________________
एकादशो लम्भः
२२५
ये मोक्षलक्ष्मीमनपायरूपां विहाय विन्दन्ति नृपाललक्ष्मीम् । निदाघकाले शिशिराम्बुधारां हित्वा भजन्ते मृगतृष्णिकां ते ॥ २ ॥ तस्मात्नशचयाल्लब्ध्वा मानुपं जन्म दुर्लभम् ।।
प्रमादः स्वहिते कर्तुं न युक्त इह धीमता ॥ २६ ॥ इति मनसि चिन्तयन्कुमुदिनीकान्तो द्वादशानुप्रेक्षया तत्क्षणमक्षोभ्यां विरक्ति व्यवस्थापयन् , राज्यादिकं तृणाय मन्यमानः, तस्माद्वनान्निर्गत्य निर्वत्य च भगवजिनेन्द्रपूजाम् , धर्मामृतप्रदाननिरस्ततन्द्राद्योगीन्द्रान्मणिमयकिरीटकोटिविन्यस्तहस्ताम्भोरुहकुड्मलः कुम्भिनीपतिर्धमें शुश्राव ।
श्रत्वा धर्म वल्लभोऽयं धरित्र्या धीरः श्रीमान्धार्मविद्यो वभव ।
तत्संस्कारे कोविदैवुद्धिमद्भिः शाणोल्लीढः सन्मणिनिर्मलो हि ॥ ३० ॥ ततश्चारणयोः पूर्व पूर्वजन्मबुभुत्सया । पप्रच्छ नरपालोऽयं प्रश्रयस्य वशंवदः ॥३१॥ नपेण परिपृष्टोऽयमवधिस्पृष्टलोचनः । यथावत्कुरुवीरस्य समाचष्ट पुराभवम ॥ ३२॥
इमे, पूर्णार्थाः पूर्णसञ्चितधनानि, इतीत्थम्, विगता बुद्धिर्यस्य तथाभूतः, नरपशुः पुरुषाधमः, अणुप्रख्ये परमाणुतुल्ये, सौख्ये विषयशर्मणि, विहिता कृता रुचिरभिलाषो येन तथाभूतः, आरम्भस्य वशं गच्छतात्यारस्भवशगः उद्योगं कुर्वाणः सन् , प्रायेण, क्षितिधरनिभं पर्वतप्रतिमम्, अधिकं प्रचुरम्, दुःखम् अशर्म, प्रयाति लभते ॥२७॥
ये मोक्षलक्ष्मीमिति-ये जनाः, अनपायमविनश्वरं रूपं स्वभावो यस्यास्ताम्, मोक्षलक्ष्मीमपवर्गश्रियम्, विहाय त्यक्त्वा, नृपाललक्ष्मी राजविभूतिम्, विन्दन्ति लभन्ते, ते निदाघकाले ग्रीष्मतौं शिशिराम्बुधारां शीतलसलिलधाराम्, हित्वा त्यक्त्वा, मृगतृष्णिकां मृगमरीचिकाम्, भजन्ते सेवन्ते । निदर्शनालङ्कारः ॥ २८॥
तस्मादिति-तस्मात्कारणात् , क्लेशचयात् दुःखराशेः, दुर्लभं दुष्प्रापम्, मानुषं मानुष्यकम्, जन्म भवम्, लब्ध्वा प्राप्य, धीमता बुद्धिमता, इह लोके, स्वहिते निजश्रेयसि, प्रमादोऽनवधानता, कर्तुं विधातुम्, न युक्तो नोचितः॥ २६ ॥
इति मनसीति-इत्येवम्, मनसि चेतसि, चिन्तयन् विचारयन्, कुरुकुमुदिनीकान्तो जीवन्धरः, द्वादशानुप्रेक्षया अनित्यत्वादिभावनया, तत्क्षणं तत्कालम्, अक्षोभ्यामचञ्चलाम्, विरक्तिं वैराग्यम्, व्यवस्थापयन् स्थिरां कुर्वन् , राज्यादिकं साम्राज्यप्रभृतिकम्, तृणाय मन्यमानः तुच्छं जानन् 'मन्यकर्मण्यनादरे' इति चतुर्थी, तस्मात्पूर्वोक्तात् , वनात् काननात्, निर्गत्य निष्कम्य, भगवजिनेन्द्रपूजां भगवदर्हत्सपर्याम्, निर्वयं च कृत्वा च, धर्मामृतप्रदाने धर्मपीयूषवितरणे निरस्ता दूरीभूता तन्द्रालसता यस्य तस्मात् , योगीन्द्रात् मुनिराजात् , मणिमयकिरीटकोट्यां रत्नमयमौल्यग्रभागे विन्यस्तौ विक्षिप्तौ हस्ताम्भोल्हकुड्मलौ पाणिपद्मकोशौ यस्य तथाभूतः, कुम्भिनीपतिनृपतिः, धर्म वृषोपदेशम्, शुश्राव शृणोति स्म।
श्रत्वा धर्ममिति-धीरो गभीरः, श्रीमान् लचीमान् , अयमेषः, धरित्र्याः पृथिव्याः, वल्लभः स्वामी, अयं जीवन्धरः, धर्म योगीन्द्रकृतवृषोपदेशम्, श्रुत्वा निशम्य, धर्मविद्यां वेदेति धार्मविद्यः, बभूव, आसीत् , तत्संस्कारे मणिसंस्कारे, कोविदैविद्वद्भिः, बुद्धिमद्भिर्धीमद्भिः, शाणोल्लोढो निकषोघृष्टः, सन्मणिरुत्तमरत्नम्, हि निश्चयेन, निर्मलो विमलो भवति । यथा शाणोल्लेखनेन सन्मणिविमलो भवति तथासौ धर्मोपदेशमाकर्ण्य धार्मविद्यो विमलाभिप्रायश्च बभूवेति भावः ॥ ३० ॥
ततश्चारणयोरिति-ततस्तदनन्तरम्, प्रश्रयस्य विनयस्य, वशंवदोऽनुकूलभाषी, अयं नरपालो राजा, पूर्वजन्मबुभुत्सया बोद्ध मिच्छा बुभुत्सा पूर्वजन्मनः प्राग्भवस्य बुभुत्सा जिज्ञासा तया, चारणयोवारणर्द्धिसम्पन्नयोर्मुनिराजयोः, पूर्व ज्येष्ठम्, पप्रच्छ पृच्छति स्म ॥३१॥
नृपेणेति-नृपेण राज्ञा, परिपृष्टोऽनुयुक्तः अवधिरेव स्पष्टलोचनं यस्य सोऽवधिज्ञानस्पष्टनयनः, अयं ज्येष्ठमुनीन्द्रः, कुरुवीरस्य स्वामिनः, पुराभवं पूर्वजन्म, यथावत् यथाविधि, समाचष्ट जगाद ॥३२॥
२६