________________
जीवन्धरचम्पृकाव्ये हरीशपूज्योऽयहरीशपूज्यः सुरेशयन्द्योऽप्यसुरेशवन्द्यः । अनङ्गरम्योऽपि शुभाङ्गरम्यः श्रीशान्तिनाथः शुभमातनोतु ।।३।। आयतदिव्यशरीरं शिवसौख्यकरं सुब्रग्भिराशास्यम् । रतिरागहीनमाडऽपूर्व श्रीवर्धमानकन्दपम् ॥४॥ लोको_भागविजने मुक्तिकान्ताविराजितान ।
नष्टकर्माष्टकान सिद्धान विशुद्धान वृदि भावये ॥५॥ सादृश्यमाह । श्रिया शोभयोपलक्षिती पादौ चरण पक्षे श्रियोपलक्षिताः पादाः किरणास्तैराकान्तो व्यासो लोको भुवनं येन सः । परश्वासी महिमा च परमहिमा तस्य करः पक्षे परमस्य सातिशयस्य हिमस्य शैन्यस्य करो विधाता । सुग्वस्य भावः सौख्यं, सौख्यं च प्रबोधश्चेति सौख्यप्रबोधौ, अनन्तौ सौरयप्रबोधी यस्य सोऽपरिमिनसुग्वज्ञानः पक्षेऽनन्तो गौख्यं समाह्लादः प्रबोधो जागरणं च यस्मात्मः । तापस्य भवभ्रमगजनितसंतापस्य ध्वान्तस्याज्ञानान्धकारस्य चापनोदेऽपसारणे प्रथिता प्रख्याता निजरुचिरान्माभिलापा यस्य सः पक्षे तापस्य दिनकरकर निकरसमुत्पन्नसंतापस्य ध्वान्तस्य तिमिरस्य चापनोदे प्रथिता निजल्चयः स्वकीयकिरणा यस्य सः। सतां साधूनां समूहस्य वृन्दस्याधिनाथः रवामी पक्षे सतां नक्षत्राणां समृहस्याधिनाथः पतिः। श्रीरष्टप्रातिहार्यरूपा लवमीविद्यते यस्य स पक्षे लोकोत्तरचारुत्वलक्ष्मीसुललितः । दिव्यश्चासौ ध्वनिश्चेति दिव्यध्व निनिरक्षरवाणी तेन प्रोल्लसन् शोभमानः, अग्विलकलानां निखिलवैदग्ध्यानां वल्लभः स्वामी; दिव्यध्वनिप्रोल्लसँश्चासाबखिलकलावल्लभश्चेति दिव्यध्वनिग्रोल्लसदखिलकला वल्लभः । पक्षे दिवि गगनेऽध्वनि मार्गे नभोमार्ग इति यावत् , प्रोल्लसन्न्यः शोभमाना या अखिलकलापोडशांसभागास्तासां वल्लभः स्वामी ताभिर्वल्लभः प्रियो वा। जिनपो जिनेन्द्रः । श्लेषानुप्राणितो रूपकालङ्कारः ॥२॥
___ अथ श्रीशान्तिनाथाच्छुभाशंसामाह-हरीशति, श्रीशान्तिनाथः पोडशीर्थकरः शुभं श्रेयः आतनोतु विस्तारयतु । अथ विरुद्धविशेषणेस्तस्य वैशिष्ट्यं प्रदर्शयति । हरय इन्द्रा नारायणा वा ते च त ईशाश्च हरीशास्तैः पूज्योऽर्चनीयोऽपि न तथाभूत इत्यहरीशपूज्य इति विरोधः । पक्षेऽहामीशोऽहरीशः सूर्यस्तेन पूज्यः 'अन्' इत्यनेन नकारस्य रेफादेशः। सुराणां देवानामीशाः स्वामिनो देवेन्द्रास्तैर्वन्द्यो वन्दनीयोऽपि न तथाभूत इन्सुरेशवन्ध इति विरोधः । पक्षेऽसुराणां भवनामराणामीश:स्वामिभिर्वन्धः । अङ्गरम्यः शरीरसुन्दरो न भवनोन्यनगरम्यः, तथाभूतोऽपि यः शुभाङ्गेन शुभशरीरेण रम्यो मनोहर इति विरोधः पक्षेऽनङ्ग इव काम इव रम्या मनोहरः । विरोधाभासोऽलङ्कारः ॥ ३ ॥
अथ भगवन्तं वर्धमानं स्तोतुमाह-आयतेति-अपूर्वमभूतपूर्वम् । श्रीवर्धमान एव श्रीमहावीर एव कन्दर्पः कामस्तम् । ईडे स्तोमि । अथ तस्यापूर्वन्यप्रख्यापनविशेषणानि प्रदर्शयति । आयतं दीर्घ दिव्यशरीरं सुन्दरवन यस्य तम् । प्रसिद्धः कन्दपः शरीराभावत्वेन प्रसिद्धोऽयं तु तवपरीत्येनेति वैशिष्ट्यम् । शिवस्य मोक्षस्य यत्सौख्यं शर्म तस्य करस्तम् । प्रसिद्धः कन्दो मोक्षस्य रुद्रस्य वा सुखविघातकचेन प्रसिद्धोऽयं तु तत्कनु वेनेनि वैशिष्यम् । सुदृग्भिः सम्यग्दृष्टिपुरुपैः, आशास्यमभिलपणीयं प्रार्थनीयं वा, प्रसिद्धः कामः सम्यग्दृष्टिपुरुपैराशास्यो न भवनि किन्तु सुलोचनाभिनारीभिराशास्यो भवः ययं तु तद्वपरीत्येनेति वैशिष्ट्यम् । रतौ सुरते रागः प्रेम तेन हीनस्तं सुदृढब्रह्मचर्यवन्तम् । प्रसिद्धः कन्दर्पः रतौ सुरते स्वकीयपत्न्यां वा यो रागः प्रीतिस्तेन सहि तत्वेन प्रसिद्धोऽयं तु तदुपरीत्येनेति वैशिष्ट्यम् । अधिकारूढवैशिष्ट्यरूपकालङ्कारः॥४॥
अथ सिद्वान् स्तोतुमाह--लोकोति-लोकस्य भुवनस्यो भाग उपरितनप्रदेश एवं विजनो
१. पृज्यः ब० । २. --पूर्व श्रीवर्थ य० ।