SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २२४ जीवन्धरचम्पूकाव्ये काष्ठाङ्गारायते कीशो राज्यमेतत्फलायते । मद्यते वनपालोऽयं त्याज्यं राज्यमिदं मया ।। २२ ॥ या राज्यलक्ष्मीबहुदुःखसाध्या दुःखेन पाल्या चपला दुरन्ता। नष्टापि दुःखानि चिराय सूते तस्यां कदा वा सुखलेशलेशः ॥ २३ ॥ कल्लोलिनीनां निकरैरिवाब्धिः कृपीटयोनिर्बहलेन्धनैर्वा । कामं न संतृप्यति कामभोगैः कन्दर्पवश्यः पुरुषः कदाचित् ॥ २४ ।। राज्यं स्नेहविहीनदीपकलिकाकल्पं चलं जीवितं शम्पावत्क्षणभङ्गुरा तनुरियं लोलाभ्रतुल्यं वयः । तस्मात्संमृतिसन्ततौ न हि सुखं तत्रापि मूढः पुमा न्नादत्ते स्वहितं करोति च पुनर्मोहाय कार्य वृथा ॥ २५ ।। विलोभ्यमानो विपयैर्वराको भङ्गुरैभृशम् । नारम्भदोषान्मनुते मोहेन बहुदुःखदान् ।। २६ ।। ममेयं मृद्वङ्गी मम तनय एषः प्रचुरधी रिमे मे पूर्वार्था इति विगतबुद्धिनरपशुः । अणुप्रख्ये सौख्ये विहितरुचिरारम्भवशगः प्रयाति प्रायेण क्षितिधरनिभं दुःखमधिकम् ।। २७ ।। प्राप्त्या, समेतो युक्तः, धरायाः पतिर्जीवन्धरः, हृदि चेतसि, एवमित्थम्भूताम्, चिन्तां विचारसन्ततिम्, अतनुत विस्तारयामास । मालिनीछन्दः ॥ २१ ॥ काष्ठाङ्गारयत इति-कीशो वानरः, काष्टाङ्गार इवाचरतीति काष्टाङ्गारयते, एतत् राज्यम्, फलमिवाचरतीति फलायते, अयमेषः, वनपाल उद्यानपालः, अहमिवाचरतीति मद्यते, तस्मात् , इदमेतत् , राज्यं साम्राज्यम्, मया जीवकेन, त्याज्यं त्यक्तुमर्हम्, अस्तीति शेषः । यथा वनपालेन कीशात्फलमाच्छिन्नं तथा मया काष्टाङ्गाराद्राज्यमाच्छिन्नम्, फलेन विना यथा कीशस्तप्यते राज्येन विना तथा काष्ठाङ्गारपरिजनोऽपि तप्यते तस्मात् परदुःखकारणमेतद्वाज्यं मया त्याज्यमेवास्तीति भावः ॥२२॥ ___ या राज्यलक्ष्मीरिति-या राज्यलक्ष्मीपतित्वश्रीः बहुभिर्विपुलैर्दुःखैः कष्टैः साध्या प्राप्येति बहुदुःखसाध्या, दुःखेन कष्टेन, पाल्या पालयितुमर्हा, चपला भङ्गुरा, दुरन्ता दुष्परिणामा, अस्तीति शेषः, नष्टापि सती, चिराय चिरकालपर्यन्तम्, दुःखानि कृच्छ्राणि, सूते समुत्पादयति, तस्यां राजलचम्याम्, सुखलेशस्य लेश इति सुखलेशलेशः शर्मकणांशः, कदा वा कस्यां वा वेलायामपि तु न कस्यामपि वेलायामस्तीति भावः ॥२३॥ कल्लोलिनीनामिति-कल्लोलिनीनां नदीनाम्, निकरैः समूहैः, अब्धिरिव सागर इव, बहलेन्धनैः प्रचुरसमिद्भिः, कृपीटयोनि वह्निरिव, कामभोगैर्विषयसेवनैः, कन्दर्पवश्यो मदनायत्तः, पुरुषो जनः, कदाचित् जातुचित् , कामं यथेच्छं यथा स्यात्तथा, न संतृप्यति न संतुष्टो भवति ॥२४॥ राज्यं स्नेहेति-राज्यं राजवैभवम्, स्नेहविहीना तैलरहिता दीपकलिका प्रदीपज्योतिरिति स्नेहविहीनदीपकलिका ईषदूना स्नेहविहीनदीपकलिकेति स्नेहविहीनदीपकलिकाकल्पम्, जीवितमायुः, चलं चञ्चलम्; इयं तनुः एतच्छरीरम्,शम्पावत् सौदामिनीव, वयः दशा, लोलाभ्रतुल्यं चञ्चलमेघसदृशम्, अस्तीति सर्वत्र योज्यम् । तस्मात् कारणात् , संसृतिसन्ततौ संसारपरम्परायाम् सुखं शर्म, नहि निश्चयेन न विद्यते, तत्रापि संमृतिसन्ततौ मूढो मोहासक्तः, पुमान् पुरुषः, स्वहितं निजकल्याणम्, आदत्ते गृह्णाति, पुनर्भूयः, मोहाय विभ्रमाय, वृथा निरर्थकम्, कार्य कृत्यम्, करोति च विदधाति च । शार्दूलविक्रीडितच्छन्दः ॥२५॥ विलोभ्यमान इति-भमुरैनश्वरैः, विषयैः पञ्चेद्रियभोगैः, भृशं सातिशयम्, विलोभ्यमानः प्रतार्यमाणः, वराको दीनो जनः, मोहेन विभ्रमेण, बहुदुःखदान् प्रचुरदुःखदातन् आरम्भदोषान् , हिंसादीनामार म्भावगुणान् . न मनुते न मन्यते ॥२६॥ ममेयमिति-मम मे, इयं मृद्वङ्गी कोमलाङ्गी, मम, एषः, प्रचुरधीः प्रकृष्टमतिः, तनयः, पुत्रः मे,
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy