________________
जीवन्धरचम्पूकाव्ये देवि त्वदीयकचडम्बरचौयतुङ्गा
भृङ्गावली सपदि पङ्कजबन्धनेषु । राज्ञा निशासु रचिताद्य विसृष्टहष्टा
त्वां स्तौति मञ्जुलरवैरुररीकुरुष्व ।। ४६ ।। पयोजथूलीपरिधूसराङ्गः पक्षौ विधूयाद्य वियोगखिन्नः । कोकः स्वकान्तां परिरभ्य तस्या वक्त्रे स्वचञ्चुं कलयन्विभाति ।। ४७ ।। हंसतूलमयीं शय्यां हंसीव सिंकताततिम् ।
चान्द्री कलेव शुभ्राभ्रपङ्क्तिं देवि जहीहि भो ।। ४८ ॥ इत्यादिप्राबोधिकपद्यालापैर्मङ्गलवाद्यनिनादैश्च कादम्बिनीकलकलैः केकिकान्तेव स्वप्नेन प्रबुद्धपूर्वापि सा 'प्रबुद्धा विधाय च प्रत्यूषकृत्यमभ्यग्रमभ्येत्य कृतवैभातिकविधये महासुधिये गुणमन्धराय सत्यंधराय निजकान्ताय महीकान्ताय स्वप्नोदन्तमिमं निवेदयामास ।
आर्यपुत्र जितामित्र दृष्टाः स्वप्नास्त्रयो भृशम् ।
वाचालयन्ति मां चूतकोरकाः कोकिलामिव ॥ ४६ ।। आर्यपुत्र सुत्रामविभव विभावर्याः पश्चिमे यामे कश्चन तरुरशोकोऽपि केनचित्कुठार
देवीति---हे देवि हे राज्ञि ! त्वदीयस्य कचडम्बरस्य केशकलापस्य चौर्येऽपहरणे तुङ्गा सून्नता पवीति यावत् , भृङ्गावली भ्रमरश्रेणिः निशासु रजनीयु, राज्ञा भूपालेन चन्द्र ण च 'राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः' इति कोशः, पङ्कजबन्धनेषु कमलकारावासेपु, सपदि झटिति, रचिता स्थापिता, अद्य साम्प्रतं प्रभातवेलायामिति यावत् , विसृष्टा चासौ हृष्टा चेति विसृष्टहृष्टा विमुक्ता अतएव च प्रसन्ना सती, मञ्जलरवैर्मनोहरशब्दैः, स्वां भवतीम् , स्तौति नीति, उररीकुरुप्य स्वीकुरु ॥४६॥
पयोजेति-पंयोजधूलीभिः पद्मपरागैः परिधूसरं परिमलिनमङ्गं यस्य तथाभूतः वियोगेन विरहेण खिन्नो विषण्णः, कोकश्चक्रवाकः, अद्य साम्प्रतं प्रभात इति यावत् , पक्षौ पतत्रे, विधूय कम्पयित्वा, स्वकान्तां स्वकीयवल्लभाम् , परिरभ्य समाश्लिप्य, तस्याः स्यकान्तायाः, वक्ने मुखे, स्वचञ्चुं स्वकीयत्राटिम् , कलयन धारयन, विभाति शोभते । स्वभावोक्तिः ॥४७॥
हंसतूलमयीमिति-भो देवि हे राज्ञि ! सिकताततिं वालुकाश्रेणिम्, हंसीव मरालीव, शुभ्राभ्रपङ्क्ति सितवारिदसन्ततिम्, चन्द्रस्येयं चान्द्री चन्द्रसम्बन्धिनी कलेव पोडशभाग इव, हसतूलस्य विकारो हंसतूलमयी ताम् अतिमृदुलामिति यावत् , शय्यां पर्यम् , जहीहि मुञ्च ॥४८॥
इत्यादिप्राबोधिकेति-इत्यादयः पूर्वोक्तप्रकारका ये प्राबोधिकानां प्रबोधकार्यनियुक्तानां मागधविशेषाणां पद्यालापाः कविताशब्दास्तैः, मङ्गलवाद्यानां मङ्गलप्रयोजनकवादित्राणां निनादा ध्वनयस्तैश्च, कादम्बिन्याः मेघमालायाः कलकला अनुकरणशब्दास्तैः, केकिकान्तेव मयूरीव, स्वप्नेन, पूर्व प्रबुद्धेति प्रबुद्धपूर्वाऽपि सा विजया प्रबुद्धा जागृता सती, प्रत्यूपकृत्यमहर्मुखकार्य स्नानादिकमिति यावत् । 'प्रत्यूपोऽहमुखं कल्यम्' इत्यमरः । विधाय कृत्वा, अभ्यग्रं पुरस्तात् , अभ्येत्याभ्यागत्य, कृता वैभातिकाः प्रातःकालिका विधयो येन तस्मै, महांश्चासौ सुधीश्चेति महासुधीस्तस्मै महापण्डिताय, गुणमन्धराय दयाशौर्यादिगुणविशिष्टाय, निजकान्ताय स्ववल्लभाय, इमं वक्ष्यमाणं स्वप्नादन्तं स्वप्नवृत्तान्तम्, निवेदयामास कथयामास ।
आयपुत्रेति-जितानि पराभूतान्यमित्राणि शत्रवो येन तत्सम्बुद्धौ हे जितामित्र, आर्यपुत्र हे नाथ ! दृष्टा अवलोकिताः, त्रयस्त्रिसंख्याविशिष्टाः स्वप्ताः चूतकोरका आनमञ्जरीकुड्मलाः, कोकिलामिव पिकीमिव, मां विजयाम्, भृशमत्यन्तम्, वाचालयन्ति मुखरयन्ति । उपमा ॥४॥
आर्यपुत्र सुत्रामविभवेति-सुत्रामा वज्री इन्द्र इति यावत् , तस्येव विभवमैश्वर्यं यस्य तत्सबुद्धी हे सुत्रामविभव 'सुत्रामा गोत्रभिद्बजी' इत्यमरः, आर्यपुत्र नाथ ! विभावर्या निशायाः पश्चिमेऽन्तिमे यामे
१. प्रबुध्य ब०।