________________
१८
जीवन्धरचम्पूकाव्ये अनेन कुमुदवन्धुना निजवसतिः कमलावलिर्विध्वस्तेति कोपादिव निशाकान्तानिकान्तायां कमलायाम् , निजनायकविरहानलधूमरेखां निर्गच्छभृङ्गमालाव्याजेनोद्वमन्तीपु कुमुदिनीपु, संभोगस्वेदसलिलैः प्रशान्तं मनसिजाग्निं विकचकमलरजःकणैमद्दीपयितुमिव वहति प्राभातिके मामते,
निद्रावती सा नरपालकान्ता स्वप्नं ददर्श स्वशुभाशुभान्तम् । अस्वप्नगम्यं किल भावि तस्याः स्वप्नेन गम्यं बत संबभूव ।। ३६ ॥ ततः पुरन्दराशायां सन्ध्यावन्धूकसच्छविः । रुरुचे गगनाम्भोधिविद्रुमोद्यानराजिवत् ॥ ४० ॥ अथाविरासीदिवसाधिनाथः प्राचीवधूटोगृहरत्नदीपः ।
व्योमश्रियः सामणिकन्दुको वा सन्ध्याङ्गनाया मुखकुङ्कम वा ॥४१॥ पूर्वपयोराशितैलोपान्तविराजमाने पतङ्गपातभयेनेवोपरिविन्यस्तगगनमरकतपात्रविशोभिते प्रदीप इव, पूर्ववारिधिविद्रुमच्छटाकान्तिझरीभिरिव प्राच्यपयोनिधिसकाशाद्गगनजलधिशोपणायोद्गताभिरिव वाडवाग्निज्वालाभिः प्रभाराजिभिरनुरक्तमण्डले चण्डकरे उदयधराधरशिखरमधिरूढे,
त्यम् , उपगतेषु प्राप्लेषु, निजकान्तं स्थवल्लभं चन्द्रमिति यावत् , निःश्रीक लक्ष्मीरहितग्, आलोक्येव दृष्ट्व, औषधनिचयेषु भैषज्यसमूहेषु तृणवज्ज्योतिःप्रभृतिविति यावत् , नैजं स्वकीयं यत्तेजस्तेन विरहितेपु वर्जितेप सत्सु, अनेन कुमुदबन्धुना एतेन चन्द्रमसा, निजवसतिर्निजनिकेतनम् , कमलावलिः पद्मपतिर्विध्वरता नाशिता, इति कोपादिव क्रोधादिव, निशाकान्ताच्चन्द्रमसः, कमलायां लक्ष्म्यां निष्फ्रान्तायां निर्गतायां सत्याम् , निर्गच्छन्त्यो निक्रामन्त्यो या भृङ्गमालाः पट्पदपतयस्तासां व्याजेन छलेन, कुमुदिनीपूपलिनीपु, निजनायकस्य स्वपतेविरहो वियोग एवानलो वह्निस्तस्य धूमरेखां धूम्रपतिम् , उद्वमन्तीपु प्रकटयन्तीपु, सतीषु, संभोगस्वेदसलिलैः सुरतघमोदकैः, प्रशान्तं मन्दीभूतम्, मनसिजानि कदानलम् , विकचकमलानां प्रस्फुटितपद्मानां रजःकणाः परागांशास्तैः उद्दीपयितुमिव प्रज्वलयितुमिव, प्राभातिके प्रातःकालिके, मारुते पवने, वहति वाति सति । अत्र सर्वत्र 'यस्य च भावे भावलक्षणम्' इति ससमी।
निद्रावती-निन्द्रावती शयाना, सा पूर्वोक्ता, नरपालकान्ता राज्ञी, स्त्रस्याः शुभाशुभे श्रेयोऽश्रेयसी अन्तौ परिणामी फले यस्य तम् , स्वप्नम् , ददर्श विलोकयामास । तस्या राज्याः, न स्वप्नेऽपि गम्यमित्यस्वप्नगम्यं सुदुर्लभं मावि भविष्यत् , स्वप्नेन, गम्यं ज्ञातुं योग्यम् , संबभव सम्यगभूत् । किलेति वार्तायाम् , बतेति खेदे ॥३६॥
ततः पुरन्दराशायामिति-ततस्तदनन्तरम् , पुरन्दरस्य पुरुहूतस्याशा काष्ठा तस्थाम , पूर्वदिशायामिति यावत् , बन्धूकस्येव सच्छविर्यस्याः सा जीवककुसुमसदृक्कान्तिः, सन्ध्या सूर्योदयान्प्रारभूतोऽरुणिमा, गगनं नभ एवाम्भोधिः सागरस्तस्य या विद्रुमोद्यानराजिः प्रवासोपवनपङ्क्तिस्तद्वत् । रुरुचे शुशुभे ॥४०॥
___ अथेति-अथ सन्ध्याप्रसारानन्तरम् , प्राच्येव वधूटी प्राचीवधूटी पूर्वदिक्कामिनी तस्था गृहे विद्यमानो यो रत्नद्वीपो मणिमयदीपः, व्योमश्रियो गगनलचम्याः, सन् समीचीनः, मणिकन्दुको वा रत्नगेन्दुकः इव, सन्ध्याङ्गनायाः सन्ध्येवाङ्गना वनिता तस्या मुखकुङ्कुमं वा बढ़नतिलकमिव, दिवसाबिनाथः सूर्यः, आविरासीत् प्रकटीबभूव ॥ रूपकम् ॥४१॥
__ पूर्वपयोराशीति-पूर्वश्चासौ पयोराशिश्चेति पूर्वपयोराशिः पूर्वसागरस्तस्य तैलस्य स्नेहस्योपान्ते समीपे विराजमाने शोभमाने, पतङ्गानां शलभानां पातस्य पतनस्य भनेव सोन्येव, उपरिविन्यस्तेनोवंधारितेन मरकतपात्रेण हरिन्मणिभाजनेन विशोभिते विराजिते प्रदीप इव दीपक इव, पूर्ववारिधेः पूर्वसागरस्य विद्रुमच्छटानां पल्लवसमूहानां कान्तिझरीभिरिव दीप्तिपरम्पराभिरिव, प्राच्यपयोनिधेः पूर्वसागरस्य सकाशात्समीपात् , गगनमेव जलधिगंगनजलधिराकाशपारावारस्तस्य विशोषणं तस्मै, उद्गताभिरुत्पतिताभिः, वाडवाग्निज्वालाभिरिव वडवानलाचिंभिरिव, प्रभाभिः कान्तिसमू हैः अनुरक्तमरुणं मण्डलं बिम्बं यस्य तथाभूते चण्डकरे सूर्ये, उदयधराधरस्य पूर्वाचलस्य शिखरं शृङ्गम्, अधिरूढेऽधिष्ठिते सति ।