________________
एकादशी लम्भः
गर्भच्छलेन संक्रान्तं प्रतिविम्बं धरापतेः । उद्दुर्गन्धर्वदत्ताद्याः संनिभा दर्पणश्रिया ॥ १२ ॥ देवीजनस्य विकचोत्पलशोभि वक्त्रं कोकद्रयम्य सदृशं कुचयुग्ममासीत् । आनीलचूचुकलं विलसत्तमालपत्राञ्चिताग्रनवहेमघटप्रतीपम् ॥ १३ ॥ मणिकाञ्चीलापेन दूयमानो दिने दिने । महिपीणां मध्यभागः क्रशिमानं जहाँ तदा ॥ १४ ॥
तदनुप्राप्ते प्रसवसमये शुभदिवसे सावधानैर्नाडिपरिज्ञानसाधनस्वाधीनचित्तैर्गणकैर्गृहीते लग्ने देवीततिः कादम्बिनीवेरं मदा-पुत्रानसूत । ततः प्रहपविस्तारितलोचनः पृथ्वीकमनः पुत्रान्द्रष्ट्रा शुभदिवसे कलितमहोत्सवस्तेषां गन्धर्वदत्तप्रभृतिदेवीपुत्राणां सत्यंधर- सुदर्शन-धरणि - गन्धोत्कटविजय दत्त भरत - गोविन्दनामधेयानि प्रकटीचकार ।
एवं सौख्येन वसतः पाकारिसदृशश्रियः । धराधिपस्य धीरस्य त्रिंशद्वर्षाण्ययासिपुः ।। १५ ।।
ख्यातौ श्रीभरताधिराजसदृशो नीतौ च रामप्रभो
-
स्तुल्य: संपदि पाकशासनसमः पृथ्वीपतिः कौरवः ।
धर्मे धर्मतनूभवेन तुलितस्तुल्यो ऽर्जुनेनाहवे
सोऽयं भाग्यनिधिः शशास वसुधां धृत्वा चिरं वाहुना ॥ १६ ॥
२२१
देवीनां गन्धर्वदत्तादीनाम्, उदराणि जठराणि कर्माणि, सरसीनां कासाराणाम्, जलानि सलिलानि, शशिबिम्बा इव चन्द्रबिम्बानीव, गर्भा दौर्हृदानि, विविशुः प्रविष्टाः ।
गर्भच्छलेनेति - दर्पणश्रिया मुकुरलचम्या, संनिभाः सदृश्यः, गन्धर्वदत्तायाः, गर्भच्छलेन भ्रूगव्याजेन, संक्रान्तं प्रतिफलितम्, धरापते राज्ञः प्रतिविम्बं प्रतिमानम्, ऊडुर्धृतवत्यः ॥१२॥
देवीजनस्येति—देवीजनस्य राज्ञीसमूहस्य वक्त्रं वदनम्, विकचोत्पलशोभि प्रस्फुद्रारविन्द मि शोभमानम्, कोकद्र्यस्य चक्रवाकयुगलस्य, सदृशं सन्निभम् आनीलचूचुकतलं श्यामाप्रदेशम्, कुचयुग्मंस्तनयुगलम्, विलसत्तमालपत्रेण शोभमानतापिच्छच्छदेनाञ्चितो विराजितो योऽग्रनवहेमघटः पुरोवर्तिनूतनकाञ्चनकलशस्तस्य प्रतीपं सदृशम्, आसीद् बभूव । उपमा । वसन्ततिलकावृत्तम् ।। १३ ॥
मणिकाञ्चीति - मणिकाञ्चीकलापेन रत्नरशनादाम्ना, दिने दिने वीप्सायां द्वित्वम्, दूयमानो दुःखीभवन्, महिषीणां राज्ञीनाम्, मध्यभागः कटिप्रदेशः, तदा तस्मिन् काले, ऋशिमानं कृशत्वं क्षीणतामिति यावत् । जहाँ तत्याज | 'ओहाक् त्यागे' इत्यस्य लिटि रूपम् ॥ १४॥
तदनु प्राप्त इति — तदनु तदनन्तरम्, प्रसवसमये प्रसूतिकाले, प्राप्ते समागते सति, शुभदिवसे श्रेष्ठवासरे, सावधानैरप्रमत्तः नाडीपरिज्ञानस्य घटिकाज्ञानस्य साधनेषु मन्त्रविशेषेषु स्वाधीनं निजायत्तं चित्तं येषां तैः, गणकैदैवज्ञैः, गृहीते समात्ते विदित इति यावत्, लग्ने मुहूर्ते, देवीततिर्महिषीसमूहः, कादम्बिनी मेघमाला, इरंमदानिव मेघज्योतींषीव, पुत्रान् सुतान् असूत समुत्पादयामास । ततस्तदनन्तरम्, प्रहर्षेण प्रकृष्टप्रमोदेन विस्तारिते दीर्घे लोचने नयने यस्य सः, पृथ्वीकमनो महीपतिर्जीवन्धर इति यावत् पुत्रान् सुतान् दृष्ट्वा विलोक्य, शुभदिवसे श्रेष्ठदिने, कलितो महोत्सवो येन सः, तथाभूतः सन् गन्धर्वदत्ताप्रभृतिदेवीपुत्राणां खेचरसुतादिमहिषसूनूनाम्, सत्यन्धर- सुदर्शन-धरणि-गन्धोत्कट - विजय-दत्त-भरत गोविन्दनामधेयानि, प्रकटीचकार प्रकटयामास ।
एवं सौख्येनेति - एवमनेन प्रकारेण, सौख्येन सुखेन, वसतो निवासं कुर्वतः पाकारिसदृश पुरन्दरतुल्या श्रीलक्ष्मीर्यस्य तस्य धीरस्य धैर्यगुणोपेतस्य धराधिपस्य राज्ञः, त्रिंशत् त्रिंशत्संख्याकानि, वर्षाणि हायनाः, अयासिषुर्व्यतिजग्मुः ॥ १५ ॥
ख्याताविति—ख्यातौ यशसि श्रीभरताधिराजेन प्रजापतिप्रथमपुत्रेण सदृशः समानः, नीतौ नये, रामप्रभो रामचन्द्रस्य, तुल्यः सदृशः, संपदि संपत्तौ पाकशासनसमः शक्रसन्निभः, धर्मे धार्मिककार्ये, धर्मतनूभवेन युधिष्ठिरेण तुलितः सदृशः, आहवे समरे, अर्जुनेन कौन्तेयेन, तुल्यः सदृशः, भाग्यनिधिः सुदैव
१ प्रदीपम् ब० ।