________________
एकादशो लम्भः कुरङ्गरुद्गतग्रीवैः श्रूयमाणा निरन्तरम् । जितपीयूपधारा ते दिव्यभाषा विराजते ।। ५१ ॥
सन्ततविनमदमरनिकरमकुटतटघटितमुक्तारुचिपुनरुक्तनखचन्द्रिकानन्दितनिखिलजननयननीलोत्पल श्रीवीर, तव पञ्चाननासनम्, उपवनमिव नानापत्रलतान्वितं व्याजृम्भमाणवदनैः पञ्चवदनैरश्चितं च, वाराकरनीरमिव सरत्नमकरम, हेमाचलशृङ्गमिवात्युन्नतम्, सकलजगदानन्दं कन्दलयति ।
एवंभूतैरष्टभिः प्रातिहायर्जुष्टः श्रीमन्मां भवाब्धौ निमग्नम् ।
वीर स्वामिन्नुद्धरेति क्षितीशो भक्त्याधिक्यादेवदेवं ननाम ॥ ५२ ॥ अनुज्ञां लब्ध्वासावथ जिनपतेर्मातुलमुखैः समेता भूपालो गणधरमिहानम्य कुशलः । गृहीत्वा निस्सङ्गं जिनपगदितं संयमवरं तपस्तेपे जीवन्धरमुनिवरस्तस्य सविधे ।। ५३ ॥ कुरूपशोभितोऽप्येष सुरूप इति विश्रुतः। मदनोऽपि बभूवाद्य शिवसौख्यकृतादरः ॥ ४ ॥ __ आस्तां तावदिदमन्यदद्भुततममालक्ष्यते ।
व्यर्थीकृतानां निष्फलीकृतानाम्, अतएव, वेधसा विधात्रा, दाग झटिति, दण्डेन यष्टया नियन्त्रिता निरुद्धास्तासाम्, उडुराजभासां चन्द्रमरीचीनाम्, राजीव श्रेणिरिव, ते भवतः, चामरालिर्बालव्यजनपङ्क्तिः , राजति शोभते ॥५०॥
___ कुरङ्गरिति-उद्गतग्रीवैरुन्न मितकण्ठः, कुरङ्गैहरिणैः, निरन्तरं शश्वत्, श्रयमाणा समाकर्ण्यमाना, जितपीयूषधारा पराभूतसुधाधारा ते भवतः, दिव्यभाषा दिव्यध्वनिः, विराजते विशोभते ॥५१॥
सन्ततेति-सन्ततं सर्वदा विनमन्तो नमस्कुर्वन्तो येऽमरनिकरा देवसमूहास्तेषां मकुटतटेषु घटिताः खचिताः या मुक्ता मुक्ताफलानि तासां रुच्या दीप्त्या पुनरुक्ता या नखचा ज्योत्स्ना तया नन्दितानि प्रसादितानि निखिलजनानां समग्रलोकानां नयनान्येव नीलोत्पलानि यस्य तत्सबुद्धौ, श्रीवीर श्रीवर्द्धमान, तव भवतः, पञ्चाननासनं सिंहासनम्, उपवनमिवोद्यानमिव, नानापत्रलताभिर्वि विधदलवल्लरीभिः शिल्पत्वेन विन्यस्ताभिरन्वितं सहितम्, पक्षे वास्तविकदलवल्लरीभिरन्वितम्, व्याजम्भमाणवदनैः विकसन्मुखैः, पञ्चवदनः सिंहैः, कृत्रिमैः पक्षे यथार्थमृगेन्द्रः, अञ्चितं च शोभितं च, वाराकरनीरमिब समुद्रसलिलमिव, सरत्रा मकरा यस्मिस्तत्, रत्नमयमकरसहितम्, हेमाचलशृङ्गमिव सुमेरुशिखरमिव, अत्युनतमतितुङ्गम्, सकलजगदानन्दं निखिलजनप्रमोदम्, कन्दलयति वर्द्धयति ।
एवंभूतैरिति-हे श्रीमन् हे लक्ष्मीमन् , हे बीर हे वर्द्धमान हे स्वामिन् हे नाथ, एवम्भूवैरित्थंभूतैः, अष्टभिरष्टसंख्याकैः प्रातिहायः जुष्टः सेवितः भवान् , भवाब्धौ संसारसागरे, निमग्नं बुडितम्, माम्, उद्धर, निष्कासय, इति, भक्त्याधिक्यादनुरागातिशयात्, क्षितीशो जीवन्धरः, देवदेवं श्रीमहावीरजिनेद्रम्, ननाम नमश्चकार । शालिनीच्छन्दः ॥ ५२ ॥ ____ अनुज्ञामिति-अथानन्तरम्, कुशलो निपुणः, असौ भूपालो नृपः, जिनपतेजिनेन्द्रस्य, अनुज्ञामादेशम्, लब्ध्वा प्राप्य, मातुलमुखैर्मातृभ्रातृप्रधानः, समेतः सहितः, इह सभायाम, गणधरं गणेशम्, आनम्य नमस्कृत्य, जीवन्धरमुनिवरः सन् , निस्सङ्ग निष्परिग्रहम, जिनपगदितं जिनेन्द्रोक्तम्, संयमवरं श्रेष्टसंयमम्, गृहीत्वा समादाय, तस्य गणधरस्य, सविधे निकटे, तपोऽनशनप्रभृतिकम्, तेपे तपति स्म । शिखरिणीच्छन्दः ॥ ५३ ॥
कुरूपशोभित इति-कुत्सितं रूपं कुरूपं तेन शोभितोऽपि राजितोऽपि सुरूपः सुन्दररूपसहित इति विरोधः पक्षे कुरुषु कुरुवंशेषपशोभितः समलंकृत इति । एष जीवकः, मदनोऽपि कामोऽपि पक्षे कामदेवपदवीधरोऽपि, अद्येदानीम्, शिवसौख्ये मोक्षसौख्ये कृतो विहित आदरः सन्मानं येन तथाभूतो बभूव आसीत् । विरोधाभासालंकारः ॥ ५४ ॥
आस्तामिति-अथवा, इदम् एतत्, आस्तां तावत्, भवतु नाम, किन्तु इदम्, अन्यत् इतरद्, अद्भुततममाश्चर्यातिशयकरम्, आलच्यते दृश्यते ।