________________
प्रथमो लम्भः
भजे रत्नत्रयं प्रत्नं भव्यलोकैकभूपणम् । तोपणं मुक्तिकान्तायाः पूपणं वान्तसन्ततेः ।।३।। वागी कर्मकृपाणी द्रोणी संसारजलधिसंतरणे । वेणीजिनधनमाला जिनवदनाम्भोजभामुरा जीयात् ।।७। अरन्ध्रसद्वृत्तमणीमनन्तगुणगुम्फिताम । अपूर्वमालां मन्येऽहं पूर्वाचार्यपरम्पराम् ।।८।। गद्यावलिः पद्मपरस्परा च प्रत्येकमायावहति प्रमादम । हर्पप्रक तनुते मिलित्वा नाबाल्यतारुण्यवतीव कान्ता ॥६॥ या कथा भूतधात्रीशं श्रणिकं प्रति वर्णिता । सुधर्मगणनाथेन तां वक्तुं प्रयतामह ॥ १० ॥ मदीयवाणीरमणी चरितार्था चिरादभूत् । वत्रे जीवन्धरं देवं या भावर्जिननायकम् ॥ ११ ॥
निर्जनदेशस्तस्मिन् । मुकिनितिरेव कान्ता वल्लभा तया विराजिताः शोभितास्तान । नष्टं शुक्लध्यानानलभस्मलात्कृतं कर्माष्टक ज्ञानावरणाअष्टकर्मनिकुरम्बं यस्तान । विशुद्धान् विमलान् । सिद्धान् भगवतः सिद्धपरमेष्टिनः । हृदि चेतमि भावये चिन्तयामि । नेषां ध्यानं करोमीति भावः ॥५॥
____ अथ रत्नत्रयं स्तोतुमाह-भजे इनि-पन्न प्राचीनं श्रेष्ठं वा । भव्याश्च ते लोकाश्च ति भव्यलोकास्तेपामेकम द्वितीयं भूपणमाभरणं तत् । मुनिरेव निवृनिरेव कान्ता प्रिया तस्याः। तोपणं सन्तोषप्रदम् । ध्वान्तस्य मोहतिमिरस्य या सन्ततिः समूहम्नस्याः पूपणं सूर्यम् । त्नत्रयं सम्यग्दर्शनज्ञान चारित्रात्मक मणित्रितयं भजे सेवे । रूपकालंकारः ॥ ६॥
___अथ जिनवाणी स्तोतुमाह-वार्यानि कर्मणां ज्ञानावरणादीनां कृपाणी करवालिका क्षेत्राति यावत् ; संमार एव जलधिः सागरस्तस्य संतरणे प्लबने दोणी नका, वेण्या केशपाशेन जिता निर्जिता घनमाला मेवपकनिया सा । जिनस्याई तो बड़नाम्भोजे मुखकमल भासुरा शोभमाना वाणी सरस्वती जीपान सर्वोत्कग वताम् ॥ ७ ॥
अथ पूर्वाचार्य परम्परां स्मर्तुमाह-अरन्ध्रति-अहं हरिचन्द्रः । पूर्व च त आचार्याश्च पूर्वाचार्यानेपा परम्परा तां पूर्वसरिसन्ततिम् । अपूर्वमालां विचित्रवजम् । मन्ये वेद्मि । अथ तस्या अपूर्वन्वं द्योतयितुमाह-अरन्ध्राणि निश्छिद्राणि निरतिचाराणि सद्वृत्तानि सञ्चारित्राण्येव मण्यो न्नानि यस्यां तां प्रसिद्दमाला सरन्ध्रमणियुक्ता भवतीयं तु तद्भिन्नेति वैशिष्टयम् । मणिशब्द ईकारान्तोऽप्यस्ति । अनन्ता अपरिमिता ये गुणाः सूत्राणि सम्यग्दर्शनादयो वा तैर्गुम्फिता द्रन्थिता ताम् । प्रसिद्धमाला ह्येकगुणगुम्फिता भवतीयं त्वन्तातीनगुणगुम्फितेति वैशिष्ट्यम् । अधिकारूढवैशिष्ट्यरूपकालङ्कारः ॥ ८॥
___ अथ चम्पूकाव्यस्य बैशिष्ट्यमाह--गद्यालिरिति-गद्यानामावलिः पंक्तिर्गद्यावलिः 'वृत्तबन्धाचितं गद्यम् इति गद्यलक्षणम् । पद्यानां परम्परेति पद्यपरम्परा पद्यपत्तिश्च 'छन्द बद्धपटं पद्यम् इति पद्यलक्षणम् । प्रत्येक्रमप्यकैकमपि । प्रमोदमानन्दम् । आवहति विदधाति । तद्वयं मिलिन्वा तु बाल्यतारुण्यवती शैशवयौवनवी शैशवान्तयौवनप्रारम्भवति यावत् । कान्तेव कामिनीव । ट्रान्झटिति हर्पस्य प्रमोदस्य प्रकर्षम् आधिक्यं तनुते विस्तारयति । उपमालंकारः ॥ ६ ॥
___ अथ ग्रन्थारम्भप्रतिज्ञामाह-या कथेति-सुधर्मगणनाथेन सुधर्माभिधानगणधरेण भूतधात्रीशं भूतश्चासी धात्रीशश्च तम् वृत्तावनिपतिम् श्रेणिक मगधसम्राजं प्रति या कथा वर्णिता यदाख्यानं वर्णितम् । तां कथां वक्तुं कथयितुम् । प्रयतामहे प्रयन्नं कुर्महे ॥ ५० ॥
स्ववाण्याश्चारितार्थ्यं द्योतयितुमाह-मदीयेति-सा मदीया मामर्काना वाणी भारत्येव रमणी