो यः शोकपारावारः शोकसागरस्तस्य मध्येऽभ्यन्तरे, विलवाभ्याम् उन्मज्जननिमज्जनाभ्याम् विवशा परायत्ता तस्याः, तक्ष्या राज्याः, पोतायितं नौकावदाचरत्, वचनजातं गीःसमूहम्, उत्तरगयामास वर्धयामास । जगादेति भावः । स्वप्नेन दृष्टेनेति - हे सरोजनेत्रे हे कमललोचने ! दृष्टेनावलोकितेन, इतोऽनेन स्वप्नेन, मां प्रियम्, विनष्टासुं मृतम्, किं तनोषि किं बुध्यसे । हि यतः, खलु निश्चयेन, संत्रातुकामा रक्षणाभिलापिणो नरा जनाः, साधुवृक्षं सज्जनद्रुमम्, कदाचिज्ञातुचित्, न निर्दहन्ति न भस्मसात्कुर्वन्ति ॥ ५२ ॥ किं कल्पत इति - है कुरङ्गादि हे मृगलोचने ! पावकस्य वह्नेः, आधारेऽर्थे पष्ठी, प्रवेशवत् प्रवेश इव, कल्पते किम् जायते किम् अपितु न कल्पत इति भावः ॥५३॥ ततो विशालाक्षीति - ततस्तस्मात्कारणात्, हे विशालाक्षि हे दीर्घलोचने, हे निशाकरास्ये हे चन्द्रवदने, स्फारञ्च तमिञ्चेति स्कारहिंसं विशालतुपारस्तस्य प्रणाशो विनाशस्तं सूरो यथादित्य इव, संतमसस्य गाढान्धकारस्य 'अवसमन्वेभ्यस्तमसः' इत्यच् नाशं ध्वंसनम्, चन्द्रो यथा शशीव, धर्मः सुकृतपरिणामः, विपदो नाशनं विपन्नाशनम्, विपत्त्यपहरणम्, आतनोति विदधाति ॥५४॥ इत्यादीति — इत्यादीनि पूर्वोक्तप्रकाराणि च तानि सान्त्ववचनानि प्रथमवचनानि चेति तैः कान्तां प्रेयसीम्, विजयामिति यात्रत्, परिसान्त्वयन् प्रशमयन्, लक्ष्य आसादित आश्वासो धैर्यं यया तया समं 2 आतपेन वर्मेण क्लेशो दुःखं तस्य नाशोऽपहारस्तस्मै, शोचनं शोकः, दुःखस्य शान्तिस्तस्यै दुःखनाशाय,
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy