SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ एकादशो लम्भः दोष्णा कुन्दसमानकीर्ति विसरैरामोदिनीं मेदिनी वाचा सत्यविलासनुनममधुस्यन्दप्रतीपश्रिया । चितेन नितिपालनीतिपदवीं नेत्रेण सर्वप्रजा योगक्षेमकलां वभार नृपतिर्हन्तेन दानोदकम् ॥ १॥ तस्मिन्नरपतौ तत्र प्रजापालनतत्परे । राजन्वती च भूरासन्नगर्भा वसुन्धरा ॥२॥ तस्य च यशोमण्डलं शिशिरमपि शात्रवजनतंतापका णम, स्थिरमायनवरतभ्रमणशीलम्, निर्मलमपि मलिनीकृतारातिमुखकमलम, धवलमपि प्रजानुरागपरिमेदुरम्, निन्दितराजमण्डलमप्यानन्दितमहाराजमण्डलमुदजम्भत ।। तस्य च प्रतापाङ्करा दिक्सुन्दरीणां केशपाशेपु कल्हारशङ्काम , कर्ण देशघु किसलयस्तोमविभ्रमम, घनकुचकुम्भेपु काश्मीरशोभाम् , कटिप्रदेशेषु कौसुम्भपटसंभावनाम्, कराम्बुजेषु कुरुविन्दमयकङ्कणविलासम् , पादतलेषु लाक्षारसविच्छित्तिं संपादयामासुः। वह्निप्रतप्तद्रुतहेमवणेः प्रतापलेशैः कुमकुञ्जरस्य । लिप्तेषु सर्वेष्वपि भूमिभृत्सु मेरुभ्रमोऽभूत्सुरसुन्दरीणाम् ।। ३॥ दोष्णेति-नृपतिविन्वरः, दोष्णा बाहुना, कुन्दसमानकीर्तिविसरैमाध्यकुलुमकल्पयशोविस्तारैः, आमोदिनी प्रहर्षिणीम्, मेदिनी पृथिवीम्, उत्तममधुस्यन्दस्य श्रेष्टमा क्षकप्रवाहल्य प्रतीपा प्रतिपक्षिी श्रीः शोभा यस्यास्तया, वाचा वचनेन, सत्यविलासं तथ्यशोभान्, चित्तेन चेतसा, क्षितपालानां राज्ञां नीतिपदवी नयपद्धतिस्ताम्, नेत्रेण नयनेन, सर्वग्रजानां निखिलजनानां योगक्षेमयोरनर्जितप्राविनापसंरक्षणयोः कला वैदग्धी ताम्, हस्तेन पाणिना, दानाय त्यागायोदकं जल मति दानोदकम्, बभार दधार ॥ १ ॥ तस्मिन्नरपताविति-तत्र हेमानन्दमण्डले, तस्मिन् पूर्वाने, नरपतो जीवन्धरमहाराजे, प्रजापालनतत्परे जनावनदक्षे, सति, भूः पृथिवी, राजन्वती प्रशस्तराजयुक्ता, न्नानि मणयो गर्भे मध्ये यस्यास्तथाभूता रत्नगर्भा, वसुन्धरा च धनधारिणी च अभूत् आसीत् ॥ २॥ तस्य चेति-तस्य च राज्ञः, यशोमण्डलं कोर्तिसमूहः, शिशरमपि शीतलमपि, शात्रवजनस्य शत्रुसमूहस्य संतापकारणं दाहनिमित्तम्, स्थिरमपि स्थितिशीलमपि, अनवरतं निरन्तरं भ्रमणं सञ्चरणशीलं स्वभावो यस्य तत् , निर्मलमपि विमलमपि, मलिनीकृतानि कृष्णीकृतानि अरातीनां शत्रणां मुखकमलानि वदनपद्मानि येन तत् , धवलमपि शुक्लमपि, प्रजाया लोकस्यानुरागेण लौहित्येन पचे प्रेम्णा परिमेदुरं मिलितम्, निन्दितं जुगुप्सितं राजमण्डलं चन्द्र बम्बं येन तथाभूतमपि , आनन्दितं प्रहर्पितं महाराजमण्डलं पूर्णचन्द्रबिम्बं पक्षे महानृपातेसमूहं येन तत् , उजम्भत वृद्धि प्राप । विरोधाभासोऽलङ्कारः। तस्य च प्रतापाङ्करा इति-तस्य च राज्ञः प्रतापाडुरास्तेजःप्ररोहाः, दिक्सुन्दरीणां काष्ठाकामिनीनाम्, केशपादोपु कचसमूहेषु, कल्हारशङ्का रक्तार वन्दसंदेहम्, कर्णदेशेषु श्रवगप्रदेशेषु, किसलयस्तोमस्य पल्लवसमूहस्य विभ्रम आरेका तम्, धनकुचकुम्भेषु पानपयोधरकल शेषु, काश्मीरशोभा कुङ्कुमश्रियम्, कटिप्रदेशेषु मध्यदेशेषु, कौसुम्भपटस्य कुसुम्भरक्तवस्त्रस्य संभावनामुत्प्रेक्षाम, कराम्बुजेषु पाणिपद्मषु, कुरु वन्दमयकङ्कगविलासं पद्मरागमणिनिर्मितकटक वेभ्रमम्, पादतलेपु चरणतलेजु, लाक्षारसस्य यावकरसस्य विच्छित्ति शोभाम्, सम्पादयामासुश्चक्रः।। वह्निप्रतप्तति-चह्निना पावन प्रतसं निरसम् अतएव द्रुतं स्यन्दितं यद्धम सुवर्ण तस्य वर्णमिव वर्ण स्वरूपं येषां तैः, कृल्कुञ्जरस्य जीवन्धरस्य, प्रतापलेशस्तेजोऽशः, लिप्तेषु दिग्धेषु, सर्वेष्वषि निखिले
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy