________________
जीवन्धरचम्पूकाव्ये
कदाचिन् बिरहिनदुरन्ते प्रसाधितवनान्ते वनप्रियविरुतमुखरिताशान्ते संप्रवृत्ते, पुष्पफलादिकमुपहारीकुर्वता वनपालेन 'वनविहाराय विज्ञापितो वसुधापतिः, अष्टाभिः कान्ताभिः समं नगरान्निर्याय, पर्याप्तफलकुसुमपल्लवतल्लजमुपवनमासाद्य वनपालेन तत्र निवेद्यमानानेकैकशः पल्लवित पुष्पित फलिततरुनिकरान्निरीक्षमाणश्चिरं विजहार ।
२२२
वल्गत्कुचं सपदि भङ्गुरमध्यभागं स्विद्यत्कपोलमलकाकुलवक्त्रबिम्बम् । व्यालोलकङ्कणझणत्कृति तत्र देव्यः पुष्पग्रहं करतलैः कुतुकादकार्षुः ॥ १७ ॥ एवं चिरं विस्तारितद्विविधवनक्रीडाश्रान्तानां क्रीडासंमर्दविलुलितलतान्तानां व्यालोलनयनान्तानां संदोहेन सह क्वचन निषण्णस्तत्र गन्धर्वदत्ताकुचकुम्भयुगले मारमभमद्धारायमाणां कस्तूरीधारां निपातयन्, गुणमालावक्षःस्थले सुरभिलमृगमदमेदुर मलयजरसं लिम्पन, सुरमञ्जर्यां नाभिकुहरादारभ्य काश्मीरपङ्केन लतां विलिखन्, पद्मायाः कपोलयोर्मकरिकां विस्तारयन्, क्षेमश्रियो वढ़ने मृगमदतिलकं विरचयन्, लक्ष्मणायाः स्तनमुकुलयुगले मकरिकापत्रं विचित्रयन्, अन्यासां च यथोचितं प्रसाधनानि विदधानो जीवन्धरः सहर्षमवर्तिष्ट ।
भाण्डारः, सोऽयं प्रसिद्धः, पृथ्वीपतिर्महीपतिः, कौरवो जीवन्धरः, बाहुना भुजेन, चिरं दीर्घकालपर्यन्तम्, धृत्वा भृत्वा शशास रक्षति स्म ॥१६॥
कदाचिदसन्त इति –— कदाचिज्जातुचित् विरहिजनदुरन्ते विप्रलम्भिदुःखप्रदे, प्रसाधितवनान्ते समलंकृतवनमध्ये, वनप्रियाणां कोकिलानां विरुतैः शब्दैर्मुखरितः शब्दायमान आशान्तो दिगन्तो यस्मिन् तस्मिन्, वसन्ते पुष्पत, सम्प्रवृत्ते सति पुष्पफलादिकं कुसुमफलप्रभृतिकम्, उपहारीकुर्वता समुपनयता, वनपालेन मालाकारेण, वनविहाराय उद्यानक्रीडाये, विज्ञापितो निवेदितः, वसुधापती राजा जीवन्धरः, अष्टाभिः कान्ताभिर्वल्लभाभिः समं साकम्, नगरात् राजपुरीनामधेयात्, निर्याय निर्गत्य, पर्याप्ताः प्रचुराः फलकुसुमपल्लवतल्लजाः फलपुष्प किसलयश्रेष्ठा यस्मिंस्तत्, उपवनमुद्यानम् आसाद्य प्राप्य तत्रोपवने, वनपालेन वनरक्षकेण, निवेद्यमानान् सूच्यमानान्, पल्लविता: किसलयिताः पुष्पिताः कुसुमिताः फलिताः, फलयुक्ताश्च ये तरुनिकरा वृक्षसमूहास्तान् : निरीक्षमाणो विलोकमानः, चिरं दीर्घकालं यावत्, विजहार व्यहार्षीत् विहारं कृतवान् चिक्रीड वा ।
वल्गत्कुचमिति -- तत्रोपवने, देव्यो राज्यः सपदि झटिति वल्गन्तः संचलन्तः कुचाः स्तना यस्मिंस्तत्, भङ्गुरो भङ्गोन्मुखो मध्यभागः कटिप्रदेशो यस्मिंस्तत् स्विद्यन्तौ स्वेदयुक्तौ कपोलौ गण्डौ यस्मि - स्तत्, अलकाकुलं चूर्णकुन्तलव्याप्तं वक्त्रस्त्रिं मुखमण्डलं यस्मिंस्तत्; व्यालोलानां चञ्चलानां कङ्कणानां कटकानां झणःकृतिरव्यक्तशब्दविशेषो यस्मिंस्तत्, यथा स्यात्तथा, करतलैर्हस्ततलैः, कुतुकात् कौतूहलात्, पुष्पग्रहं कुसुमावचयम्, अकार्षुः कृतवत्यः । वसन्ततिलकावृत्तम् ॥१७॥
2
एवं चिरमिति - एवमनेन प्रकारेण, चिरं दीर्घकालपर्यन्तम्, विस्तारिता कृता द्विविधा द्विप्रकारा या वनक्रीडा काननकेलिर्जलकेलिश्च तथा श्रान्ताः खिन्नास्तासाम्, क्रीडासंमर्देन क्रीडाविमर्देन विलुलितानि मर्दितानि लतान्तानि पुष्पाणि याभिस्तासाम्, व्यालोलाश्चपला नयनान्ता नेत्रप्रान्ता यासां तासाम्, कान्तानाम् वल्लभानाम्, संदोहेन समूहेन, सह सार्धम्, क्वचन कुत्रचित् निषण्णः समुपविष्टः, तत्रोपवने, गन्धर्वदत्तायाः प्रथमपत्न्याः कुचकुम्भयोः स्तनकलशयोर्युगलं युगं तस्मिन्, मारमदेभस्य काममत्तकारिणो मधारयमाणां दानश्रेणीवदाचरन्तीम्, कस्तूरीधारां मृगमदप्रवाहम्, निपातयन् मोचयन्, गुणमालावक्षःस्थले, गुणमालोरस्थले सुरभिलेन सुगन्धिना मृगमदेन कस्तूर्या मेदुरो मिलितो यो मलयजरसश्चन्दनरसस्तम्, लिम्पन् उपदिहन, सुरमञ्जर्याः, नाभिकुहरात् तुन्दिगर्तात् आरभ्य प्रारभ्य, काश्मीरपङ्केन कुङ्कुमद्रवेण, लतां वल्लीम, विलिखन् अङ्कयन्, पद्माया एतन्नामकभार्यायाः, कपोलयोर्गण्डयोः, मकरिकां मकराकृतिम्, विस्तारयन् विततां कुर्वन्, क्षेमश्रिय एतन्नाम्न्याः पत्न्याः वदने मुखे, मृगमदतिलकं कस्तूरीस्थासकम्,
१ विहाराय ब० । २ कान्तानां ब० ।