________________
२३२
जीवन्धरचम्पूकाव्ये वृष्टिः पौष्पी वरजिनपते तावको सातिशुभ्रा
___ संद्रष्टुं त्वां गगनसरणेरागता चन्द्रिका किम् । यद्वा भीत्या कुसुमधनुपो हस्तपद्माच्च्युता द्राग्
__ बाणश्रेणी नियतमखिलस्पष्टविज्ञानवार्धे ॥४७॥ क्वेयं लक्ष्मीरपारा क खलु जिनपते निश्चलं निःस्पृहत्वं
____कासौ सुस्पष्टबोधः सकलपिपयकः केदृशानुद्धतत्वम् । रे रे सर्वे कुतीर्था वदत निजधियेत्येवमामन्दनादो
भोः स्वामिन्दुन्दुभिस्ते वदति जलधरध्वानपूरानुकारी ।।४।। सकलजगदीश्वर विश्ववेदनचतुर सुरधराधरधीर श्रीवीर, भवदीयातीतानागतवर्तमानविज्ञानमसमानं भुवनवयैश्वर्यमहिमानं प्रकटीकुर्वाणम्, अमत्यैः स्वप्राभवप्रकाशनाय चक्रीकृत्य गगने त्रिधा विन्यस्तमिव क्षीरवाराशिसलिलम् , अत्यच्छस्वभावमपि भव्यौपानुरागमादधानं छत्रत्रयं विराजते।
भामण्डले जिनपते तव दर्शनार्थं संप्राप्ततिग्मरुचिमण्डलशङ्कथमाने । स्वातीतजन्मसरणिं मणिदर्पणाभे संपश्यति प्रविशदं खलु भव्यसङ्घः ॥४॥ . स्वामिन् जिनेन्दौ त्वयि जम्भमाणे व्यर्थीकृतानामुडुराजभासाम् ।
द्राग्वेधसा दण्डनियन्त्रितानां राजीव ते राजति चामरालिः ।।५।।
वृष्टिः पौष्पीति-अखिलं कृत्स्नं स्पष्टं विशदं यद्विघ्नं तस्य वार्षिः सागरस्तत्सम्बुद्धौ हे अखिलस्पष्टविज्ञानवार्धे ! हे वरजिनपते हे जिनेन्द्र ! अतिशुभ्रा सिततरा, सा प्रसिद्धा, तावकी भवदीया, पौप्पी कौसुमी, वृष्टिवर्षणम्, त्वां भवन्तम्, संद्रष्टुमवलोकयितुम्, गगनसरणेराकाशमार्गात्, आगता प्राप्ता, किं चन्द्रिका ज्योत्स्ना, यहाथवा, भीत्या भयेन, कुसुमधनुषः कामस्य, हस्तपद्मात्करकमलात् , नियतं निश्चितं यथा स्यात् तथा, द्वाक झटिति, च्युता पतिता, बाणश्रेणी शरसन्ततिः । उत्प्रेक्षा । मन्दाक्रान्तावृत्तम् ॥४७॥
क्वेयं लक्ष्मीरिति-हे जिनपते जिनेन्द्र; इयमेषा, अपारा विपुला, लक्ष्मीः श्रीः, क्व कुत्र, निश्चलं स्थिरम्, निःस्पृहत्वं वितृष्णत्वम्, क्व, सकलविषयको निखिलपदार्थज्ञाता, असौ सुस्पष्टबोधो विशदज्ञानम्, क्व, ईदृशानुद्धातत्वमीहक्प्रगल्भत्वम्, क्व, रे रे सर्वे कुतीर्था मिथ्यामतपक्षपातिनः, निजधिया स्वबुद्धया वदत कथयत, इत्येवम्, आमन्द्रनादो गभीरशब्दः जलधरध्वानपुरानुकारी मेघगर्जितप्रवाहविडम्बकः ते तव, दुन्दुभिरानकः, भो स्वामिन् हे नाथ ! वदति कथयति ॥ ४ ॥
सकलजगदीश्वरेति-सकलं च तजगच्चेति सकलजगद् तस्येश्वरस्तत्सम्बुद्धौ हे सकलजगदीश्वर निखिललोकनाथ, विश्वेषां सर्वेषां वेदने ज्ञाने चतुरो दक्षस्तत्सम्बुद्धौ हे विश्ववेदनचतुर, सुरधराधर इव सुमेरुरिव धारस्तत्सम्बुद्धौ हे सुरधराधरधीर, श्रीवीर श्रीवर्धमान, भवदीयातीतानागतवर्तमानविज्ञानं भवकालत्रितयज्ञानम्, असमानमनुपमम्, भुवनत्रितयैश्वर्यमहिमानं लोकत्रयविभवमाहात्म्यम्, प्रकटीकुर्वाणं प्रकटयत्, अमत्यः सुरैः स्वस्य प्राभवं विभुत्वं तस्य प्रकाशनाय प्रकटनाय, चक्रीकृत्य मण्डलीकृत्य, गगने, नभसि, त्रिधा त्रिप्रकारेण, विन्यस्तं विनिक्षिप्तम्, क्षीरवाराशिसलिलमिव क्षीरसागरजलमिव, अत्यच्छस्वभावमपि धवलनिसर्गमपि, भव्यौघानुरागं भव्यप्रचयलौहित्यं पक्षे भव्यप्रचयप्रेमाणम्, आदधानं कुर्वाणम्, छत्रत्रयम् आतपवारणत्रितयम्, विराजते शोभते ।
भामण्डल इति-हे जिनपते हे जिनराज, तव भवतः, दर्शनार्थं विलोकनार्थम्, संप्राप्तः समागतो यो तिग्मरुचिः सूर्यस्तस्य मण्डलमिव बिम्बमिव शङ्कयमानं संदिह्यमानं तस्मिन् , मणिदर्पणाभे रत्नादर्शतुल्ये, भामण्डले एतनाममातिहार्ये, प्रविशइमतिस्वच्छं यथा स्यात्तथा, स्वातीतजन्मसरणिं निजपूर्वभवपरम्पराम, खलु निश्चयेन, संपश्यति समवलोकते ॥ ४६ ॥
स्वामिन्निति-हे स्वामिन् हे नाथ, जिनेन्दौ जिनचन्द्रमसि, त्वयि भवति, जृम्भमाणे वर्धमाने सति,