________________
२६
जीवन्धरचम्पूकाव्ये इत्थं मनसि संचिन्त्य कृतघ्नः सचिवैः सह । संमन्वयितुमारेभे राजद्रोहपरायणः ॥६५ ।। भवतां वचसां पदं प्रदातुं मम वाणी पुर एव संनिधत्ते । नवनाटकवस्तुसंकथानां पुरतो रङ्गभुवं गता नटीव ।। ६६ ।। राजद्रोहसमुद्यतं प्रतिदिनं देवं हि मां बाधते
द्रोहं राज्ञि समाचरेति तदिदं किं वा सुखान्तं भवेत् । यद्वा दुःखफलं ममेति हृदयं डोलायते मन्त्रिण
स्तत्तर्कप्रतितकनियमितैनिश्चयमन्यादृशैः ।। ६७ ॥ वक्तुं निवर्तमानाऽपि ह्रियैतत्परिनिन्दितम् ।
दैवतस्य भयाइव प्रह्वा जिह्वा प्रवर्तते ।। ६८।। इत्थं कृतावहित्थात्काष्ठाङ्गारवचनबन्धात्सत्कुलप्रसूता इव वचनीयात्, यमिजना इव प्राणिगणपरिपीडनात् , हरिणशावका इव दावानलज्वालात , राजहंसा इव घनाघनघनगर्जितात् , दरिद्रा इव दुर्भिक्षयोगात् , सभास्तारास्तत्र तत्रसुः।
णीयम् , अभिनन्दितं प्रशंसितम् , अनवद्यं निप्पापम् , 'कुपूयकुत्सितावद्यखेटगाणकाः समाः' इत्यमरः, अतिहृद्यमतिमनोहरञ्च, विद्यत इति शेपः । इत्येवं प्रकारेण चिन्तयामासेति सम्बन्धः।
___ इत्थमिति-कृतघ्नो नीचः कृतोपकारापलापनपटुरिति यावत् , राज्ञा सह द्रोहो राजद्रोहो नृपतिविद्रुपस्तस्मिन् परायणस्तत्परः, स काष्टाङ्गारः, इत्थं पूर्वोक्तप्रकारेण, मनमि चेतसि, संचिन्न्य विचार्य, सचित्रैमन्त्रिभिः, सह सार्धम् , संमन्त्रयितुं मन्त्रणां कर्तुम्, आरेभे तत्परोऽभूत् ॥ ६५ ॥
भवतामिति-भवतां युप्माकम्, वचसा वाचाम् , पदं स्थानम् 'पदं व्यवसितित्राणस्थानलक्ष्म्यनिवस्तुप' इत्यमरः । प्रदातुं वितरितुम्, मम काष्ठाङ्गारस्य, वाणी भारती, पुर एव पूर्वमेव, नवनाटकवस्तुमंकथानां नृतननाटकीयवस्तुव्यावर्णनानाम्, पदं प्रदातुम्, पुरतोऽग्रे, रङ्गभुवं रङ्गभूमिम्, गता प्राप्ता, नीव शैलूपीव, पदं चरणं स्थानं वा, संनिधत्ते निक्षिपति, पूर्वमहं कथयामीति यावत् ।। ६६ ।।
राजद्रोहसमुद्यतमिति-राजद्रोहे राजविद्वेपे समुद्यतं तत्परम्, देवं भागधेयम्, राज्ञि नृपतौ सत्यन्धरमहाराज इति यावत् , विपयार्थे सप्तमी, द्रोहं विद्वेष कार्तघ्न्य मिति यावत् , समाचर कुरु, इतीत्थम् प्रतिदिन प्रतिदिवसम्, मां बाधते पीडयति, अनिच्छन्तमपि मां राजविद्रोहं कर्तुं बलायतीति भावः । इदं तद् दैवबाधनम्, किं वा सुखान्तं सुखावसानम्, भवेत् स्यात् , यद्वा अथवा, दुःखमेव फलं यस्य तदुःखपरिणाम स्यात् , इत्येवं प्रकारेण मम हृदयं चेतः, डोलायते डोलावञ्चपलं वर्तते, तत्तस्मात्कारणात् , हे मन्त्रिणः हे सचिवाः, तर्कप्रतितर्कणैर्विमर्शप्रतिविमर्शः, नियमितैर्नियन्त्रितैः, अन्यादृशैरन्यप्रकारैश्च, तवृत्तम्, निश्चेयं निश्चेतुं योग्यमस्तीति शेपः ॥ ६७ ॥
वक्तुमिति-परिनिन्दितं जुगुप्सितम्, एतत्कार्यम्, वक्तुं कथयितुम्, हिया अपया, निवर्तमानापि पश्चात्कृतपदापि, प्रह्वा नम्रा, जिह्वा रसना, देवतस्य देवस्य, भयादेव भीतेरेव प्रवर्तते कथयितुं तत्परा भवति । नास्ति चेद्दवतस्य भयं न तर्हि प्रवर्तेत मदीया जिह्वा जुगुप्सितमेतन्निगदितुमिति भावः ॥ ६८ ॥
इत्थमिति-इत्थमनेन प्रकारेण, कृता विहितावहित्थाकारगोपनं यस्मिस्तस्मात् , 'भयगौरवलज्जादेईपांद्याकारगुतिरवहित्था । व्यापारान्तरसक्त्यन्यथाभापणविलोकनादिकरी', इत्यवहित्थालक्षणम्, काष्टाङ्गारस्य वचनबन्धस्तस्मात् काष्टाङ्गारवचनरचनायाः वचनीयात् निन्दायाः, सत्कुले समीचीनवंशे प्रसूता उत्पन्ना अभिजना इति यावत् , तद्वत् , प्राणिगणस्य जन्तुसमूहस्य परिपीडनं व्यथनं तस्मात् , यमिजना इव मुनय इव, दावानलस्य वनवहालस्तस्मात् , हरिणशावका इव मृगशिशव इव, घनाघनस्य मेघस्य घनं सान्द्रम्, यद् गर्जितं गर्जनं तस्मात्, राजहंसा इव मराला इव, दुर्भिक्षयोगात् अन्नदौलभ्यसंयोगात्, दरिद्रा इव निर्धना इव, ताराः स्थूला विशाला इति यावत् , सभाः सभास्थितजनाः, तत्र तत्रसुर्बिभ्युः । काष्टाङ्गारस्य राजद्रोहविधायकं वचनं श्रुत्वा सर्वे सभासदा भयेन कम्पिता बभूवुरिति भावः ।