________________
महाकविहरिचन्द्रविरचिता
जीवन्धरचम्पू:
प्रथमो लम्भः
यस्य श्री कान्तिनाकसरितः कूर्मायतेऽनित्र्यं सेवानम्रसुरेन्द्रवज्रमकुटीमाला मगलायते । पश्यन्निर्जरयोषिदम्बकततिर्मोन प्रपञ्चायते
क्षौणीशाञ्जलयः पयोजमुकुलन्त्यव्यात्त वोऽस्यो जिनः ||१|| श्रीपादाक्रान्तलोकः परमहिमकरोऽनन्तसौख्यप्रवोध
स्तापध्वात्तापनोदप्रथिननिजरुचिः सन्समृहाधिनाथः ।
श्रीमान्दिव्यध्वनिप्रोल्लसदखिलकलावल्लभो मन्मनीपा
नीला जिन्या विकासं वितरतु जिनपो धीरचन्द्रप्रभेशः ॥२॥
उद्यद्दिव्यदिनेशदीधितिचयप्राग्भारभाभासुरा
हृप्यत्कामकलापलायनपराः सच्छान्तिकान्न्याकराः । वैराग्यामृतपान दिग्धवपुषः कारुण्यधाराधराः
श्रीमन्तो गुणिनो जयन्तु जयिनः श्रीवीरनाथायः ॥ जीवं जीवंधरं मुक्तः स्मारं स्मारं सुखाकरम् । जीवन्धरं चम्पूकाव्यं विवृणोमि समासतः ॥ अगाधे काव्यवाराशौ कलिभञ्झापरिद्भुते । दीक्षितानां तितीपूर्ण टीका नीकायतेतराम् ॥ केचिद्यप्रियाः केचित्पद्यपतिसमुत्सुकाः । सर्वप्रियमिदं काव्यं गद्यपद्यावभासिनम् ॥
अथानवद्यगद्यपद्यविद्याविशारदः स्वकीयवदनारविन्दविनिर्गता मित्सुभाषिताकर्णनापसारितविद्वज्जनतन्द्रो महाकविर्हरिचन्द्रः ‘गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते' इति लक्षणक जीवन्धरचम्पूग्रन्थं प्रारिप्सुनिर्विघ्नसमाप्त्यर्थमभोष्टदेवतां स्तोतुमाह-यस्येति
यस्याग्र्यजिनस्य । अङ्घ्रयोर्द्वयमह्रियं चरणयुगलं श्रियोपलक्षितानां नखानां नराणां कान्तिरेव दीप्तिरेव नाकसरित् सुरनदी गङ्गेति यावत् तस्याः कर्म इवाचरति कुर्मायते कच्छपायते । सेवार्थं शुश्रूपार्थं नम्रा विनता सुरेन्द्राणां पुरन्दराणां या वज्रमकुटीमाला हीरकमौलिपङ्क्तिः सा मराल इवाचरति मरालायते हंसायते । पश्यन्त्योऽवलोकयन्त्यो या निर्जरयोषितो देव्यस्तासामम्बकत तिर्नयनपङ्क्तिः, मीनानां मत्स्यानां प्रपञ्चः समूह इवाचरतीति मीनप्रपञ्चायते । क्षोणीशानां महीपानामञ्जलयो बढकरपुटानि पयोजमुकुलानीव कमलकुड्मलानीवाचरन्तीति पयोजमुकुलन्ति । स प्रसिद्धः । अग्रथो जिनः प्रथमस्तीर्थकरः । वो युष्मान् । अव्यात् रच्यात् । रूपकोपमालङ्कारौ ॥१॥
अथाष्टमतीर्थेशं चन्द्रप्रभं स्तोतुमाह- श्रीपादेति चन्द्रप्रभश्चासावीशश्च चन्द्रप्रभेशः, धीरो यश्चन्द्रप्रभेशो धीरचन्द्रप्रभेशः । अपरिमितधैर्ययुक्तोऽष्टमतीर्थकरः । अथ च चन्द्रः । मन्मनीषा मद्बुद्धिरेव नीलाब्जिनी नीलकमलिनी तस्याः | विकासं प्रोत्फुल्लतां वितरतु प्रददातु । अथ श्लेषेण चन्द्रचन्द्रप्रभयोः