________________
२१६
जीवन्धरचम्पूकाव्ये गोविन्दक्षितिपालकस्य तनुजां सल्लक्षणां लक्ष्मणां
___ कान्त्या काञ्चनवल्लरीसहचरी वृत्ताब्जकोशस्तनीम् । राकाशोतकराननां रतिपतेश्चापायमानभ्रवं
लग्ने सद्गुणगुम्भिते क्षितिपतिर्जग्राह पाणौ मुदा ॥ १४० ॥ तहानी सरभसमितस्ततः प्रधावितस्य परिजनस्य करवृतवेत्रलतापरस्परघट्टनजनितशब्दमेदुरेण विशृङ्खलमन्वविद्वचनारावविजृम्भितेन सभास्तारजनकृताशीर्वादविस्तृतेन घूर्णमानान्तःपुरजनाभरणझङ्कारमनोहरेण पुरतो जननिःसारणपरकञ्चुकिजनशब्दबन्धुरेण निर्दयप्रहतदुन्दुभिप्रभृतिवाद्यध्वनिनिर्भ रेणानेकसहस्रकलकलवहलेनोत्सवकोलाहलेन त्रिभुवनमपूर्यत ।
जयश्रिया साकममन्दकीर्ति विन्दन्कुरूणां पतिरेष धीरः। राज्यश्रिया सार्धमिमा कुमारी लब्ध्वा प्रजानां वलयं जुगोप ॥ १४१ ।। इति महाकविहरिचन्द्रविरचिते श्रीमति जीवन्धरचम्पूकाव्ये
लक्ष्मणालम्भो नाम दशमो लम्भः॥
समुपदिष्टवान् । अन्य रितरैः समानीताः सम्प्रापिताः, पद्मादिदेवीः, समागत्य प्राप्य,रहसि विजने, समालिङ्गय समाश्लिष्य, परिचुम्व्य च परिचुम्बनं विधाय च, सकलमनोव्यथानां निखिलमानसिककष्टानाम्, अवसानभूमिमन्तस्थानम्, हर्षातिभूमि प्रमोदातिस्थानम्, प्रापयामास ।
गोविन्देति-क्षितिपतिर्जीवन्धरः, सन्ति समीचीनानि लक्षणानि चिह्नानि यस्यास्ताम, कान्त्या रुच्या, काञ्चनवल्लरीसहचरी सुवर्णलतासदृशीम, वृत्ताब्जकोशस्तनी वर्तुलकमलकुड्मलकुचाम्, राकाशीतकर इव पूर्णिमाचन्द्र इवाननं मुखं यस्यास्ताम्, रतिपतेर्मदनस्य, चापायमानौ कोदण्डायमानो भ्रुवौ यस्यास्ताम्, गोविन्दक्षितिपालकस्य विदेहधरापतेः, तनुजां दुहितरम्, लक्ष्मणामेतन्नामधेयाम्, सद्गुणगुम्भिते-उत्तमगुणसहिते लग्ने मुहूर्ते, मुदानन्देन, पाणौ हस्ते, जग्राह स्वीचकार । तामुदवोढेति भावः ॥१४०॥
तदानीमिति-तदानी लक्ष्मणापरिणयनकाले, सरभसं सवेगं यथा स्यात्तथा, प्रधावितस्य प्रगतस्य, परिजनस्य परिकरलोकस्य, करेपु मृताः करता हस्तारोपिताः, ताश्च ता वेत्रलताश्च तासां परस्परघट्टनेन मिथोघातेन जनितः समुत्पादितो यः शब्दस्तेन मेदुरस्तेन, विशृङ्खलाः स्वच्छन्दा ये मन्त्रविदां मन्त्रज्ञानां वचनारावा वचनशब्दास्तैर्विजृम्भितो वृद्धिंगतस्तेन, सभास्तारजनैः सभास्थितपुरुषैः कृतो विहितो य आशीदिः सम्यगाशंसाशब्दस्तेन विस्तृतो विततस्तेन, घूर्णमाना इतस्ततो भ्राम्यन्तो येऽन्तःपुरजनास्तेषामाभरणानि तेषां झङ्कारोऽव्यक्तशब्दविशेषस्तेन मनोहरो मनोज्ञस्तेन, पुरतोऽये, जननिःसारणपरा लोकोत्सारणपरा ये कञ्चुकिजनशब्दा अन्तःपुरप्रतीहारीशब्दास्तैर्वन्धुरो मनोहरस्तेन, निर्दयं यथा स्यात्तथा प्रहतानि यानि दुन्दुभिप्रभृतिवाद्यानि दुन्दुभिप्रमुखवादित्राणि तेषां ध्वनिना शब्देन निर्भरः पूर्णस्तेन, अनेकसहस्रस्य भूयसां जनानामिति यावत् , यः कलकलोऽव्यक्तशब्दस्तेन, बहलः प्रचुरस्तेन उत्सवकोलाहलेन-उल्लासकलकलशब्देन, त्रिभुवनं त्रिलोकी, अपूर्यंत पूर्णा बभूव ।
जयश्रियेति-जयश्रिया साकं विजयलक्ष्म्या सार्धम्, अमन्दकीर्ति विशालरशः, विन्दन् लभमानः धीरो गभीरः, एपोऽयम्, कुरूणां पतिर्जीवन्धरः, राज्यश्रिया साम्राज्यलक्ष्म्या, साधं सह, इमाम्, कुमारी लक्ष्मणाम्, लब्ध्वा प्राप्य, प्रजानां लोकानाम्, वलयं समूहम्, जुगोप रक्षति स्म ॥१४१॥ इति महाकविहरिचद्रविरचिते श्रीमति 'कौमुदी' व्याख्याधरे, जीवन्धरचम्पू
काव्ये लक्ष्मणालम्भो नाम दशमो लम्भः।