SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये संगीतिव्यपदिष्टो यः सुदृग्भिरभिनन्दितः । सोऽयं सुदृग्जनेष्वासीदसंगीति प्रथां गतः ॥ ५५ ॥ देव्यो गन्धर्वदत्ताद्याः सहिताः स्वस्वमातृभिः । समीपे चन्दनार्यायाः संयमं जगृहुः परम् ।। ५६ ॥ जीवन्धरोऽयं तपसि प्रवीणो यथाक्रमं नष्टधनाष्टकर्मा । रखत्रयं पूर्णमवाप धीरो महामुनिर्मान्यगुणाभिरामः ॥ ५७ ॥ अष्टाभिः स्वगुणैरयं कुरुपतिः पुष्टोऽथ जीवन्धरः सिद्धः श्रीहरिचन्द्रवाङ्मयमधुस्यन्दिप्रसूनोच्चयैः । भक्त्याराधितपादपद्मयुगलो लोकातिशायिप्रभा निस्तुल्यां निरपायसौख्यलहरी संप्राप मुक्तिश्रियम् ॥ ५८ ॥ प्रजानां क्षेमाय प्रभवतु महीशः प्रतिदिनं सुवृष्टिः संभूयाद्भजतु शमनं व्याधिनिचयः । विधत्तां वाग्देव्या सह परिचयं श्रीरनुदिनं मतं जैनं जीयाद्विलसतु च भक्तिर्जिनपतौ ॥ ५६ ॥ कुरुकुलपतेः कीर्ती राकेन्दुसुन्दरचन्द्रिका विमलविशदा लोकेष्वानन्दिनी परिवर्धताम् । मम च मधुरा वाणी विद्वन्मुखेषु विनृत्यताद्विलसितरसा सालंकारा विराजितमन्मथा ॥ ६०॥ इति महाकविहरिचन्द्रविरचिते श्रीमति जीवन्धरचम्पूकाव्ये मुक्तिलम्भो . नामैकादशो लम्भः । संगीतिव्यपदिष्ट इति-सुदृग्भिः सम्यग्दृष्टिभिः सुलोचनैर्वा, अभिनन्दितः प्रशंसितः, यो जीवकः, संगी परिग्रहवान्, इति व्यपदिष्टः कथितः, सोऽयम्, सुदृग्जनेषु सम्यग्दृष्टिपुरुषेषु सुलोचनेषु वा, असंगी परिग्रहरहितः, इति प्रथां प्रसिद्धिम्, गतः प्राप्तः, आसीद् बभूव, समीचीना गीतिः संगीतिस्तया व्यपदिष्टः व्यपदेशं प्राप्तः । विरोधाभासोऽलंकारः॥ ५५ ॥ देव्यो गन्धर्वदत्ताद्या इति-स्वस्वमातृभिर्निजनिजजननीभिः, सहिता युक्ताः, गन्धर्वदत्ताद्या गन्धर्वदत्ताप्रभृतयः, देव्यो राज्यः, चन्दनार्यायाः एतन्नामगणिन्याः, समीपे पार्वे, परमुत्कृष्टम्, संयम चारित्रम्, जगृहुर्गृहीतवत्यः ॥ ५६ ॥ जीवन्धरोऽयमिति-तपसि तपश्चरणे, प्रवीणो निपुणः, यथाक्रम क्रमेण, नष्टानि धनानि अष्ट कर्माणि यस्य व्यपगतनिविडाष्टकर्मा, धीरो गभीरः, मान्यगुणाभिरामो महनीयगुणसुन्दरः, महामुनिमहायतिः, अयमेषः जीवन्धरः स्वामी, पूर्ण समग्रम्, रत्नत्रयं सम्यग्दर्शनज्ञानचारित्रात्मकम्, अवाप लेभे ॥ ५७ ॥ अष्टाभिरिति-अथाष्टघनकर्मक्षयानन्तरम्, अष्टाभिः अष्टसंख्यैः, स्वगुणैः सम्यक्त्वादिभिः, पुष्टः पोषं प्राप्तः, श्रीहरिचन्द्रस्य ग्रन्थकर्तुर्वाङ्मयमेव मधु मकरन्दं तस्य स्यन्दिनो ये प्रसूनोच्चयाः कुसुमसमूहास्तैः, सिद्धः प्रथितः, भक्त्यानुरागातिशयेनाराधितं सेवितं पादपद्मयुगलं चरणारविन्दयुगं यस्य तथाभूतः, अयमेषः, कुरुपतिः जीवन्धरः, लोकातिशायिनी प्रभा यस्यास्ताम्, निस्तुल्यां निरुपमाम, निरपाया निर्विनाशा सौख्यलहरी सुखपरम्परा यस्यां ताम्, मुक्तिश्रियं निर्वृतिलक्ष्मीम्, संप्राप संलेभे ॥ ५८ ॥ प्रजानामिति-महीशो नृपः, प्रतिदिनं प्रतिवासरम्, प्रजानां लोकानाम्, क्षेमाय कल्याणाय, प्रभवतु समर्थों भवतु, सुवृष्टिः सुवर्षा, संभूयात् भवतु, व्याधिनिचयो रोगसमूहः, शमनं शान्तिम्, भजतु प्राप्नोतु, श्रीलक्ष्मीः , वाग्देव्या सरस्वत्या, सह सार्धम्, अनुदिनं प्रत्यहम्, परिचयं संपर्कम्, विधत्तां करोतु, जैनं जिनस्येदं जैनं जिनप्रणीतम्, मतम्, जीयात् जयतु, जिनपतौ जिनेन्द्रे, भक्तिश्च अनुरागातिशयः विलसतु शोभताम् ॥ ५६ ॥ ____ कुरुकुलपतेरिति-विमलविशदा निर्मलोज्ज्वला, आनन्दिनी हर्षिणी, कुरुकुलपतेर्जीवन्धरस्य, कीर्तियशः राकेन्दुसुन्दरचन्द्रिका पूर्णचन्द्रचारुज्योत्स्ना, लोकेषु भुवनेषु, परिवर्धतां वृद्धि प्राप्नुयात्, विलसितरसा सुशोभितशृङ्गादिरसा, सालंकारा रूपकोपमाद्यलंकारसहिता, विराजितमन्मथा विशोभितमदना, मम कवेः, वाणी च भारती च, विद्वन्मुखेषु विपश्चिद्वक्त्रेषु, विनृत्यतां नृत्यं करोतु । हरिणीच्छन्दः ॥ ६० ॥ इति महाकविहरिचन्द्रविरचिते श्रीमति 'कौमुदी'व्याख्याधरे जीवन्धरचम्पूकाव्ये मुक्तिलम्भो नामैकादशो लम्भः।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy