________________
प्रथमो लम्भः
तावन्महीपालकमन्दिरान्तःपिकप्रतिस्पर्धिभनो कण्ठाः । प्राबोधिकाः पेठुरुपेत्य देव्याः प्रबोधनार्थ ध्वनिभिर्गभीरैः ।। ४२।। देवि प्रभातसमयोऽयमिहाञ्जलिं ते
पद्मः करैविरचयन्दरफुल्लरूपैः । शृङ्गालिमजुलरवैस्तनुते प्रबोध
गीतिं नृपालमणिमानसहंसकान्ते ॥ ४३ ।। दवि त्वदीयमुखपङ्कजनिर्जितश्री
__श्चन्दो विलोचनजितं दधदेणमङ्के । अस्ताद्रिदुर्गसरणिः किल मन्दतेजा
द्राग्वारुणीभजनतश्च पतिष्यतीव ।। ४४ ।। बलरिपुहरिदेपा रक्तसन्ध्याम्बरश्री
रविमयमणिदीपं रथ्यदूर्वासमेतम् । गगनसहितपात्रे कुर्वती भाक्षताट्ये
प्रगुणयति निकामं देवि ते मङ्गलानि ।। ४५ ।।
तामा
तावदिति-तावत् , यावद्भास्वानुदेतुमुदयाचलशिखरमधिरोहति तावत् , महीपालकस्य नृपस्य मन्दिरान्तर्भवनाभ्यन्तरे, पिकप्रतिस्पर्धिनः कोकिलमत्सरिणो मनोज्ञाः प्रियाः कर्णाः सुवर्णलमूहाः येषां ते, मधुरवाच इति यावत् , 'कर्णः पृथाज्येष्ठ पुत्रे सुवाली श्रुतावपि' इति मेदिनी, प्राबोधिकाः प्रबोधः प्रयोजन येषां ते मागवविशेपाः उपेत्याभिभुखमागन्य, गभीरैरर्थगाम्भीर्यसहितैः, ध्वनिभिः शब्दैः, देव्या राज्याः, प्रबोधनार्थं जागरणार्थ, पेतुः पठन्ति स्म ॥४२॥
देवीति-नृपालमणे राजरत्नस्य सन्यन्धरमहाराजस्येति यावत् मानसं चित्तमेव मानसं मानससरोवरस्तत्र हंसकान्ता हली तहबुद्धी तथाभूते, हे देवि हे राजि ! दरफुल्लरूपैरीपविकसितस्वरूपः, पौः कमलैः, करैः पाणिलिः, अञ्जलिं करलम्पुटं, विरचयन् कुर्वन् , अयं प्रभातलमयः प्रातःकाल, भृङ्गालोनां भ्रमरपतीनां मरवा मनोहरशब्दास्तैः, ते भवत्याः, प्रबोधगीति जागरणगीतिकाम्, तनुते विस्तारयति । रूपकोटमक्षा ॥४३॥
देवि त्वदीयेति-हे देवि हे राजि ! त्वदीयमुखपङ्कजेन त्वदीयास्यारविन्दन, निर्जिता पराभूता श्रीः शोआ यस्य तथाभूतश्चन्द्रः शशी, अङ्के क्रोडे, विलोचनाभ्यां जितं विलोचनजितं नेवपराभूतम् , एणम् हरिणम्, दधद् विभ्रक, अस्ताद्रिरस्ताचल एव दुर्गो दुर्गम्यस्थानं तस्य सरणिर्मा! यस्य सः, अथवास्ताद्रिदुर्ग एव शरणं यस्य सः, अथवा अस्ता गृहीताद्रिदुर्गस्य शैलदुर्गस्य सरणिर्मार्गो येन सः, तथाभूतः सन् मन्दतेजा क्षीणप्रतापः अभूदिति शेषः, किलेति वार्तायाम् । किञ्च, वारुणीभजनतः पश्चिमदिक्सेवनात् , अथ च मदिरासेवनात् , द्राक झटिति, पतिप्यतीव नीचैमिप्यतीव, पतितो भविष्यतीव । अन्योऽपि निर्बलः केनचिट्ठलीयसा पराजितः सन् पर्वतादी भ्रमन् पतत्येवेति भावः । श्लिटोत्प्रेक्षा ॥४४॥
नलरिपुडरिदिति-रक्तसन्ध्यग्रा लोहितसन्ध्योपलक्षिताम्बरश्रीनभोलक्ष्मीः पक्षे निचेललक्ष्मीर्यस्याः सा, एषा बलरिपोरिन्द्रस्य हरित्काष्ठा पूर्वदिशेति यावत् , पक्षे स्त्रीलिङ्गसाम्याल्काचिद्वनिता, रथ्या एव हया एव दूर्वा शतपर्वा तया समेतं सहितम्, रयिमयश्चासौ मणिदीपश्चेति रबिमयमणिदीपस्तं सूर्यरूपरत्नदीपम्, भाक्षताढ्ये नक्षत्रतण्डुलसहिते, गगनं व्योमैव महितं प्रशस्तं पात्रं भाजनं तस्मिन् , कुर्वती विदधती सती, हे देवि हे राज्ञि! ते भवत्याः मङ्गलानि श्रेयांसि, निकाममत्यन्तं यथा स्यात्तथा, प्रगुणयति वर्द्धयति अन्यापि काचित्सुवासिनी कृतलोहिताम्बरा सानते वचित्पात्रे दूर्वासहितं दीपक निधाय कस्यचिन्मङ्गलं प्रगणयति तद्वदत्रापीति भावः॥रूपकम् ॥४५॥
१. कर्णाः मु०। २. भाक्षताब्यं व० ।