________________
२२०
जीवन्धरचम्पूकाव्ये अपारे घोरसंसारे विरक्तिविस्तृता हृदि । दीक्षायै त्वरयत्यद्य मां राकेन्दुनिभाननाः ॥ ८॥
यूयं खलु कुरुवंशलतामुक्ताफलायमानान्पुत्रानुत्पाद्य सन्ततं कान्तेन साकं सौख्यमनुभूय वयोऽन्ते दीक्षामुपागन्तुमर्हथेति । श्वश्रूगिरमिमां श्रुत्वा शोकविह्वलमानसाः । देव्यस्तस्याः पुरस्तस्थुर्नमिताननपङ्कजाः ॥ ६ ॥
ततश्च देवी विजया कुमारं समीपमानाय्य धराधिराजम् ।
कादम्बिनी हंसमिवारभट्या वैराग्यवाचा विधुरीचकार ।। १० ।। तदनु वैराग्यपदवीमनुगच्छन्त्या सुनन्दया सह महादेवी महीनाथं कृच्छायमाणं कृच्छ्रेणानुज्ञाप्य यथाविधि श्रमणीवर्यायाः पद्मार्यायाः सकाशेऽदीक्षिष्ट । श्रमणीनामग्रगण्या पद्मार्या विजयासुनन्दाभ्यां विश्राणितश्रमणीपदा नभसो निपतिता रत्नवृष्टिरिव प्रव्रज्या न प्रतिषेध्येति महीनार्थ बोधयामास ।
इति मधुरगिरा प्रबोधितोऽसौ नरपतिरानतमातृपादपद्मः ।
विनयभरवशाद्विवेश धीरो निजसदनं परिवारसम्परीतः ॥ ११ ॥ तदनु कतिपयदिवसापगमे क्रमेण देवीनामुदराणि सरसीनां जलानीव शशिबिम्बा गर्भा विविशुः। विज़म्भताम् वर्धताम्, इत्येवम्, प्रतिपाद्य कथयित्वा, प्रकृतं प्रस्तुतम्, अर्थ वृत्तम्, एवमनेन प्रकारेण, प्रकटयामास वर्धयामास ।
___ अपारे घोरसंसार इति-हे राकेन्दुनिभाननाः हे पूर्णचन्द्रसदृशवदनाः, अपारेऽनन्ते, घोरसंसारे भयंकरभवे, विषयार्थे सप्तमी, हृदि मानसे, विस्तृता वितता, विरक्तिवैराग्यम्, अद्य साम्प्रतम्, माम, दीक्षायै प्रव्रज्याय, त्वरयति प्रेरयति ॥८॥
यूयं खल्विति-यूयं भवत्यः, खलु निश्चयेन, कुरुवंशलतायाः कुरुवंशवल्लाः मुक्ताफलानीवाचरन्तीति तथाभूतान् , पुत्रान् सुतान् , उत्पाद्य समुत्पन्नान् कृत्वा, सन्ततं निरन्तरम्, कान्तेन पत्या, साकं सार्धम, सौख्यं गार्हस्थ्यसुखम्, अनुभूय समुपभुज्य, वयोऽन्ते दशान्ते, दीक्षां प्रव्रज्याम्, उपागन्तुं प्राप्तुम्, अर्हथ इति योग्याः स्थेति ।
श्वश्रगिरमिति-इमां पूर्वोक्ताम्, श्वश्रूगिरं धवसवित्रीभारतीम्, श्रुत्वा निशम्य, शोकेन वियोगवार्ताश्रवणजन्यविषादेन विह्वलं दुःखीभूतं मानसं चेतो यासां ताः, देव्यो गन्धर्वदत्तादयः, नमितान्यानम्राणि आननपङ्कजानि मुखारविन्दानि यासां ताः, तथाभूताः सत्यः, पुरतः पुरस्तात् , तस्थुस्तिष्ठन्ति स्म ॥ ६ ॥
ततश्च देवीति-ततश्च तदनु च, विजया देवी, धराधिराज पृथिवीपतिम्, कुमारं जीवन्धरम्, समीपमभ्यर्णम्, आनाय्य प्रापय्य, कादम्बिनी मेधमाला, आरभट्या घोरगर्जितेन, हंसमिव मरालमिव, वैराग्यवाचा प्रवज्यागिरा, विधुरीचकार दुःखीचकार ॥ १० ॥
तदन्विति-तदनु तदनन्तरम्, वैराग्यपदवीं विरक्तिमार्गम्, अनुगच्छन्त्यानुयान्त्या, सुनन्दया गन्धोत्कटपन्या, सह सार्धम्, महादेवी विजया, कृच्छ्रायमाणं दुःखीभवन्तम्, महीनाथं जीवन्धरम्, कृच्छ्रेण कष्टेन, अनुज्ञाप्य सम्बोध्य, यथाविधि विधिपूर्वकम्, श्रमणीवर्यायाः साध्वीश्रेष्ठायाः, पद्मायाः पद्माभिधानाया आर्यिकायाः, सकाशे निकट, अदीक्षिष्ट दीक्षां जग्राह । विजयासुनन्दाभ्यां जीवकजननीभ्याम्, विश्राणितं श्रमणीपदं प्रदत्तमाथिकापदं यया सा, पद्मार्या, नभसो गगनात्, निपतिता वृष्टा, रत्नवृष्टिरिव मणिवृष्टिरिव, प्रव्रज्या दीक्षा, न प्रतिषेध्या न निषेधनीया, इतीस्थम्, महीनाथं जीवकम्, बोधयामास सम्बोधितवती ।
इति मधुरगिरेति-इति पूर्वोक्तप्रकारेण, मधुरगिरा मिष्टवाण्या, प्रबोधितः समाश्वासितः विनयभरवशात् विनयातिशयेन, आनतौ वन्दितौ मातृपादपद्मौ जननीचरणकमले येन तथाभूतः, धीरो गभीरः, नरपती राजा, परिवारसम्परीतः सन् कुटुम्बजनपरिवृतः सन् , निजसदनं स्वकीयभवनम्, विवेश प्रविष्टवान् ॥ ११ ॥
तदन्किति तदनु तदनन्तरम्, कतिपयदिवसापगमे किञ्चिद्दिनव्यतिगमनानन्तरम्, क्रमेणः क्रमशः,