________________
एकादशो लम्भः
वृक्षाद्वृक्षमुदारशाखमचिरादाक्रम्य भूमीरुहानव्यालोलान्निधानमाहितभयादुड्डीनपचित्र ज्ञान् । कीशानां निचयं ददर्श वसुधापालो वनाभ्यन्तरे
शवालकगृह्यमाणजठरोद्यद्वानरीभिर्वृतम् ॥ १८ ॥ तत्रान्यसंपर्कमवेक्ष्य रुष्टां स्वां वानरी कोऽपि युवा प्लवङ्गः । दीनस्वभावो विविधैरुपायैः शान्तां विधातुं न चिरं शशाक ॥ १६ ॥
२२३
तदनु रोषोत्कट मर्कटीं प्रकृतिस्थां कर्तुमक्षमतया बहुदीनदशामापन्नं मृतमिव भूमौ पतितं मायाविनं शाखामृगमवलोक्य भयविह्वलाङ्गी मवङ्गी समीपमासाद्य तदवस्थामपाचकार ।
सबङ्गतरुणस्ततः पनसपत्रपुष्यत्फलं ददौ वनमृगीमुदे विततहर्पनद्धान्तरः |
जहार वनपालकः सपदि तत्फलं पेशलं करप्रचलयष्टितो मुदितवानरी भर्त्सयन || २० || इति सदयमशेषं वीक्षमाणो धरायाः पतिरथ विषयेषु व्याहताशाविशेषः ।
अतनुत हृदि चिन्तामेवमाजानधीरः कृतसुकृतविपाकः काललब्ध्या समेतः ॥ २१ ॥
विरचयन् कुर्वन्, लक्ष्मणाया एतन्नामकवल्लभायाः, स्तनमुकुलयुगले कुचकुड्मलयुगे, मकरिकापत्रं मकरी, दलम्, विचित्रयन् चित्रितं कुर्वन्, अन्यासाञ्चेतरासाञ्च यथोचितं यथार्हम्, प्रसाधनानि अलङ्करणानि, विदधानः कुर्वाणः, जीवन्धरः स्वामी, सहर्षं सप्रमोदं यथा स्यात्तथा, अवर्तिष्ट आसीत् ।
वृक्षावृक्षमिति -- वसुधापालो जीवन्धरः, वनाभ्यन्तरे काननमध्ये, वृक्षात् एकस्मात्तरोः, उदारशाखं महाशाखम्, वृक्षमितरं तरुम् अचिराच्छ्रीघ्रम् आक्रम्य समारुह्य, भूमिरुहान् पादपान् व्यालोलान् चञ्चलान्, आहितभयात् समुत्पन्नभीतेः, उड्डीना उत्पतिताः पक्षिव्रजाः पतत्रिसमूहा येभ्यस्तथाभूतान्, निदधानं कुर्वाणम्, शश्वन्निरन्तरम्, बालकैः शिशुभिर्गृह्यमाणं जठरमुदरं यासां तथाभूता उद्यन्त्यो या वानय मर्कट्यस्ताभिः वृतं परीतम्, कीशानां वलीमुखानाम्, निचयं समूहम् ददर्श विलोकयामास । शार्दूलविक्रीडितवृत्तम् ॥१८॥
तत्रान्यसंपर्केति - तं तत्र कीशनिचये, दीनस्वभावः कातर निसर्गः कोऽपि कश्चन, युवा तरुणः, प्लवङ्गो वानरः, अन्यस्याः संपर्कस्तमितरवानरीसंसर्गम् 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति पुंवद्भावः, रुष्टां कुपिताम्, स्वां स्वकीयाम्, वानरी मर्करीम्, विविधैर्बहुप्रकारैः उपायः साधनैः शान्तां प्रकृतिस्थाम्, विधातुंकर्तुम्, चिरं दीर्घकालेनापि न शशाक न समर्थोऽभूत् ॥ १६ ॥
तदन्विति - तदनु तदनन्तरम्, रोषोत्कटा क्रोधविकटा चासौ मंकटी च वानरी चेति रोषोत्कटमर्कटी ताम्, प्रकृतिस्थां स्वभावस्थितां शान्तामिति यावत् कर्तुं विधातुम्, अक्षमतया सामर्थ्याभावेन, बहुदीनदशामतिदीनावस्थाम्, आपन्नं प्राप्तम्, मृतमिव विगतचेतनमित्र, भूमौ वसुधायाम्, पतितं स्खलितम्, मायाविनं मायायुक्तम्, शाखामृगं वानरम्, अवलोक्य दृष्ट्वा, भयेन त्रासेन विह्वलं व्यथितमङ्गं शरीरं यस्यास्तथाभूता प्लवङ्गी वानरी, समीपमभ्यर्णम्, आसाद्य प्राप्य, सा चावस्था चेति तदवस्था ताम्, तदृशाम् अपाचकार दूरीकरोति स्म ।
प्लवङ्गतरुणस्तत इति -- ततस्तदनन्तरम्, विततेन विस्तृतेन हर्षेण प्रमोदेन नहं व्याप्तमन्तरं हृदयं यस्य सः, प्लवङ्गतरुणो वानरयुवा, वनमृगीमुढे वानरीहर्षाय, पनसस्य क्षीरिवृक्षस्य पक्वं परिणतं पुष्यपुष्टं च यत्फलं तत् ददौ ददाति स्म । वनपालक उद्यानरक्षकः, सपदि शीघ्रम्, करप्रचलयष्टितो हस्तचालितदण्डतः, मुदितत्रानरीं प्रसन्नमर्कटीम्, भर्त्सयन् तर्जयन्, सन् पेशलं मनोहरम्, तत्फलं पनसफलम्, जहार हरति स्म प्रतिजग्राहेति यावत् । पृथ्वीच्छन्दः ॥ २० ॥
इति सदयमशेषमिति - अथानन्तरम्, इति पूर्वोक्तप्रकारेण, अशेषं समग्रमेतं घटनाचक्रम्, सदयं सकृपं यथा स्यात्तथा, वीक्षमाणो विलोकमानः विषयेषु पञ्चेन्द्रियभोगेषु व्याहतः प्रतिरुद्ध आशा विशेषस्तृष्णाविशेषो यस्य सः, आजानधीरो विचारचतुरः कृतसुकृतविपाकः प्राप्तपुण्योदयः, काललब्ध्या वैराग्यार्ह समय