SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये जीवन्धरस्य चरितं दुरितम्य हन्तु __ प्राता मलीमसतमापि मदीयवाणी । धीरान धिनाति नियतं मलिनाञ्जनश्री बिम्बाधरीनयनपङ्कजसंगतेव ।। १२ ।। अथ लवणरत्नाकरनिलकल्लोलशयकुशेशयप्रक्षिप्तमुक्ताविद्रुमराजीविराजितवेलालङ्कृते, संकलद्वीपमध्यमव्यासानेऽपि शोभातिशयेन तेपामुपरि वर्तमाने, स्वमहिमनिराकृतसुराधिपलोकं गगनतलचुम्बिजम्वृविटपिकपटेन मस्तकमुद्धृत्य प्रतिक्षणमीक्षमाण इव, अपारसंसारसंतमसान्धीकृतजीवलोकस्य पुरुषार्थचतुष्टयप्रकाशनायेव दिवाकरयुगलनिशाकरयुगलव्याजेन प्रदीपचतुष्टयमाविभ्राणे, मूर्तीकृतलावण्य इव महीमहिलायाः,रङ्गस्थल इव श्रीलासिकालास्यस्य, प्रतिच्छन्द इव नाकलोकस्य सकललेखलोचनमीनानामालम्बनकूपे जम्बूद्वीपे, भरतखण्डमण्डनायमानकमलवनमधुलुब्धभृङ्गमालाव्याजेन सकललोकलोचनबन्धनार्थमायसशृङ्खलामिव विभ्राणम् , परिपाकपि -~-rrr----- रामा । चिरात् चिरकालेन चरितार्था कृतकृत्या अभूद् बभूव । या भावैरनुरागपूर्णाभिप्रायः जिननायक जिनेन्द्रम्, जोवन्धरमेतन्नामधेयं देवं स्वामिनं वत्रे स्वीकृतवती । जीवन्धरोपाख्यानवर्णनेन मदीया वाणी कृतकृत्याभूदिति भावः ॥ ११ ॥ __ अथ जीवन्धरचरितस्याद्भुतप्रभावमाविर्भावयितुमाह-जीवन्धरस्येति-दुरितस्य पापस्य हन्तृ विघातक जीवन्धरस्य जीवकस्य कथानायकस्य चरितमाख्यानम् । प्राप्ता प्राप्तवती मदीयवाणी मद्भारती मलीमसतमापि सातिशयमलिनापि सती नियतं निश्चयेन बिम्बाधरीणां सुरक्ताधराणां नयनपङ्कजसंगता लोचनारविन्दसंलग्ना मलिनाञ्जनश्रीरिव मलिनकजलश्रीरिव धीरान् विदुपः सुदृढचेतसश्च धिनोति प्रगयति कम्पयति च । उपमालंकारः॥१२॥ अथ जम्बूद्वीपे हेमाङ्गदं नाम मण्डलमस्तीति निरूपयति । तत्र पूर्व जम्बूद्वीपं वर्णयितुमाहअथाद्य निवेदनानन्तरम , लवणरत्नाकरस्य लवणोदस्य निर्लोला अतिशयचपला ये कल्लोलास्तरङ्गा त एव शयकुशेशयाः करकमलानि तैः प्रक्षिप्ता ये मुक्ताविद्रुमा मुक्ताफलप्रवालास्तेषां राजी पर्तिस्तया विराजिता शोभिता या वेला ती तयाऽलंकृतस्तस्मिन्, सकलाश्च ते द्वीपाश्च सकलीपा निखिलद्वीपा धातकीखण्डप्रभृतय इति यावत् । तेषां मध्यं मध्यभागम्, अध्यासीनेऽप्यधिष्ठितेऽपि शोभातिशयेन सौन्दर्यातिरेकेण तेषां निखिलद्वीपानामुपयूज़ वर्तमाने विद्यमाने, अत्यन्तं शोभमान इति यावत् ; गगनतलचुम्बी नभस्तलस्पर्शी यो जम्बूविटपी जम्बूवृक्षस्तस्य कपटेन व्याजेन, मस्तक मूर्धानम्, उद्धत्योन्नमय्य, स्वमहिम्ना स्वकीयप्रभावेण निराकृतस्तिरकृतो यः सुराविपलोकः पुरन्दरभुवनं स्वर्ग इति यावत् तम्, प्रतिक्षणं प्रतिसमयम्, ईक्षत इतीक्षमाणस्तस्मिन्निवावलोकमान इव, अपारमनवसानं यत्संसारसंतमसं भवतिमिरं तेनान्धीकृतो यो जीवलोको जन्तुसमूहस्तस्य, पुरुषार्थानां धर्मार्थकाममोक्षाणां यच्चतुष्टयं चतुष्क तस्य प्रकाशनायेवावलोकनायेव दिवाकरयुगलस्य सूर्ययुग्मस्य निशाकरयुगलस्य चन्द्रयुग्मस्य च व्याजेन दम्भेन प्रदीपचतुष्टयं दीपकचतुष्टयम् । आबिभ्राणे आदधति । महीमहिलायाः पृथिवीवनितायाः, मूर्तीकृतं लावण्यं सविग्रहीकृतं सौन्दर्य तस्मिन्निव, श्रीलासिकालास्यस्य लक्ष्मीनटीनाट्यस्य, रङ्गस्थल इव रङ्गभूमाविव, नालकोकस्य स्वर्गप्रदेशस्य प्रतिछन्द इव प्रतिबिम्ब इव, सकलाश्च ते लेखाश्च सकललेखा निखिलदेवास्तेषां लोचनान्येव मीना मत्स्यास्तेपाम् । आलम्बनकृपे आधारकूपे जम्बूद्वीपे प्रथमद्वीपे । भरतखण्डस्य भारतवर्पस्य मण्डनायमानमाभरगवदाचरद्यत्कमलवनं तस्य मनु मकरन्दं तस्मिन् लुब्धात्यासक्ता या भृङ्गमाला भ्रमरश्रेणिस्तस्य व्याजेन दम्भेन, सकललोकानां निखिलजनानां लोचनानि नयनानि तेषां बन्धनार्थमवरोधनार्थम् । आयसशृङ्खला ५. सकलमध्यमध्यासीने ब० ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy