________________
दशमो लम्भः
२१५
वृद्धक्षत्रपदे निपण्णमकरोद्वन्धोत्कटं भूपति
नन्दाढ्याय च यौवराज्यपदवीं प्राहाकुरूगां पति. तत्तद्योग्यपदे चकार निखिलान्पद्मास्यमुख्यान्सखी
नन्यांश्चापि धराधिपान्करणया स्वे म्वे पदेऽस्थापयत् ॥ १३५ ।। विद्याधरविशालाक्ष्या भाले चन्द्रार्धकोमले। पट्टवन्धनमातेने सोऽयं वसुमतीपतिः ॥ १३६ ।। राज्ञामुपायनान्येप गृहीत्वा कुमकुञ्जरः । ततो द्विगुणरत्नादिसाथै प्रादान्मुद्दा नृपः ॥ १३७ ।। यथार्ह मन्त्रिवृद्धानां वहुमानं धरापतिः । ततान वर्णवृद्धानामपि प्रत्येकमादरात् ॥ १३ ॥ औदार्यप्रथमावतारसरणौ जीवन्धरे भूपता
वर्थिभ्योऽभिमतप्रदानपदवीबद्धादरे जाग्रति । नाकानोकहदेवधेनुविलसञ्चिन्तामणीनां कथा
हास्याय प्रवदन्ति सभ्यविबुधाः शास्त्राधिपारंगताः ।। १३६ ।। तदनु चतुरङ्गवलसंगतेन नन्दाव्येन समानीतां निजजननी विजयामहादेवीं पादयोः प्रणिपत्य, तामानन्दपयोनिधिमग्नामाधाय, तया सह समागतस्य तापससंदोहस्य वाञ्छिताधिकं द्रविणजातं प्रदाय, मुदा तेषां पुण्यैकलभ्यां मोक्षपदवीमुपदिदेश । अन्यैः समानीताः पद्मादिदेवीः समागत्य रहसि समालिङ्गय परिचुम्व्य च सकलमनोव्यथानामवसानभूमि |तिभूमिं प्रापयामास ।
अत्यन्तसंयोगे द्वितीया, अकरां वलिरहिताम्, चकार । काष्टाङ्गारेण परिशोषितां पृथिवी द्वादशवर्षाणि यावत् करमुक्ताञ्चकारेति भावः ॥ १३४ ॥
वृद्धक्षत्रपदे इति-भूपतिर्नृपः, कुरूणां पतिर्जीवन्धरः, गन्धोत्कटं वैश्याधिपम्, वृद्धक्षत्रपदे स्थविरक्षत्रियस्थाने, निषण्णं स्थितम्, अकरोत् , तं पितृतुल्यं विदधाविति यावत्, नन्दाढ्याय च गन्धोत्कटसुताय च, यौवराज्यपदवीं यौवराज्यपदम्, प्रादात् प्रदत्तवान्, पद्मास्यमुख्यान् पद्मास्यप्रधानान् , निखिलान् सर्वान् , सखीन् मित्राणि, तत्तद्योग्यपदे यो यस्य योग्यस्तस्मिन् पदे, चकार विधे, अन्यानपीतरानपि, धराधिपान् राज्ञः, करुणया कृपया, स्वे स्वे पदे स्वकीये स्वकीये पदे, अस्थापयत् स्थापयामास ॥१३५॥
विद्याधरेति-सोऽयं पूर्वोक्तः, वसुमतीपति वन्धरः, विद्याधरविशालाक्ष्या गन्धर्वदत्तायाः, चन्द्रार्धकोमले रजनीकरार्धमृदुले, भाले ललाटे, पट्टबन्धनं पट्टराज्ञीबन्धनम्, आतेने चकार ॥ १३६ ॥
राज्ञामिति-एषः कुरुकुञ्जरः कुरुवंशप्रधानः, नृपो जीवकः, राज्ञां भूपानाम्, उपायनानि प्राभृतानि, गृहीत्वा समादाय, नतस्तद्दत्तोपायनप्रमाणात, द्विगुणरत्नादिसाथ द्विगुणीभूतमणिप्रभृतिसमूहम्, प्रादात् दत्तवान् ॥ १३७॥
यथाहमिति-धरापती राजा, यथाहं यथायोग्यम्, मन्त्रिवृद्धानां वृद्धसचिवानाम्, वर्णवृद्धानामपि ब्राह्मणादिषु वर्णेषु वृद्धा ज्येष्ठास्तेषामपि, प्रत्येकम्, आदरात् सन्मानात्, बहुमानं भूयान्समादरम्, ततान चकार ।। १३८॥
औदार्येति-औदार्यस्य वदान्यत्वस्य प्रथमावतारः प्रथमप्रवेशस्तस्य सरणिर्गिस्तस्मिन्, अर्थिभ्यो याचकेभ्यः, अभिमतप्रदानपदव्यां मनोरथदानकार्ये बद्धो विहित आदरः सन्मानं येन तस्मिन् , भूपतौ राजनि, जाग्रति सति विद्यमाने सति, शास्त्राब्धिपारंगताः श्रुतसागरपारीणाः, सभ्यविवुधाः सभ्यविद्वान्सः, नाकानोकहश्च देवधेनुश्च विलसच्चिन्तामणिश्च तेषां कल्पवृक्षसुरगवीशुम्भचिन्तामणीनाम्, कथाश्चर्चाः, हास्याय हासं कत्तु म्, प्रवदन्ति निगदन्ति । दानशूरोऽसावार्सादिति भावः ॥ १३६ ॥
तदन्विति-तदनन्तरम्, चतुरङ्गबलसंगतेन चतुर्विधसैन्यसहितेन, नन्दायेन, समानीतां सम्प्रापिताम्, निजजननी स्वमातरम्, विजयामहादेवीं विजया राशीम, पादयोश्चरणयोः, प्रणिपत्य नमस्कृत्य, ताम् मातरम्, आनन्दपयोनिधिमग्नां हर्षपारावारमग्नाम्, आधाय कृत्वा, तया मात्रा, सह साकम्, समागतस्य संप्राप्तस्य, तापससंदोहस्य तापससमूहस्य, वाञ्छितादभिलपितात्, अधिकं प्रभूतम, इविणं धनम्, प्रदाय दत्त्वा, मुदा हर्षेण, तेषां तापसानाम्, पुण्यैकलभ्यां सुकृतकप्राप्याम, मोक्षपदवीमपवर्ग मार्गम्, उपदिदेश